भारतकोश
संग्रह पर लौटें

स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)

Svapnavasavadattam of Bhasa with Hindi Commentary

महाकवि भास / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished204 पृष्ठ

षष्ठोऽङ्कः । ७५ राजा — कथं महासेनपुत्री । देवि ! प्रविश त्वमभ्यन्तरं पद्मावत्या सह । यौगन्धरायणः — नखलु नखलु प्रवेष्टव्यम् । मम भगिनी खल्वेषा । राजा — §किं भवानाह । महासेनपुत्री खल्वेषा । यौगन्धरायणः — भो राजन् ! भारतानां कुले जातो विनीतो ज्ञानवाञ्छुचिः । तन्नार्हसि बलाद्धर्तुं राजधर्मस्य देशिकः ॥ १६ ॥ राजा — भवतु पश्यामस्तावद्¹ रूपसादृश्यम् । संक्षिप्यतां यवनिका । यौगन्धरायणः — जयतु स्वामी । वासवदत्ता — (क) जेदु अय्यउत्तो । राजा — अये असौ यौगन्धरायणः, इयं महासेनपुत्री । (उभौ समाश्लिष्य) किन्नु सत्यमिदं स्वप्नः सा भूयो दृश्यते मया । अनयाप्येवमेवाहं दृष्ट्या वञ्चितस्तदा‡ ॥ १७ ॥ यौगन्धरायणः — स्वामिन् ! देव्यपनयेन कृतापराधः ख- ल्वहम् । तत् क्षन्तुमर्हति स्वामी । (पादयोः पतति) (क) जयत्वार्यपुत्रः । १. ‘त्र सा’ ख. पाठः. §. राजवचनं नास्ति ख. पुस्तके । ‡ तदा स्वप्नसमये ।

७६ स्वप्नवासवदत्ते राजा — (उत्थाप्य) यौगन्धरायणो भवान् ननु । मिथ्योन्मादैश्च युद्धैश्च शास्त्रदृष्टैश्च मन्त्रितैः । भवद्बलैः खलु वयं †मज्जमानाः समुद्धृताः ॥ १८ ॥ यौगन्धरायणः — स्वामिभाग्यानामनुगन्तारो वयम् । पद्मावती — (क) अम्मेहे अय्या खु इअं । अय्ये! सहीजणसमुदाआरेण अदिक्कन्दो समुदाआरो । ता सीसेण पसादेमि* । वासवदत्ता³ — (पद्मावतीमुत्थाप्य) (ख) उट्ठेहि उट्ठेहि अवि- हवे! उट्ठेहि । अत्थिँसं⁴ णाम सरीरं अवरज्झइ । राजाँ⁵ — वयस्य यौगन्धरायण! देव्यपनये का कृता ते बुद्धिः । यौगन्धरायणः — कौशाम्बीमात्रं परिपालयामीति । राजा — अथ पद्मावत्या हस्ते किं न्यासकारणम् । यौगन्धरायणः — पुष्पकभद्रादिभिरादेशिकैरादिष्टा स्वा- मिनो देवी भविष्यतीति । राजा — इदमपि रुमण्वता ज्ञातम् । यौगन्धरायणँः⁶ — स्वामिन्! सर्वैरेव ज्ञातम् । (क) अहो आर्या खल्वियम् । आर्ये! सखीजनसमुदाचारेणातिक्रान्तः समुदाचा- रः, तत् शीर्षेण प्रसादयामि । (ख) उत्तिष्ठोत्तिष्ठाविद्यवे! उत्तिष्ठ । अर्थित्वं नाम शरीरमपराध्यति । १. 'वयस्य ! यौ' ख. पाठः. २. 'म्मो अ' ख. पाठः. ३. 'त्ता उत्था' ख.पाठः. ४. 'विक्ख' ख. पाठः. ५. 'जा—यौ' ख. पाठः. ६. 'णः स्' ख. पाठः. † मज्जमाना मज्जनशीलाः । * एतदुत्तरं ('पादयोः पतति' ) इति पठितुमर्हम् ।

