स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)
Svapnavasavadattam of Bhasa with Hindi Commentary
महाकवि भास / पं. विश्वनाथ शास्त्री द्वारा
१० उपोद्घातः नटी — जं अय्यो आणवेदि । (निष्क्रान्तौ) स्थापना । ” (समाप्तिवाक्यम्)— “ ( भरतवाक्यम् ) भवन्त्वरजसो गावः परचक्रं प्रशाम्यतु । इमामपि महीं कृत्स्नां राजसिंहः प्रशास्तु नः ॥ (निष्क्रान्ताः सर्वे) षष्ठोऽङ्कः । अविमारकस्य षष्ठोऽङ्कः । एषोऽवसितश्च ॥ ” यथा बालचरितस्य (आरम्भवाक्यम् ) — “ (नान्द्यन्ते ततः प्रविशति सूत्रधारः) सूत्रधारः— शङ्खक्षीरवपुः पुरा कृतयुगे नाम्ना तु नारायण- त्रेतायां त्रिपदार्पितत्रिभुवनो विष्णुः सुवर्णप्रभः । दूर्वाश्यामनिभः स रावणवधे रामो युगे द्वापरे नित्यं योऽञ्जनसन्निभः कलियुगे वः पातु दामोदरः ॥ एवमार्यमिश्रान् विज्ञापयामि । अये किन्नुखलु मयि विज्ञापनव्यग्रे शब्द इव श्रूयते । अङ्ग! पश्यामि । (नेपथ्ये) अहं गगनसञ्चारी । सूत्रधारः — भवतु विज्ञातम् । पतत्यसौ पुष्पमयी च वृष्टिर्नदन्ति तूर्याणि च देवतानाम् । द्रष्टुं हरिं वृष्णिकुले प्रसूतम्भ्यागतो नारद एष तूर्णम् ॥ (निष्क्रान्तः)”
उपोद्घातः ११ (समाप्तिवाक्यम्)— “(भरतवाक्यम्) इमां सागरपर्यन्तां हिमवद्विन्ध्यकुण्डलाम् । महीमेकातपत्राङ्कां राजसिंहः प्रशास्तु नः ॥ पञ्चमोऽङ्कः । अवसितं बालचरितम् ॥” यथा मध्यमव्यायोगस्य (आरम्भवाक्यम्)— “(ततः प्रविशति सूत्रधारः ) सूत्रधारः— पायात् स वोऽसुरवधूहृदयावसादः पादो हरेः कुवलयामलखङ्गनीलः । यः प्रोद्यतस्त्रिभुवनैक्रमणे रराज वैडूर्यसंक्रम इवाम्बरसागरस्य ॥ एवमार्यमिश्रान् विज्ञापयामि । अये किन्नुखलु मयि विज्ञापनव्यग्रे शब्द इव श्रूयते । अङ्ग! पश्यामि । (नेपथ्ये) भोस्तात! कोनुखल्वेषः । सूत्रधारः— भवतु विज्ञातम् । भोःशब्दोच्चारणादस्य ब्राह्मणोऽयं न संशयः । त्रास्यते निर्विशङ्केन केनचित् पापचेतसा ॥ (नेपथ्ये) भोस्तात! कोनुखल्वेषः । सूत्रधारः— हन्त दृढं विज्ञातम् । एष खलु पाण्डवमध्यमस्यात्मजो हिडिम्बारणिसम्भूतो राक्षसामिरकृतवैरं ब्राह्मणजनं वित्रासयति । मोः! कष्टं
१२ उपोद्घातः कष्टं खलु पत्नीसुतपरिवृतस्य ब्राह्मणस्य वृत्तान्तः । अत्र हि— श्रान्तैः सुतैः परिवृतस्तरुणैः सदारो वृद्धो द्विजो निशिचरानुचरः स एषः । व्याघ्रानुसारचरितो वृषभः सधेनुः सन्त्रस्तवत्स इव (चा)कुलतामुपैति ॥ (निष्क्रान्तः) स्थापना ।" ──────── (समाप्तिवाक्यम्)— “भीमसेनः—हिडिम्बे! इतस्तावत् । वत्स घटोत्कच! इतस्तावत् । तत्रभवन्तं केशवदासमाश्रमपदद्वारमात्रमपि सम्भावयिष्यामः । यथा नदीनां प्रभवः समुद्रो यथाहुतीनां प्रभवो हुताशः । यथेन्द्रियाणां प्रभवं मनोऽपि तथा प्रभुनॊ भगवानुपेन्द्रः ॥ (निष्क्रान्ताः सर्वे) मध्यमव्यायोगोऽवसितः ॥” ──────── यथा कर्णभारस्य * (समाप्तिवाक्यम्)— “कर्णः—अये शब्द इव श्रूयते किन्नुखल्विदम् । शङ्खध्वनिः प्रलयसागरतुल्यघोषः कृष्णस्य वा ननु भवेत् स तु फल्गुनस्य । नूनं युधिष्ठिरपराजयकोपितात्मा पार्थः करिष्यति यथाबलमद्य युद्धम् ॥ ────────────────────────────────────
- अस्य स्थापनाप्रकरणं न दृश्यते ।
उपोद्घातः १३ शल्यराज! यत्रासावर्जुनस्तत्रैव चोद्यतां मम रथः । शल्यः—बाढम् । (निष्क्रान्तौ) कर्णभारमवसितम् ॥ " ————— यथा ऊरुभङ्गस्य (आरम्भवाक्यम्)— “(नान्द्यन्ते ततः प्रविशति सूत्रधारः) सूत्रधारः— भीष्मद्रोणतटां जयद्रथजलां गान्धारराजह्रदां कर्णद्रौणिकृपोर्मिनक्रमकरां दुर्योधनस्रोतसम् । तीर्णः शत्रुनदीं शराससिकतां येन प्लवेनार्जुनः शत्रूणां तरणेषु वः स भगवानस्तु प्लवः केशवः ॥ एवमार्यमिश्रान् विज्ञापयामि । अये किन्नुखलु मयि विज्ञापनव्यग्रे शब्द इव श्रूयते । अङ्ग ! पश्यामि । (नेपथ्ये) एते स्मो भो! एते स्मः । सूत्रधारः — भवतु विज्ञातम् । .... .... .... .... .... .... .... .... .... .... .... .... .... .... .... .... .... .... .... .... .... .... .... .... .... .... स्थापना ।” ———— (समाप्तिवाक्यम्) — “बलदेवः— याम्येष सज्जनधनानि तपोवनानि धृतराष्ट्रः— पुत्रप्रणाशविफलं हि धिगस्तु राज्यम् ।
१४ उपोद्घातः अश्वत्थामा— यातोऽद्य सौप्तिकवधोद्यतबाणपाणि- र्गां पातु नो नरपतिः शमितारिपक्षः ॥ (निष्क्रान्ताः सर्वे) ऊरुभङ्गमवसितम् ॥” यथानवगतनामकस्य नाटकस्यारम्भवाक्यानि — “(नान्द्यन्ते ततः प्रविशति सूत्रधारः) सूत्रधारः— पादः पायादुपेन्द्रस्य सर्वलोकोत्सवः स वः । व्याविद्धो नमुचिर्येन तनुताम्रनखेन खे ॥ एवमार्यमिश्रान् विज्ञापयामि। किन्नुखलु मयि विज्ञापनव्यग्रे शब्द इव श्रू- यते । अङ्ग! पश्यामि । (नेपथ्ये) भो भोः प्रतिहाराधिकृताः ! महाराजो दुर्योधनः समाज्ञापयति । सूत्रधारः — भवतु विज्ञातम् । उत्पन्ने धार्तराष्ट्राणां विरोधे पाण्डवैः सह । पर्यैति मन्त्रशालायां भृत्यो दुर्योधनाज्ञया ॥ (निष्क्रान्तः) स्थापना । ” (ततः प्रविशति काञ्चुकीयः) भो भोः प्रतिहाराधिकृताः ! महाराजो दुर्योधनः समाज्ञापयति — अद्य सर्वपार्थिवैः सह मन्त्रयितुमिच्छामि । तदाहूयन्तां सर्वे राजान इति । अये अयं महाराजो दुर्योधन इत एवाभिवर्तते । य एषः, श्यामो युवा सितदुकूलकृतोत्तरीयः सच्छत्रचामरवरो रचिताङ्गरागः ।
