स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)
Svapnavasavadattam of Bhasa with Hindi Commentary
महाकवि भास / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 59, कुल 204 में से
संदर्भ में पढ़ें२ उपोद्घातः आदौ नान्दी प्रयुज्य ‘नान्द्यन्ते सूत्रधार’ इति कथनं नाटकेष्वौत्सर्गिकम्। एषु तु ‘नान्द्यन्ते ततः प्रविशति सूत्रधार’ इत्यादावुपक्रम्य ततो मङ्गलश्लोको लि- नाटकप्रस्थानरीतिः। ख्यत इत्येषा रीतिः ; प्रस्तावनापदस्थाने च स्थापनापदस्य प्रयोगः। शूद्रककालिदासादिप्रणीतेषु सर्वेषु नाटकेषु प्र- स्तावनायां कविकाव्ययोर्नामनिर्देशः केषुचित् स्तुतिश्च प्रस्तावनाङ्गतया वितन्येते; एतेषु पुनर्नाटकेषु कवेः काव्यस्य वा नाममात्रमपि स्थापनायां न कीर्त्यते। ‘अस्मा- कं *राजश्रेष्ठः कृत्स्नां भूमिं प्रशास्तु’ इति वा ‘अस्माकं राजा भूमिं प्रशास्तु’ इति वा काचित् प्रार्थनामुद्रा भरतवाक्ये नियमेन निवेशिता । अन्ते अमुकनाटकमव- सितमिति नाटकनामधेय सर्वत्र लिखितमस्ति । त इमे व्यतिरेका अधस्तादुदाहृ- तेभ्यः स्वप्ननाटकादीनामारम्भ-समाप्तिवाक्येभ्यः स्पष्टमवगन्तुं शक्याः । तत्र यथा स्वप्ननाटकस्य (आरम्भवाक्यम्)— “(नान्द्यन्ते ततः प्रविशति सूत्रधारः ) सूत्रधारः— उदयनवेन्दुसवर्णावासवदत्ताबलौ बलस्य त्वाम् । पद्मावतीर्णपूर्णौ वसन्तकम्रौ भुजौ पाताम् ॥ एवमार्यमिश्रान् विज्ञापयामि । अये किन्नुखलु मयि विज्ञापनव्यग्रे शब्द इव श्रूयते । अङ्ग! पश्यामि । ( नेपथ्ये ) उस्सरह उस्सरह अय्य! उस्सरह । सूत्रधारः — भवतु विज्ञातम् । भृत्यैर्मगधराजस्य स्निग्धैः कन्यानुगामिभिः । धृष्टमुत्सार्यते सर्वस्तपोवनगतो जनः ॥ (निष्क्रान्तः) स्थापना ।”
- ‘राजसिंहः प्रशास्तु न’ इत्यत्र राजसिंहपदं राजश्रेष्ठार्थकम्। पल्लवेषु राजसु कश्चिद् राजसिंहसंज्ञो राजा यद्यपि श्रुतः , तथापि तस्य क्रैस्तवर्षारम्भोत्तरकालिकत्वाद् नाटकचक्रकर्तुः क्रैस्तवर्षारम्भप्राक्तनतायाः साधयिष्यमाणत्वाच्च न राजसिंहशब्दस्य तत्परत्वं युक्तमित्यभिप्रायः।