षष्ठोऽङ्कः । ७७ राजा — अहो शठः खलु रुमण्वान् । यौगन्धरायणः -- स्वामिन् ! देव्याः कुशलनिवेदनार्थ- मद्यैव प्रतिनिवर्ततामत्रभवान् रैभ्योऽत्रभवती च । राजा -- सर्व एव वयं यास्यामो देव्या पद्मावत्या सह । (भरतवाक्यम्) इमां सागरपर्यन्तां हिमवद्विन्ध्यकुण्डलाम् । महीमेकातपत्राङ्कां राजसिंहः प्रशास्तु नः ॥ १९ ॥ (निष्क्रान्ताः सर्वे) षष्ठोऽङ्कः । इति स्वप्ननॉटक(म)वसितम् । शुभं भूयात् । १. 'भ्य इहात्र' क. पाठः. २. 'जा-न्तु स' ख. पाठः. ३. 'न्तां' क. पाठः. ४. 'वासवदत्ता समाप्ता ।' ख. पाठः.

इस पृष्ठ पर कोई पठनीय पाठ (Text) उपलब्ध नहीं है (यह पृष्ठ रिक्त/ब्लैंक है)।

पाठभेदः । पृष्ठं पङ्किः मुद्रितपुस्तकपाठः. ख. पुस्तकादृष्टः ग. पुस्तकपाठः. २ २ पृष्ठ धृष्ट ,, ७ ति ............वा ति यौ ....णः वा ,, ८ णः-(कर्णं दत्त्वा) क णः-क ,, ११ विस्मितः निश्चितः ,, १४ णः-यो .... ति णः-भवति ! योधर्मावात्मा विनि- योजयति ,, १५ य्य ! .... अ य्य ! अ ३ १ णः-भवति! एवमनिर्ज्ञा- णः-एवमविज्ञातानि दैवतान्यप्यव तानि दैवतान्यव ,, ६ त्र चि त्र भवत्या चि ,, ७ वासी वमासी ,, ८ ति सि ,, ११ भटौ उभौ ,, १३ ष व ,, १४ पश्य कुतः ४ ४,५,६. नम् । .... (उ नम् । (उ ,, ८ णः-(आत्मगतम् ) त णः-त ५ १ णः-(स्वगतम् ) ए णः-ए ,, ३,४. ति । ततः प्र ति । प्र ,, १० (ततः प्रविश .... ता) (प्रविश्य) ता ,, ११, १२, १३, १४, १५. ए.... प ए । प

२ पृष्ठं पङ्क्तिः मुद्रितपुस्तकपाठः. ख. पुस्तकाद्दृष्टः ग. पुस्तकपाठः. ५ १६ हं । पद्मावती - भो ! हं । वासवदत्ता- (आत्मगतम्) इअं सा राजदारिआ । अभिजाणाणुरूवं खु से रूवं । पद्मावती - भो ! ६ १ स्ससि (हे?) हि । स्सत्थद्धि । " ५ म.... आ । मं.... अं । " ६ चि वदेदि । वि वारेदि । " ९ त्ता - (आत्मगतम् ) भो त्ता - भो " ११ हो .... दी । इमस्स हो.... री । एदस्स " १२ हत्तराणि चि .... दि । हारअत्ति .... न्ति । " १३ य्य ! किं दि य्य ! दि " १४ दुं इ दुं अभिप्पेदप्पदाणेण तवस्सिजणो उवणिमन्तीअदु दाव को किं एत्थ इ ७ १ तं भवत्या । भो तं भवत्यै । (परिक्रम्य) भो " ३ अहो वि अनेन वि " ४ ते । ते । तत् कुर्वताम् । " ८ क त " ९ यः । भोः ! यः । भवत्वेवं तावत् करिष्ये । भोः ! " १० ती - दि ती - अम्हहे दि " १२ ण इ णावि इ " १४ णः - इ णः - श्रूयताम् । इ " " कामिमामिच्छा का । इच्छा ८ १ त्ता - (आत्मगतम् ) हं त्ता - हं " १, २ मो .... । होदु, अ मो । होदु, सो अ " ३ पा प " ७ किं इ किं एत्थ इ " ८ भणादि आणवेदि ९ १ यः - .... अ यः - अ