उपोद्घातः १९ श्रीमान् विभूषणमणिद्युतिरञ्जिताङ्गो नक्षत्रमध्य इव पर्वतगतः शशाङ्कः ॥ (ततः प्रविशति दुर्योधनः) दुर्योधनः — उद्भूतरोषमिव मे हृदयं सहर्षं प्राप्तं रणोत्सवमिमं सहसा विचिन्त्य । इच्छामि पाण्डवबले वरवारणाना- मुत्कृत्तदन्तमुसलानि मुखानि कर्तुम् ॥ काञ्चुकीयः — जयतु महाराजः । महाराजशासनात् समानीतं सर्वरा- जमण्डलम् । दुर्योधनः — सम्यक् कृतम् । प्रविश त्वमवरोधनम् । काञ्चुकीयः — यथाज्ञापयति महाराजः । (निष्क्रान्तः) दुर्योधनः — आर्यौ वैकर्णवर्षदेवौ ! उच्यताम् — अस्ति ममैकादशाक्षौहि- (णी ? णि) । बलसमुदयस्यास्य कः सेनापतिर्भवितुमर्हतीति । किमाहतुर्भवन्तौ — महान् खल्वयमर्थः । मन्त्रयित्वा वक्तव्यमिति । सदृशमेतद्, आगम्यतां मन्त्र- शालामेव प्रविशामः । आचार्य ! अभिवादये । प्रविशतु भवान् मन्त्रशालाम् । पितामह ! अभिवादये । प्रविशतु भवान् मन्त्रशालाम् । मातुल ! अभिवादये । प्र- विशतु भवान् मन्त्रशालाम् । आर्यौ ! वैकर्णवर्षदेवौ ! प्रविशतां भवन्तौ । भो भोः सर्वक्षत्रियाः ! स्वैरं प्रविशन्तु भवन्तः । वयस्य ! कर्ण ! प्रविशावस्तावत् । (प्रविश्य) आचार्य ! एतदासनमास्यताम् । पितामह ! एतदा(सनमा)स्यताम् । मातुल ! एतदासनमास्यताम् । आर्यौ वैकर्णवर्षदेवौ ! आसातां भवन्तौ । भो भोः सर्वक्षत्रियाः ! स्वैरमासतां भवन्तः । किमिति किमिति महाराजो नास्त इति । अहो सेवाधर्मः । भवत्वय*” यथा अभिषेकनाटकस्य (आरम्भवाक्यम्) — “(नान्द्यन्ते ततः प्रविशति सूत्रधारः) सूत्रधारः — यो गाधिपुत्रमखविघ्नकराभिहन्ता युद्धे विराधखरदूषणवीर्यहन्ता ।
- एतदक्षरावधिक एव ग्रन्थ उपलब्धः ।
११ उपोद्धातः दर्पोद्यतोल्बणकबन्धनकपीन्द्रहन्ता पायात् स वो निशिचरेन्द्रकुलाभिहन्ता ॥ एवमार्यमिश्रान् विज्ञापयामि । ( परिक्रम्यावलोक्य ) अये किन्नुखलु मयि विज्ञापनव्यग्रे शब्द इव श्रूयते । अङ्ग! पश्यामि । (नेपथ्य) सुग्रीव! इत इतः । .... .... .... .... .... .... .... .... .... .... .... .... .... .... .... .... .... .... .... .... स्थापना ।” (समाप्तिवाक्यम् ) — “(भरतवाक्यम् ) भवन्त्वरजसो गावः परचक्रं प्रशाम्यतु । इमामपि महीं कृत्स्नां राजसिंहः प्रशास्तु नः । (निष्क्रान्ताः सर्वे) सप्तमोऽङ्कः । अभिषेकनाटकं समाप्तम् ॥” यथा च प्रतिमानाटकस्य ( आरम्भवाक्यम् ) — “(नान्द्यन्ते ततः प्रविशति सूत्रधारः) सूत्रधारः— सीताभवः पातु सुमन्त्रतुष्टः सुग्रीवरामः सहलक्ष्मणश्च । यो रावणार्थप्रतिमश्च देव्या विभीषणात्मा भरतोऽन्यसर्गः ॥ ( नेपथ्याभिमुखमवलोक्य ) आर्ये! इतस्तावत् । (प्रविश्य) नटी — अय्य! इअम्हि ।
