स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)
Svapnavasavadattam of Bhasa with Hindi Commentary
महाकवि भास / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 24, कुल 204 में से
संदर्भ में पढ़ेंINTRODUCTION. xvii शालाम् । आर्यौ वैकर्णवर्षदेवौ! प्रविशतां भवन्तौ । भो भोः सर्वक्षत्रियाः! स्वैरं प्रविशन्तु भवन्तः । वयस्य कर्ण! प्रविशावस्तावत् । (प्रविश्य) आचार्य! एत- दासनमास्यताम् । पितामह! एतदा(सनमा)स्यताम् । मातुल! एतदासनमास्य- ताम् । आर्यौ वैकर्णवर्षदेवौ! आसातां भवन्तौ । भो भोः सर्वक्षत्रियाः! स्वैरमास- तां भवन्तः । किमिति किमिति महाराजो नास्त इति । अहो सेवाधर्मः । भव- त्वद्य" The beginning of Abhishekanātaka:— “( नान्यन्ते ततः प्रविशति सूत्रधारः ) सूत्रधारः— यो गाधिपुत्रमखविघ्नकराभिहन्ता युद्धे विराधखरदूषणवीर्यहन्ता । दर्पोद्धतोल्बणकबन्धकपीन्द्रहन्ता पायात् स वो निशिचरेन्द्रकुलाभिहन्ता ॥ एवमार्यमिश्रान् विज्ञापयामि । (परिक्रम्यावलोक्य) अये किन्नुखलु मयि विज्ञापनव्यग्रे शब्द इव श्रूयते । अङ्ग! पश्यामि । ( नेपथ्ये ) सुग्रीव! इत इतः । .... .... .... .... .... .... .... .... .... .... .... .... .... .... .... .... .... .... .... .... स्थापना ।”