३ पृष्ठं पङ्क्तिः मुद्रितपुस्तकपाठः. ख. पुस्तकादृष्टः ग. पुस्तकपाठः. ९ २ वतो.... । वत्या भवतो भगिन्याः परिपालनम् । ,, ३ तन्नभ भ ,, ६ दु । अ दु । अय्या अ ,, ७ जा ईंदिसी से आइदी, यादिसी से आकिदी इअ रा इअं वि रा ,, ११ णः—हन्त भोः ! अ णः—(आत्मगतम् ) अ १० २ त्क्र द्र ,, ५ ष्ये । (परिक्रम्य) अ ष्ये । भवतु दृष्टम् । अ ,, ६ न भ नानेन भ ,, ७ बंध बधा ,, ८ विभवाः विटपाः ,, १२ (अन्यतो विलोक्य) अथ अथ ,, १७ ती—अम्मो प ती— प ११ ३ री—(आचम्य) भ री— भ ,, ९ मे सन्दा मे दा ,, १० थ प थ भोः ! प ,, २० णः—भवितव्यम् । त णः— त ,, २१ री— तत....स्ता री— ततस्ता १२ ५ सचिवस्त अमात्यस्त ,, ६ णः—सत्यं प णः—प ,, १० त्ता— जा त्ता—(आत्मगतम् ) जा ,, १४ जय राजा मो जय परिष्वज्य मो १३ १० रः सहसोत्थाय र उत्थायोत्थाय ,, १३ (दुःखि)ताः तादृशाः १४ ९ त्ता—दिट्ठिआ सु त्ता— सु ,, १० महद्वारसु महान् भारतमु ,, ११ न् । कुतः, स न् । स

४ पृष्ठं पङ्किः मुद्रितपुस्तकपाठः. ख. पुस्तकादृष्टः ग. पुस्तकपाठः. १४ १२ स्य तु श्र स्य तच्छ्रू ,, १६ षितम्,....इत्येवं तं वि षितम् इत्येवं वि १५ १ नममात्यैर्महता य नं महाय ,, २ न्तम् । ततो निष्क्रा न्तमपश्यम् । ततोऽपक्रा ,, ६ णा एवं प णा प ,, ९ व्य सह म व्व म ,, १२ ब्रह्मचारी— तथास्तु (निष्क्रान्तः) निष्क्रान्तो ब्रह्मचारी ,, १३ णः— अह णः— साध्वह १६ ३, ४. ष्ठिष्यति । (काञ्चु- कीयमवलोक्य) ग ण्ठयिष्यति । ग ,, ६ यौग....न्तः) निष्क्रान्तो यौगन्धरायणः ,, १० गच्छामि दाव अ वन्दामि अ ,, ११ हि ।....का हि । का १७ १ ति ! त्यः ! १८ ३ आ माहवीळदाम आ पदुमावदी माहवीम ,, ४ स्सदो स्सगदा ,, ,, त्ति । जाव भ त्ति । गच्छ तुवं अहं पि भ ,, ५ मि । (परिक्रम्य) अ मि । अ ,, ,, करिद्दक कण्ठिअक ,, ७ कन्दुएण मुहेण ,, १० ति कन्दुकेन क्रीडन्ती प ति प ,, ,, त्तया सह) त्ता चेटी च) १९ १ ती— अय्ये ! भो ती— भो ,, २ त्ता— हळा! अ त्ता— अ ,, ४ हु दाव भ दु भ ,, ७, ८ सि । वा.... ह सि । आवन्तिका— ह

५ पृष्ठं पङ्क्तिः मुद्रितपुस्तकपाठः. ख. पुस्तकदृष्टः ग. पुस्तकपाठः. २० १ सा तु सखि तु ,, ६ टी—भट्टिदारिआ ते टी—ते ,, १०, ११ ता—....के ता—के २१ १ ता—(आत्मगतम्) जा ता—जा ,, ७ ढुं (प्रकाशम्) ह ढं ह ,, ८ णीओ ज णीज ,, ९ ती—जुज्जइ । ण खु ए ती—अज्ज उण ए ,, १० णमणेाभि णामि ,, १२ त्री—जेदु भट्टिदारिआ । त्री—भट्टिदारिए ! दि भट्टिदारिए ! दि २२ १ स्स । स्स दिण्णा । ,, ३ ता—अह कु ता—हं । (प्रकाशम्) अय्ये ! कु ,, ४ सो....अ । इह आओदो । पडिच्छिदा भट्टिदा- रिआ । ,, ९ अ उ अ पुणो उ ,, ११ न्ति । न्ति सोअसुण्णाणि । २३ ५ ता—....। अ ता—होइ । अ ,, ८ दु दाव अ दु अ ,, ११ ता—(आत्मगतम्) ज ता—ज ,, १२ दाइ मे रोदि मे ,, १३ धात्री—एदु एदु भ चेटी—पविसदु दाव अब्भन्तरं भ २४ १ ति विचिन्तयन्ती वा ति सचिन्ता वा ,, ४ वृत्तं च्वुत्तं ,, ९ (ततः प्रविशति पुष्पाणि (प्रविश्य पुष्पहस्ता) चे गृहीत्वा चे) ,, १० आ ।....अ आ । अ