उपोद्घातः १७ सूत्रधारः — आर्ये! इममेवेदानीं शरत्कालमधिकृत्य गीयतां तावत् । नटी — अय्य! तह । (गायति) सूत्रधारः — अस्मिन् हि काले, चरति पुलिनेषु हंसी काशांशुकवासिनी सुसंहृष्टा । (नेपथ्ये) अय्य! अय्य! सूत्रधारः — भवतु विज्ञातम् । मुदिता नरेन्द्रभवने त्वरिता प्रतिहाररक्षीव ॥ (निष्क्रान्तौ) स्थापना ।” (समाप्तिवाक्यम्)— “(भरतवाक्यम्) यथा रामश्च जानक्या बन्धुभिश्च समागतः । तथा लक्ष्म्या समायुक्तो राजा भूमिं प्रशास्तु नः ॥ (निष्क्रान्ताः सर्वे) सप्तमोऽङ्कः । प्रतिमानाटकं समाप्तम् ॥” एषां नाटकानामुपदर्शितेन नाटकान्तरविलक्षणेन प्रस्थानेन न केवलं, किन्तु केषुचिन्नाटकेषु वाक्यानुपूर्व्यैक्येनापि परस्परसाम्यमुदाहृतवाक्येभ्यः प्रका- नाटकानां | शते । तथाहि — “एवमार्यमिश्रान् विज्ञापयामि । अये किं- मिथः संवादः । | न्नुखलु मयि विज्ञापनव्यग्रे शब्द इव श्रूयते । अङ्ग! पश्यामि” इत्येषानुपूर्वी प्रतिज्ञा-चारुदत्त-अविमारक-प्रतिमा-कर्णभारनाटकान्यपहाय सर्वेष्वन्येषु दृश्यते ।
१८ उपोद्घातः
“इमां सागरपर्यन्तां हिमवद्विन्ध्यकुण्डलाम् । महीमेकातपत्राङ्कां राजसिंहः प्रशास्तु नः ॥” इति भरतवाक्यानुपूर्वी स्वप्ननाटकबालचरितयोः समाना । “भवन्त्वरजसो गावः परचक्रं प्रशाम्यतु । इमामपि महीं कृत्स्नां राजसिंहः प्रशास्तु नः ॥” इत्यानुपूर्वी प्रतिज्ञा-अविमारक-अभिषेकनाटकेषु लक्ष्यते । “इमामपि महीं कृत्स्नां राजसिंहः प्रशास्तु नः” इत्यानुपूर्वी पञ्चरात्रेऽप्यस्ति । मङ्गलश्लोके नाटकीयप्रधानपात्रनामविन्यासः स्वप्ननाटक इव प्रतिज्ञा- पञ्चरात्रप्रतिमानाटकेषूपलभ्यते । “लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः । असत्पुरुषसेवेव दृष्टिविफलतां गता ॥” इत्ययं श्लोकश्चारुदत्तप्रथमाङ्क इव बालचरितप्रथमाङ्के दृश्यते । “किं वक्ष्यतीति हृदयं परिशङ्कितं मे” इत्ययं श्लोकपादः स्वप्नवासवदत्तषष्ठाङ्क इव अभिषे- कनाटकचतुर्थाङ्क उपलभ्यते । “धर्मस्नेहान्तरे न्यस्ता” इत्ययं श्लोकपादः प्रति- ज्ञानाटिकाद्वितीयाङ्क इवाभिषेकनाटकषष्ठाङ्केऽप्यस्ति । एवञ्जातीयका अन्ये- ऽप्युक्तिभङ्गीनां संवादा एषु नाटकेषु दृश्याः । एवं परस्परात्यन्तसंवाददर्शनाद् एतैर्नाटकैरेककविकर्तृकैर्भाव्यमिति, प्रस्ता- वनायां कविकाव्यनामानानाख्यानात् तदाख्याननियमारम्भात् प्रागेवैतान्युद्भूतानीति, [नाटककर्तृनिर्णयः ।] उदाहरिष्यमाणकवितागुणसमृद्ध्यनुरोधादेषां कर्ता सुप्रसिद्धः पुरातनः कश्चिद् महाकविर्भवितुमर्हतीति च मम बुद्धिरुत्प- न्ना । अनया वत्सराजगतवासवदत्ताविषयस्वप्नवर्णनात् स्वप्ननाटकमिदमाचार्या- भिनवगुप्तपादादिप्राचीनग्रन्थेभ्यो नाममात्रेणास्माभिर्विज्ञातं यत् स्वप्नवासवदत्तं नाम नाटकं, तदेव नामैकदेशग्रहगृहीतं स्यादिति सम्भावनया चास्मिन् स्वप्नना- टकादिनाटकचक्रे भक्तिबहुमानावसामान्यौ मे सञ्जातौ । स्वप्नवासवदत्तस्य हि अलभ्यमित्यद्ययावदवधारितस्य प्रणेता श्रीभासमहाकविरित्ययमर्थः
