स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)
Svapnavasavadattam of Bhasa with Hindi Commentary
महाकवि भास / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 67, कुल 204 में से
संदर्भ में पढ़ें१० उपोद्घातः नटी — जं अय्यो आणवेदि । (निष्क्रान्तौ) स्थापना । ” (समाप्तिवाक्यम्)— “ ( भरतवाक्यम् ) भवन्त्वरजसो गावः परचक्रं प्रशाम्यतु । इमामपि महीं कृत्स्नां राजसिंहः प्रशास्तु नः ॥ (निष्क्रान्ताः सर्वे) षष्ठोऽङ्कः । अविमारकस्य षष्ठोऽङ्कः । एषोऽवसितश्च ॥ ” यथा बालचरितस्य (आरम्भवाक्यम् ) — “ (नान्द्यन्ते ततः प्रविशति सूत्रधारः) सूत्रधारः— शङ्खक्षीरवपुः पुरा कृतयुगे नाम्ना तु नारायण- त्रेतायां त्रिपदार्पितत्रिभुवनो विष्णुः सुवर्णप्रभः । दूर्वाश्यामनिभः स रावणवधे रामो युगे द्वापरे नित्यं योऽञ्जनसन्निभः कलियुगे वः पातु दामोदरः ॥ एवमार्यमिश्रान् विज्ञापयामि । अये किन्नुखलु मयि विज्ञापनव्यग्रे शब्द इव श्रूयते । अङ्ग! पश्यामि । (नेपथ्ये) अहं गगनसञ्चारी । सूत्रधारः — भवतु विज्ञातम् । पतत्यसौ पुष्पमयी च वृष्टिर्नदन्ति तूर्याणि च देवतानाम् । द्रष्टुं हरिं वृष्णिकुले प्रसूतम्भ्यागतो नारद एष तूर्णम् ॥ (निष्क्रान्तः)”