१ पृष्ठं पङ्क्तिः मुद्रितपुस्तकपाठः. ख. पुस्तकदृष्टः ग. पुस्तकपाठः. २४ ११ रपडिहदचन्दलेहा विअ रगदा विअ पडिवदचन्दलेहा अ अ २५ १ य्ये आवन्तिए! को य्ये ! को ,, ४ चेटी धात्री ,, ५ णा त्ति । इ णा आवन्तिआ । इ ,, ८ त्ता— (आत्मगतम्) एदं वि मए कत्तव्वं त्ता— इदं पि मए कादव्वं होइ । आसी । ,, ९ अहो अक अक ,, १० अय्ये! मा दाणि अण्णं मा दाणि चि चि ,, ,, एसो जा जा ,, ११ दि । सिग्धं दाव गुह्मदु दि । अय्या । २६ १, २, ३, ४, ५. त्ता— .... कीदि त्ता—कीदि ,, ६ ण ईरिसो दि तादिसो ण दि ,, ७ हि .... ओ । हि । ,, ८ सअं .... सर सकं भणिदुं स सर ,, ११ ससङ्कि सदंसणसङ्कि ,, १२ य्या सिग्धं । य्या । २७ १ त्ता— .... इ त्ता—इ ,, २ मन्द .... (विलो आणेहि दाव । (विलो ,, ४ त्ता— .... इ त्ता—इ ,, ५ ए अ । .... इ ए अ । इ ,, ८ कीस । किण्णिमित्तम् । ,, १२ जामादुओ भट्टा २८ १ अह वदामि । ग इअं तुवारोमि । भद्दे । ग

पृष्ठं पङ्क्तिः मुद्रितपुस्तकपाठः. ख. पुस्तकदृष्टः ग. पुस्तकपाठः. २८ २, ३, ४, ५ चेटी— ... गदा चेटी निष्क्रान्तापरया सह । गदा " ५, ६, ७. सा .... णिहं ळ सा जाव दावाणि भाअधेअणि- व्वुत्तं दुःखं विणोदेमि । अच्छा हिदं अ- य्यउत्तो वि णाम परकेरओ संवृत्तो। अहं वि दाणि मम सय्याए दुक्खं विणोदेमि णिहं ण ळ २९ २ कः—(सहर्षं) दि कः—भो ! दि " ३ ट्ठो । को ट्ठो । भो ! को " ७ ए अ ए उण अ " ८ दोसो .... भुजगोदर(पृ.३६) दोसो जगोदर ३७ ९ इमाणि अवइद .... आ- इदाणिं पचिद...............आणि पे- गुच्छआणि पेक्खदु दाव भ क्खदु भ ३८ १, २, ३, ४. तः । .... सव्वं तः । सव्वं " ६ ए! इदं ए! एव्वं करेमि । इदं " ८ हि । .... वि हि । वि ३९ १ कः — .... पभा कः—भो ! तह । पभा ४० १२ व्वेण स च्छेण वि स " १४ कुम् .... वि कुम् । वि ४१ ४ किं कथं ४२ १ ती— .... स ती—णहि णहि । स " २ जो .... य्याए जो उच्चरदाए " ६ तदा वा तदा तत्रभवती वा ४३ १ कः .... त कः—का गई । त " २ त्ता मे त्ता वि मे " ११ जा .... ए जा—ए " " त्ता अ त्ता । वयस्य! अ