उपोद्घातः १९ “भासनाटकचक्रेऽपिच्छेकैः क्षिप्ते परीक्षितुम् । स्वप्नवासवदत्तस्य दाहकोऽभून्न पावकः ॥” इति राजशेखरश्लोकात् सूक्तिमुक्तावलिगतादवगत एव सर्वलोकस्य । एष एव खलु महाकविः मालविकाग्निमित्रप्रस्तावनायां “प्रथितयशसां भाससौ- मिल्लकविपुत्रादीनां प्रबन्धानतिक्रम्य” इति श्रीकालिदासेन, “सूत्रधारकृतारम्भैर्नाटकैर्बहुभूमिकैः । सपताकैर्यशो लेभे भासो देवकुलैरिव ॥” इति हर्षचरिते भट्टबाणेन चोपश्लोकितः । एवमेषां भासकृतित्वे सिद्धे “सूत्रधा- रकृतारम्भैर्”ति भट्टबाणोक्तं सूत्रधारकृतारम्भत्वं भासकृतीनामसाधारण एव धर्मः कामं प्रत्येतुं शक्यः, एषु सर्वेष्वपि नाटकेषु “नान्द्यन्ते ततः प्रविशति सूत्रधार” इत्येव ग्रन्धारम्भस्य कालिदासादिनाटकविलक्षणस्य दर्शनात् । तत इमान्यपूर्वाणि संमुद्र्य प्रकाशयितुमिच्छता मया तेषु सुप्रसिद्धनाम्नि स्वप्नवासवदत्ते बहुषु पत्रेष्वक्षराणां त्रुटिततया, चारुदत्तस्य चतुर्थाङ्कावधिकत्वे- नासमग्रतया, कर्णभारस्य स्थापनादिविकलतया च तेषां [Margin note: आदर्शन्र्तलाभः ।] नाटकानां समग्रस्वरूपसम्पादनाय मातृकान्तरान्वेषणे प्रयत्नः कृतः । भारते युरोपदेशे च तदर्थं बहून् पण्डितान् लेखद्वारेणायाचिषि । चिरप्रनष्टानां भासकृतीनामीदृशविकलैकमातृकालाभ एव परमलाभो मन्तव्य इति बोधयन्तो यद्यपि बहवः प्रतिलेखा आयाताः, तथापि स्वप्ननाटकस्य प्रतिज्ञायौगन्धरायणस्य चैकमादर्शान्तरमशुद्धमपि दिष्ट्या समग्रं मम हस्तं प्रा- प्तम् । तद्धि बङ्गलूरपुरे पुरातनवस्तुविचारकार्यालयपण्डितेन श्रीमता आ-सूरि- अनन्ताचार्येण मत्प्रियसूहृदा कुतश्चित् केरलीयतदादर्शस्य प्रतिशरीरात् प्रतिले- खितं कृपया मह्यं प्रेषितम् । अस्य स्वप्ननाटकादर्शस्यान्ते “स्वप्नवासवदत्ता समाप्ता” इत्यस्मत्सम्भावितचरनामधेयानुगुणमेव नामधेयं लिखितं दृष्टम् । प्रतिज्ञानाटिकादर्शस्यान्ते च “प्रतिज्ञायौगन्धरायणम्” इति पूर्णनामधेयं लि- खितम् ।
अस्योपमातृकालाभस्यानुपदं क्वचिद् यात्रायां हरिप्पांडुपुरे पुत्तियल्- सुब्रह्मण्यशर्मसकाशाद् अविमारकस्य मातृकान्तरं किञ्चिल्लब्धम् । एता उप- मातृका आश्रित्य त्रीणि नाटकानि संशोधितानि । अन्यानि तु संशोध्यन्ते । अस्य नवादर्शस्य साहाय्यात् स्वप्नवासवदत्तस्याविकलं शरीरं निष्पन्नमासीत् । तेनाहमेतन्नाटकविषयस्य मत्परिश्रमस्य चारितार्थ्यं समर्थयन् नवादर्शदानोपकारि- णि श्रीमदनन्ताचार्यमहाशयेऽतीव कृतज्ञतां वहामि । अथ स्वप्नवासवदत्तस्यो- पक्रान्ते मुद्रणे अन्याप्युपमातृका चेङ्ङनूरताळमण्णमठकृष्णतन्त्रिसकाशाद- धिगता, तथा प्रतिज्ञायौगन्धरायणस्याभिषेकनाटकस्य प्रतिमानाटकस्य पूर्वोक्ताज्ञातनामकनाटकांशस्य च ।
