स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)
Svapnavasavadattam of Bhasa with Hindi Commentary
महाकवि भास / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 19, कुल 204 में से
संदर्भ में पढ़ेंxii INTRODUCTION. The beginning of Madhyamavyāyoga:— “(ततः प्रविशति सूत्रधारः) सूत्रधारः— पायात् स वोऽसुरवधूहृदयावसादः पादो हरेः कुवलयामलखङ्गनीलः । यः प्रोद्यतस्त्रिभुवनैकमणे रराज वैदूर्यसंक्रम इवाम्बरसागरस्य ॥ एवमार्यमिश्रान् विज्ञापयामि । अये किन्नुखलु मयि विज्ञापनव्यग्रे शब्द इव श्रूयते । अङ्ग ! पश्यामि । (नेपथ्ये) भोस्तात ! को नुखल्वेषः । सूत्रधारः—भवतु विज्ञातम् । भोःशब्दोच्चारणादस्य ब्राह्मणोऽयं न संशयः । त्रास्यते निर्विशङ्केन केनचित् पापचेतसा ॥ (नेपथ्ये) भोस्तात ! कोनुखल्वेषः । सूत्रधारः—हन्त दृढं विज्ञातम् । एष खलु पाण्डवमध्यमस्यात्मजो हिडि- म्बारणिसम्भूतो राक्षसामिरिकृतवैरं ब्राह्मणजनं वित्रासयति । भोः! कष्टं कष्टं खलु पलीसुतपरिवृतस्य ब्राह्मणस्य वृत्तान्तः । अत्र हि, श्रान्तैः सुतैः परिवृतस्तरुणैः सदारो वृद्धो द्विजो निशिचरानुचरः स एषः ।