स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)
Svapnavasavadattam of Bhasa with Hindi Commentary
महाकवि भास / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 177, कुल 204 में से
संदर्भ में पढ़ें७० स्वप्नवासवदत्ते आणीदो। अणग्गिसक्खिअं वीणाववदेसेण दिण्णा। अत्तणो चवळदाए अणिव्वुत्तविवाहमङ्गळो एव्व गदो। अहअ अम्हेहिं तव अ वासवदत्ताए अ पडिकिदिं चित्तफळआए आलिहिअ विवाहो णिव्वुत्तो। एसा चित्तफळआ तव सआसं पेसिदा। एदं पेक्खिअ णिव्वुदो होहि। राजा — अहो अतिस्निग्धमनुरूपं चाभिहितं तत्रभवत्या। वाक्यमेतत् प्रियतरं राज्यलाभशतादपि। अपराद्धेष्वपि स्नेहो यदस्मासु न विस्मृतः ॥ १२ ॥ पद्मावती — (क) अय्यउत्त! चित्तगदं गुरुअणं पेक्खिअ अभिवादेदुं इच्छामि। ⁺धात्री — (ख) पेक्खदु पेक्खदु भट्टिदारिआ। (चित्रफलकां दर्शयति) पद्मावती — (दृष्ट्वा आत्मगतम्) (ग) हं अदिसदिसी खु इअं अय्याए आवन्तिआए। (प्रकाशम्) अय्यउत्त! सदिसी खु इअं अय्याए। नीतः। अनग्निसाक्षिकं वीणाव्यपदेशेन दत्ता। आत्मनश्चपलतयानिर्वृत्तविवाहमङ्गल एव गतः। अथचावाभ्यां तव च वासवदत्तायाश्च प्रतिकृतिं चित्रफलकायामालिख्य विवाहो निर्वृत्तः। एषा चित्रफलका तव सकाशं प्रेषिता। एतां प्रेक्ष्य निर्वृतो भव। (क) आर्यपुत्र! चित्रगतं गुरुजनं प्रेक्ष्याभिवादयितुमिच्छामि। (ख) प्रेक्षतां प्रेक्षतां भर्तृदारिका। (ग) हम् अतिसदृशी खल्वियमार्याया आवन्तिकायाः। आर्यपुत्र! सदृशी खल्वि- यमार्यायाः। ⁺ एतदारभ्य णेवेत्तीत्यन्तं ख. पुस्तके नास्ति।