स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)
Svapnavasavadattam of Bhasa with Hindi Commentary
महाकवि भास / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 60, कुल 204 में से
संदर्भ में पढ़ेंउपोद्घातः ३ (समाप्तिवाक्यम्)— “(भरतवाक्यम् ) इमां सागरपर्यन्तां हिमवद्विन्ध्यकुण्डलाम् । महीमेकातपत्राङ्कां राजसिंहः प्रशास्तु नः ॥ षष्ठोऽङ्कः । स्वप्ननाटकमवसितम् ॥” यथा प्रतिज्ञानाटिकायाः (आरम्भवाक्यम्)— “ ( नान्द्यन्ते ततः प्रविशति सूत्रधारः ) सूत्रधारः— पातु वासवदत्तायो महासेनोऽतिवीर्यवान् । वत्सराजस्तु नाम्ना सशक्तिर्यौगन्धरायणः ॥ (परिक्रम्य नेपथ्याभिमुखमवलोक्य) आर्ये! इतस्तावत् । (प्रविश्य ) नटी—अय्य! इअह्मि । सूत्रधारः—आर्ये! गीयतां तावत् किञ्चिद्वस्तु । ततस्तव गीतप्रसाधिते रङ्गे वयमपि प्रकरणमारभामहे । आर्ये! किमिदं चिन्त्यते ननु गीयते । नटी—अज्ज! मए सिविणे णादिकुळस्स असत्थं विअ दिट्ठं। ता इच्छा- मि अय्येण कुसळविण्णाणनिमित्तं कञ्चि पुरुसं पेक्खिदुं । सूत्रधारः—बाढम् । पुरुषं प्रेषयिष्यामि व्यक्तमात्माहिते क्षमम् । (नेपथ्ये) साळक! सज्जस्त्वम् ।