स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)
Svapnavasavadattam of Bhasa with Hindi Commentary
महाकवि भास / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 183, कुल 204 में से
संदर्भ में पढ़ें७६ स्वप्नवासवदत्ते राजा — (उत्थाप्य) यौगन्धरायणो भवान् ननु । मिथ्योन्मादैश्च युद्धैश्च शास्त्रदृष्टैश्च मन्त्रितैः । भवद्बलैः खलु वयं †मज्जमानाः समुद्धृताः ॥ १८ ॥ यौगन्धरायणः — स्वामिभाग्यानामनुगन्तारो वयम् । पद्मावती — (क) अम्मेहे अय्या खु इअं । अय्ये! सहीजणसमुदाआरेण अदिक्कन्दो समुदाआरो । ता सीसेण पसादेमि* । वासवदत्ता³ — (पद्मावतीमुत्थाप्य) (ख) उट्ठेहि उट्ठेहि अवि- हवे! उट्ठेहि । अत्थिँसं⁴ णाम सरीरं अवरज्झइ । राजाँ⁵ — वयस्य यौगन्धरायण! देव्यपनये का कृता ते बुद्धिः । यौगन्धरायणः — कौशाम्बीमात्रं परिपालयामीति । राजा — अथ पद्मावत्या हस्ते किं न्यासकारणम् । यौगन्धरायणः — पुष्पकभद्रादिभिरादेशिकैरादिष्टा स्वा- मिनो देवी भविष्यतीति । राजा — इदमपि रुमण्वता ज्ञातम् । यौगन्धरायणँः⁶ — स्वामिन्! सर्वैरेव ज्ञातम् । (क) अहो आर्या खल्वियम् । आर्ये! सखीजनसमुदाचारेणातिक्रान्तः समुदाचा- रः, तत् शीर्षेण प्रसादयामि । (ख) उत्तिष्ठोत्तिष्ठाविद्यवे! उत्तिष्ठ । अर्थित्वं नाम शरीरमपराध्यति । १. 'वयस्य ! यौ' ख. पाठः. २. 'म्मो अ' ख. पाठः. ३. 'त्ता उत्था' ख.पाठः. ४. 'विक्ख' ख. पाठः. ५. 'जा—यौ' ख. पाठः. ६. 'णः स्' ख. पाठः. † मज्जमाना मज्जनशीलाः । * एतदुत्तरं ('पादयोः पतति' ) इति पठितुमर्हम् ।