८ पृष्ठं पङ्क्तिः मुद्रितपुस्तकपाठः. ख. पुस्तकदृष्टः ग. पुस्तकपाठः. ४४ ४ विही । राजा— विही । ईदिसं दाणि एदं । राजा— ,, ५ जा — न जा— वयस्य ! न ,, १४ तुवं .... अ तुमं । ण जुत्तं दाणि उकण्ठिअं अययं एआइणं विसज्जिअ गन्तुं । अ ४५ ३ मि । .... (प्रविश्य) मि । (प्रविश्य) ,, ६ कः .... एसा त कः—अये त ,, ९ कः — ए कः—भोदि ! इदं । पद्मावती—किं एदं णाम । विदूषकः —ए ४६ ४ जा — .... बस जा—वस ,, ६ धु । .... प धु । प ,, ९ पद्मावति! देवि ! ,, १५ इदं उचिदं ४७ ३ ढम् । .... गु ढम् । गु ४८ ८ का — .... ग का—ग ,, ९ हि । के हि । मा तुवं आणवेदा विअ के ४९ १ इ । क इ । पद्मिनिका—क ,, ३ पद्मिनिका मधुकरिका ,, ,, ण्णा । ग ण्णा । पद्मिनिका—ग ,, ६ होदु करेहि ५० ४ ट्टिणो णिवेदेहि .... निष्क्रा ट्टिण्णो सिग्धं णिवेदेहि । निष्क्रा ,, १२ राजा ) राजा सपरिवारः) ५४ १६ जा — .... मूर्ख जा—मूर्ख ! ५५ ११ टी — ए टी—इह ळहुअदरं ए ५६ ९ करिअ .... जाव करिअ विसज्जिअ णिग्गदा । जाव ,, १० सामि । .... (उप सामि । (उप ,, १४ अस्स सू अस्स आआरेणसू

पृष्ठं पङ्क्तिः मुद्रितपुस्तकपाठः. ख. पुस्तकादृष्टः ग. पुस्तकपाठः. १६ १५ (शयनं नाटयति) शेते १७ १ जा— .... हा जा—हा ,, २ ता— .... हं ता— हं ,, ४ त्तो । रा त्तो । मन्दभाआए मए किं किदं । रा ,, ५ हा अवन्तिराजपुत्रि ! वासवदत्ते ! ,, ६ त्तो । .... सु त्तो । भोदु, मु १८ ५ त्ता—को वि मं त्ता—इह को वि जणो मं ,, ६ ता गमिस्सं । ण जुत्तं चिट्ठिदुं ५९ ४ कः— .... उ कः—मा दाणि अणत्थं चिन्तिअ उ ,, ५ चिन्त.... वे । चिन्तिअ दिट्ठा तत्तहोदी विअ । ,, ७ जा— य जा— एवं स्वप्नो मया दृष्टः । य ,, ९ स्याद् स्य ,, ,, रम् । .... स्व रम् । अपिच स्व ,, १६ खम् ।। .... ए खम् । विदूषकः— इमस्सिं राउ- ळे अवन्तिसुन्दरी णाम जक्खिणी पडिवसदि । सा तुए दिट्ठा भवे । ए ६० ४ मो । (प्र मो । राजा — वयस्य ! पश्य पश्य, योऽयं सन्त्रस्तया देव्या तया बाहु- र्निपीडितः । खमेऽप्युत्पन्नसंस्पर्शो रोमहर्षं न मुञ्चति ॥ (प्र ६२ ५ तां व तां महाराजाय व ,, ११ महाप्पा मुहप्पा ६३ ३ को कु ,, ५ मुच्छूहेण मुहेण ,, १० मि । .... का मि । का ,, १४ विष्कम्भः प्रवेशकः ६४ ३ र्थं नु थासु

१० पृष्ठं पङ्किः मुद्रितपुस्तकपाठः. ख. पुस्तकादृष्टः ग. पुस्तकपाठः. ६४ ९ सुखा गता ,, १६ शान्तव शं गत्वा नव ६५ ७ किन्नुखलु अहो ६६ ,, ती .... अ ती—अ ,, ,, त्ति उदासीणं वि त्ति ण सिळाहणीयं वि ,, १४ एवमे सत्यमे ६७ २ तः । (त तः ॥ पद्मावती — अय्यउत्त ! ण किस्सं कं रक्खिदं पत्तकाळे । रा- जा—पद्मावति ! एवमेतत् । प्रती- हारी—जेदु भट्ठा । एसो कञ्चुई सत्ती पडिहारमुवट्ठिदा । राजा— शीघ्रं प्रवेश्यताम् । प्रतीहारी—जं भट्टा आणवेदि । निष्क्रान्ता । (त ,, १० त्रः । .... आ त्रः । राजा—आ ६८ १३ हृता कन्या हरन् कन्यां ६९ ३ जा— .... कु जा—कु ७१ १ न्ये । अ न्ये । भोः ! कष्टम् अ ,, ३ जूं दू ,, ४ क्खिअ .... धा क्खिदुमिच्छामि । धा ,, १२ ह प ह एव्व प ,, १३ जा—न किं जा—किं ७२ २ ती— .... म ती—म ,, ५ दि । .... रा दि । अय्या पेक्खिदु सदिसी ण वे त्ति । रा ,, १४ किन्नु एषे ७३ १ जा—शीं जा—तेन हि शी ,, ५ ति यौ ति ब्राह्मणवेषो यौ

