स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)
Svapnavasavadattam of Bhasa with Hindi Commentary
महाकवि भास / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 17, कुल 204 में से
संदर्भ में पढ़ेंx INTRODUCTION. (प्रविश्य) नटी—अय्य ! इअह्नि । सूत्रधारः—आर्ये ! तव वदनजनितकौतूहलेन स्मितेन निवेदित इवान्तर्गतो भावः । ननु किञ्चिद् वक्तुकामासि । नटी—को एत्थ विह्मओ, अय्यो भावञ्जो त्ति । सूत्रधारः—तेन हि स्वैरमभिधीयताम् । नटी—इच्छेमि अय्येण सह उय्याणं गन्तुं । अत्थि मे तहिं इत्थिआकर- णीअं णिअमकय्यं । (नेपथ्ये) भूतिक ! त्वमप्युद्यानं गच्छ कुरङ्गीरक्षणार्थं, म(द)भावस्थो ह्यञ्जन- गिरिः । सूत्रधारः—आर्ये ! ननु भवत्या श्रुतम्—उद्यानं गता राजपुत्रीति। तस्मात् सम्प्रति सर्वतः परिगुप्तानि भवन्त्युद्यानानि । प्रतिनिवृत्तायां राजसुतायां स्वैरं गमिष्यावः । नटी—जं अय्यो आणवेदि । (निष्क्रान्तौ) स्थापना । " The ending of Avimāraka:— " (भरतवाक्यम्) भवन्त्वरजसो गावः परचक्रं प्रशाम्यतु । इमामपि महीं कृत्स्नां राजसिंहः प्रशास्तु नः ॥ (निष्क्रान्ताः सर्वे) षष्ठोऽङ्कः । अविमारकस्य षष्ठोऽङ्कः । एषोऽवसितश्च ॥ "