स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)
Svapnavasavadattam of Bhasa with Hindi Commentary
महाकवि भास / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 23, कुल 204 में से
संदर्भ में पढ़ेंxvi INTRODUCTION. (ततः प्रविशति काञ्चुकीयः) भो भोः प्रतिहाराधिकृताः! महाराजो दुर्योधनः समाज्ञापयति — अद्य सर्वपार्थिवैः सह मन्त्रयितुमिच्छामि । तदाहूयन्तां सर्वे राजान इति । अये अयं महाराजो दुर्योधन इत एवाभिवर्तते । य एषः, श्यामो युवा सितदुकूलकृतोत्तरीयः सच्छत्रचामरवरो रचिताङ्गरागः । श्रीमान् विभूषणमणिद्युतिरञ्जिताङ्गो नक्षत्रमध्य इव पर्वगतः शशाङ्कः ॥ (ततः प्रविशति दुर्योधनः) दुर्योधनः — उद्धूतरोषमिव मे हृदयं सहर्षं प्राप्तं रणोत्सवमिमं सहसा विचिन्त्य । इच्छामि पाण्डवबले वरवारणाना- मुत्कृत्तदन्तमुसलानि मुखानि कर्तुम् ॥ काञ्चुकीयः — जयतु महाराजः । महाराजशासनात् समानीतं सर्वराजम- ण्डलम् । दुर्योधनः — सम्यक् कृतम् । प्रविश त्वमवरोधनम् । काञ्चुकीयः — यथाज्ञापयति महाराजः । (निष्क्रान्तः) दुर्योधनः — आर्यौ! वैकर्णवर्षदेवौ! उच्यताम्—अस्ति ममैकादशाक्षौहि(णी? णि) । बलसमुदयस्यास्य कः सेनापतिर्भवितुमर्हतीति । किमाहुर्भवन्तौ—महान् खल्वयमर्थः । मन्त्रयित्वा वक्तव्यमिति । सदृशमेतद्, आगम्यतां मन्त्रशालामेव प्रविशामः।आचार्य! अभिवादये। प्रविशतु भवान् मन्त्रशालाम्। पितामह! अभिवा- दये । प्रविशतु भवान् मन्त्रशालाम् । मातुल! अभिवादये । प्रविशतु भवान् मन्त्र-