११ पृष्ठं पङ्क्तिः मुद्रितपुस्तकपाठः ख. पुस्तकादृष्टः ग. पुस्तकपाठः ७३ १३ जा—श्रु जा—भोः ! श्रु " " रः । .... त्व . रः । त्व ७४ ३ आवन्तिकां प्रतीहारी वासवदत्ता " ८ जेदु पेक्खदु " ९ ति ! सा ति ! निर्यातय । अथवा सा " १० तः । तः, निर्यातय । " ११ इअं णीअदा ७५ ४ किं भवानाह । महासेनपु- किमाह भगिनी । ननु वासवदत्ता । त्री खल्वेषा । " ८ तन्नार्हसि ब नार्हसि त्वं ब " १३ त्री । (उभौ समाश्लिष्य) कि त्री । कि " १८ मी । (पादयोः पतति) रा मी । रा ७६ १ जा— (उत्थाप्य) यौ जा— यौ " ५ ती— .... अय्ये ! ती— अय्ये ! " ६ रेण अ रेण अजाणन्तीए अ " ८ त्ता— .... उ त्ता— उ ७७ २ नार्थ .... । रा नार्थ धात्री कञ्चुकी चोज्जयिनी रा " ४ ह । (भ ह । यौगन्धरायणः— यदाज्ञापयति स्वामी । (भ

क. पुस्तके त्रुटितांशः ख. पुस्तकादुपलब्धः मुद्रितपुस्तकस्य पृष्ठे पङ्क्तौ इत्यादिः पृष्ठे पङ्क्तौ इत्यन्तः १ ७ बलौ १ ९ कि ,, १२ ह । २ ३ र्व २ ८ प्र ,, ८ स ,, १० लै ,, १२ क्तो ,, १४ ए ,, १५ मु ३ २ न्य ३ ४ स्स ,, ८ प्य ,, ९ (ति ? सि) ,, १३ त ,, १४ लुनख ,, १९ नो ४ ३ प्क्रा ४ ८ स्त ,, ९ न्त्रि ,, १२ म । ,, १३ रं महा ,, १६ र्भा ,, १७ ना ५ ३ शि ५ ४ तः ,, ७ भ ,, ८ ज्ञ ,, १२ अदं ,, १३ सा ,, १७ स्स ६ २ हि । ६ ६ इम ,, ८ आ ,, १० ए ,, १२ ण ,, १५ इ ७ २ मि ७ ३ इ ,, ५ ते ,, ८ आ ,, ९ तं

२ पृष्ठे पङ्क्तौ इत्यादिः पृष्ठे पङ्क्तौ इत्यन्तः ७ १२ सं ७ १४ भोः ,, १७ नै ,, १७ श्नै ,, १८ त्ति ,, १८ हे ८ ३ यो ८ ३ राय ,, ६ वे ,, ६ तुं ११ १९ स ११ १५ सं ,, २० कि ,, २१ णः १२ ५ ग १२ ६ वा ,, ७ ग ,, ७ त्यं ,, ९ णान् ,, ११ त्ता ,, १५ नि ,, १७ का १३ ४ सा १३ ६ तःशनै ,, १० जा ,, १० प ,, १४ दा ,, १४ ता २० ११ वा २० १२ णेण २१ ५ स ,, ६ सि ,, ९ इ । २१ ९ सो २२ ४ वा २२ ४ ह २७ ३ क्य) २७ ३ ओ ,, ८ दं ,, ८ व्वं २८ २ वा २८ ३ टी ,, ७ अवि ,, ८ भामि। २९ ४ का २९ ५ दि ,, ७ प ,, ७ रसु ,, ९ वि ,, १० णा ३५ ११ णि ३५ ११ मद ,, १५ स ,, १५ मेव

