स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)
Svapnavasavadattam of Bhasa with Hindi Commentary
महाकवि भास / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 18, कुल 204 में से
संदर्भ में पढ़ेंINTRODUCTION, xi The beginning of Bâlacharita:— "(नान्द्यन्ते ततः प्रविशति सूत्रधारः) सूत्रधारः— शङ्खक्षीरवपुः पुरा कृतयुगे नाम्ना तु नारायण- स्त्रेतायां त्रिपदार्पितत्रिभुवनो विष्णुः सुवर्णप्रभः । दूर्वाश्यामनिभः स रावणवधे रामो युगे द्वापरे नित्यं योऽञ्जनसन्निभः कलियुगे वः पातु दामोदरः ॥ एवमार्यमिश्रान् विज्ञापयामि । अये किन्नुखलु मयि विज्ञापनव्यग्रे शब्द इव श्रूयते । अङ्ग ! पश्यामि । (नेपथ्ये) अहं गगनसञ्चारी । सूत्रधारः—भवतु विज्ञातम् । पतत्यसौ पुष्पमयी च वृष्टिर्नदन्ति तूर्याणि च देवतानाम् । द्रष्टुं हरिं वृष्णिकुले प्रसूतमभ्यागतो नारद एष तूर्णम् ॥ (निष्क्रान्तः)" The ending of Bâlacharita:— "( भरतवाक्यम् ) इमां सागरपर्यन्तां हिमवद्विन्ध्यकुण्डलाम् । महीमेकातपत्राङ्कां राजसिंहः प्रशास्तु नः ॥ पञ्चमोऽङ्कः । अवसितं बालचरितम् ॥"