स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)
Svapnavasavadattam of Bhasa with Hindi Commentary
महाकवि भास / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 22, कुल 204 में से
संदर्भ में पढ़ेंINTRODUCTION. xv धृतराष्ट्रः— पुत्रप्रणाशाविफलं हि धिगस्तु राज्यम् । अश्वत्थामा— यातोऽद्य सौप्तिकवधोद्यतबाणपाणि- र्गां पातु नो नरपतिः शमितारिपक्षः ॥ (निष्क्रान्ताः सर्वे) ऊरुभङ्गमवसितम् ॥” The beginning of the Nātaka (of unknown name):— “(नान्द्यन्ते ततः प्रविशति सूत्रधारः) सूत्रधारः— पादः पायादुपेन्द्रस्य सर्वलोकोत्सवः स वः । व्याविद्धो नमुचिर्येन तनुताग्रनखेन खे ॥ एवमार्यमिश्रान् विज्ञापयामि । किन्नुखलु मयि विज्ञापनव्यग्रे शब्द इव श्रूयते । अङ्ग! पश्यामि । (नेपथ्ये) भो भोः प्रतिहाराधिकृताः ! महाराजो दुर्योधनः समाज्ञापयति । सूत्रधारः—भवतु विज्ञातम् । उत्पन्ने धार्तराष्ट्राणां विरोधे पाण्डवैः सह । पर्येति मन्त्रशालायां भृत्यो दुर्योधनाज्ञया ॥ (निष्क्रान्तः) स्थापना ॥”