स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)
Svapnavasavadattam of Bhasa with Hindi Commentary
महाकवि भास / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 182, कुल 204 में से
संदर्भ में पढ़ेंषष्ठोऽङ्कः । ७५ राजा — कथं महासेनपुत्री । देवि ! प्रविश त्वमभ्यन्तरं पद्मावत्या सह । यौगन्धरायणः — नखलु नखलु प्रवेष्टव्यम् । मम भगिनी खल्वेषा । राजा — §किं भवानाह । महासेनपुत्री खल्वेषा । यौगन्धरायणः — भो राजन् ! भारतानां कुले जातो विनीतो ज्ञानवाञ्छुचिः । तन्नार्हसि बलाद्धर्तुं राजधर्मस्य देशिकः ॥ १६ ॥ राजा — भवतु पश्यामस्तावद्¹ रूपसादृश्यम् । संक्षिप्यतां यवनिका । यौगन्धरायणः — जयतु स्वामी । वासवदत्ता — (क) जेदु अय्यउत्तो । राजा — अये असौ यौगन्धरायणः, इयं महासेनपुत्री । (उभौ समाश्लिष्य) किन्नु सत्यमिदं स्वप्नः सा भूयो दृश्यते मया । अनयाप्येवमेवाहं दृष्ट्या वञ्चितस्तदा‡ ॥ १७ ॥ यौगन्धरायणः — स्वामिन् ! देव्यपनयेन कृतापराधः ख- ल्वहम् । तत् क्षन्तुमर्हति स्वामी । (पादयोः पतति) (क) जयत्वार्यपुत्रः । १. ‘त्र सा’ ख. पाठः. §. राजवचनं नास्ति ख. पुस्तके । ‡ तदा स्वप्नसमये ।