३ पृष्ठे पङ्क्तौ इत्यादिः पृष्ठे पङ्क्तौ इत्यन्तः ३६ ४ वगु ३६ ४ भ ,, ६ हीही ,, ७ णी ,, ११ ने ,, १३ र ३७ २ ळा ३७ २ त्तो। अ ,, ९ जा ,, ९ वा ४२ ३ इ ४२ ३ वि ,, ८ व ,, ८ त्तो ,, १३ जा ,, १४ स ४३ ३ मे ४३ ३ अ ,, ६ अ ,, ७ दं ,, १२ जा ,, १३ नेन ,, १६ सं ४४ २ वा ४४ ७ दुः ,, ७ ब ५० २ किं ५० २ सि ,, ७ स ,, ७ अं ,, १५ ध्या ,, १६ ण ५१ ६ रा ५१ ८ दु ,, १४ र्वा ,, १५ त ५२ ३ एदु भ ५२ ४ प्का ,, १० प ,, १० व ५६ १२ उव ५६ १२ वाधि ,, १५ दा ,, १५ णी ५७ ४ दि ५७ ५ प ,, ७ णो ,, ७ ट्टिअ ,, ९ से ,, १० रा ,, १५ वा ,, १५ त्ता ५८ ६ को ५८ ६ पे

४ पृष्ठे पङ्क्तौ इत्यादिः पृष्ठे पङ्क्तौ इत्यन्तः ५८ १० म्भ्र ५८ १० णा ६२ १३ दि ६२ १३ दा ६३ ३ ह्ये ६३ ३ हिं ,, ६ णमु ,, ६ ण?) ६४ २ ततः ६४ २ जा वि ,, ८ न ,, ८ सि ,, १३ प्पि ,, १३ अ । ,, १७ शी ,, १७ घ्र ६९ २ रो ६९ २ आ ,, ७ ए ,, ७ नु ,, १२ जा ,, १२ वम् ,, १६ अ ,, १६ सो ७० ३ ह्ये ७० ४ त ,, ७ म ,, ७ रू ,, १२ पे ,, १२ क्ख ७५ १४ क्री ,, १९ योः ७६ ५ म ७६ ५ ग ,, १० संअं ,, ११ वय

श्लोकानुक्रमणिका । —————— पृष्ठम् पृष्ठम् अनाहारे तुल्यः १४ पृथिव्यां राज्ञः ६७ अनेन परिहा ४३ प्रच्छाद्य राज्ञः ७३ अस्य स्निग्धस्य ७१ प्रदेशो बहुमा ५५ अहमथजितैः ६८ बहुशोऽप्युपदे ५४ इमां सागरप ७७ भारतानां कुले ७५ इयं बाला नवो ४६ भिन्नास्ते रिपवो ६० उदयनवेन्दु १ भृत्यैर्मगधरा २ उपेत्य नागेन्द्र ६१ मधुमदकला ३८ ऋज्वायतां च सु ५२ महासेनस्य दु ६९ ऋज्वायतां च वि ३६ मिथोन्मादैश्च यु ७६ कस्यार्थः कल ७ यदि तावदयं ५९ कः कं शक्तो रक्षि ६९ यदि विप्रस्य भ ७२ कातरा येऽप्यश ६८ योऽयं सन्त्रस्ताया ६० कामेनोज्जयिनीं ३५ रूपश्रिया समु ५१ कार्यं नैवार्थैः ७ वाक्यमेतत् प्रिय ७० किं वक्ष्यतीति ह ६६ विस्रब्धं हरिणा १० किन्नु सत्यमिदं ७५ शय्यां नावनता ५३ खगा वासोपेताः १७ शय्यायामव ५९ गुणानां वा वि ४७ शरच्छशाङ्कगौ ४६ चिरप्रसुप्तः का ६४ श्रुतिसुखनिन ६४ तीर्थोदकानि ४ श्रोणीसमुद्वह ,, दुःखं त्यक्तं बद्ध ४४ श्लाघ्यामवन्तिनृ ५० धीरस्याश्रमसं २ षोडशान्तःपुर ६८ निष्क्रामन् सम्भ्र ५८ सम्बन्धिराज्यम् ६७ नैवेदानीं (दुः १३ सविश्रमो ह्ययं १४ पद्मावती नर ९ सुखमर्थो भ ८ पद्मावती बहु ४१ स्मराम्यवन्त्याधि ५४ परिहरतु भवान् ३ स्वप्नस्यान्ते विबु ५९ पूर्वं त्वयाप्यभि ,,