११५९–तमक्रैस्ताब्दस्थितेन वन्द्यघटीयसर्वानन्देनाममरकोशटीकास- र्वस्वे “शृङ्गारवीरकरुणे”ति श्लोकव्याख्याप्रसङ्गात् “स्वदिशमात्मसात्कर्तुम् उद- (भासकालविचारः ।) यनस्य पद्मावतीपरिणयोऽर्थशृङ्गारः स्वप्नवासवदत्ते, तृती- यस्तस्यैव वासवदत्तापरिणयः कामशृङ्गार” इति वदता- स्मदीयमिदं स्वप्नवासवदत्तं स्मृतमित्यसन्दिग्धं, तस्यैवार्थशृङ्गारस्यात्र *वर्णनात् । श्रीमदाचार्याभिनवगुप्तपादैः क्रैस्ताब्दनवमशतकस्थितैः प्रणीतायां भरतनाव्य- वेदविवृत्तौ स्वप्नवासवदत्तायाः स्मरणमस्ति “क्वचित् क्रीडा यथा स्वप्नवासव- दत्तायाम् (अध्या. १. श्लो. ७४) इति । दरिद्रचारुदत्तमित्यपि किञ्चिन्नाटक- नाम तत्र स्मर्यते । तन्मन्ये, एतदेव चारुदत्तनाटकं स्यात् ।
ध्वन्यालोककर्तुरानन्दवर्धनात् क्रैस्ताब्दनवमशतकस्थितात् प्राची- नस्य वामनस्य काव्यालङ्कारसूत्रवृत्तौ पञ्चमाधिकरणस्य द्वितीयाध्याये स्वप्न- नाटकचतुर्थाङ्कस्थं पद्यमुदाहृतं — “शरच्छशाङ्कगौरेण वाताविद्धेन भामिनि ! । काशपुष्पप्लवेनेदं साश्रुपातं मुखं मम ॥” इति । अस्यैव पञ्चमाधिकरणद्वितीयाध्याये प्रतिज्ञायौगन्धरायणचतुर्थाङ्कगतस्य
- कथावस्तुसंक्षेपो दृश्यताम् ।
उपोद्घातः २१ पद्यस्य चतुर्थः पाद उदाहृतः “यो भर्तृपिण्डस्य कृते न युध्येत्” (श्लो. ४) इति । तथा तत्पञ्चमाधिकरणस्य प्रथमाध्याये चारुदत्तनाटकप्रथमाङ्कगतः श्लोक उदाहृतः— “यासां बलिर्भवति मद्गृहदेहलीनां हंसैश्च सारसगणैश्च विलुप्तपूर्वः । तास्वेव पूर्वबलिरूढयवाङ्कुरासु बीजाञ्जलिः पतति कीटमुखावलीढः ॥” इति । “लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः । असत्पुरुषसेवेव दृष्टिनिष्फलतां गता ॥” इत्यस्य बालचरितप्रथमाङ्के चारुदत्तप्रथमाङ्के च स्थितस्य श्लोकस्य पूर्वार्धं खैस्ता- ब्दषष्ठशतकभाजा दण्डिना काव्यादर्शस्य द्वितीयपरिच्छेदे उदाहृतं— “लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः । इतीदमपि भूयिष्ठमुत्प्रेक्षालक्षणान्वितम् ”॥ २२१ ॥ इति । अस्ति ध्वन्यालोकलोचने (पृ. १५२. उ. ३) “सञ्चितपक्ष्मकपाटं नयनद्वारं स्वरूपतडनेन(!) । उद्घाट्य सा प्रविष्टा हृदयगृहं मे नृपतनूजा ॥” इति काचिदार्या स्वप्नवासवदत्तगततयोदाहृता । सा मन्ये स्वप्नवास- वदत्तगता न भवति, अस्मदीयेषु त्रिष्वपि स्वप्नवासवदत्तादर्शेष्वनुपलम्भात् । किञ्च, काञ्चित् प्रत्यग्रदृष्टां स्त्रियं प्रति प्रतिनवाभिलाषोदयः श्लोके तस्मिन् प्रती- यते । स वासवदत्ताविषयो वा स्यात् पद्मावतीविषयो वा। नाद्यः, परिणीतचर- वासवदत्ताप्रवासविप्रलम्भस्यैव तत्र प्रकृतत्वात् । नापि द्वितीयः, यदृच्छागतस्य प्रार्थना मन्तरेण दर्शकेन स्वयंदत्तां पद्मावतीं प्रतिगृहीतवतो वासवदत्ताशोकस- १ 'भक्तपुष्पः।' इति चारुदत्ते ।
तत्तद्दह्यमानहृदयस्य वत्सराजस्य पद्मावतीविषयाभिलाषवर्णनं प्रति तत्र काप्य- नवकाशात् । तेन स्वप्नवासवदत्ते तस्य श्लोकस्य निवेशयोग्यं स्थानमलभमानस्य चिरनिष्प्रचारत्वमूलः पाठभ्रंशोऽपि नानुमातुं शक्यः । एवं साहित्यदर्पणस्य षष्ठपरिच्छेदे ८५-तमकारिकाविवरणे “उत्साहातिशयं वत्स! तव बाल्यं च पश्यतः । मम हर्षविषादाभ्यामाक्रान्तं युगपन्मनः ॥” इति यः श्लोको बालचरितगतत्वेनोदाहृतः, स कामं रामबालचरित- गतो भवेत् । अत एव दर्पणव्याख्याता “दाशरथिं प्रति भार्गवस्योक्तिरियम्” इति तं व्याचष्टे । अस्मदीयं तु बालचरितं कृष्णविषयमिति तस्य श्लोकस्यात्रादर्शनं युक्तमेव । भामहकृतकाव्यालङ्कारस्य चतुर्थपरिच्छेदे कुतश्चित् काव्यान्यायविरोध उदाहृत्य निरूपितः । यथा— “विजिगीषुरुपन्यस्य वत्सेशं वृद्धदर्शनम् । तस्यैव कृतिनः पश्चादभ्यधाच्चारशून्यताम् ॥ ४० ॥ अन्तर्योधशताकीर्णं सालङ्कायननेत्तृकम् । तथाविधं गजच्छद्म नाज्ञासीत् स स्वभूगतम् ॥ ४१ ॥ यदि वोपेक्षितं तस्य सचिवैः स्वार्थसिद्धये । अहो नु मन्दिमा तेषां भक्तिर्वा नास्ति भर्तरि ॥ ४२ ॥ शरा दृढधनुर्मुक्ता मन्युमद्भिररातिभिः । मर्माणि परिहृत्यास्य पतिष्यन्तीति कानुमा ॥ ४३ ॥ हतोऽनेन मम भ्राता मम पुत्रः पिता मम । मातुलो भागिनेयश्च रुषा संरब्धचेतसः ॥ ४४ ॥ अस्यन्तो विविधान्याजावायुधान्यपराधिनम् । एकाकिनमरण्यान्यां न हन्युर्बहवः कथम् ॥ ४५ ॥ नमोऽस्तु तेभ्यो विद्वद्भ्यो येऽभिप्रायं कवेरिमम् । शास्त्रलोकावपास्यैव नयन्ति नयवेदिनः ॥ ४६ ॥
उपोद्घातः २३ सचेतसो वनेभस्य चर्मणा निर्मितस्य च । विशेषं वेद बालोऽपि कष्टं किन्नु कथन्नु तत् ॥ ४७ ॥" इति । अस्या भामहसमालोचनायाः सर्वो विषयः प्रतिज्ञानाटिकायां वर्तते । अपिच प्रतिज्ञानाटिकायाः प्रथमाङ्के यानि “ अणेण मम भादा हदो, अणेण- मम पिदा, अणेण मम सुदो” इति प्राकृतवाक्यानि, तानि “ हतोऽनेन मम भ्राता मम पुत्रः पिता मम ” इति श्लोकरूपेणानूदितानि भामहेनास्मिन् न्याय- विरोधसमालोचनप्रकरणे । अतो भामहेन प्रतिज्ञानाटिकैवानुसंहितेत्यूहितुं शक्यते । नाटिकाया नामधेयं तु तत्कालातिप्रसिद्धिवशादकथितमपि सुज्ञानमिति धिया भामहेन न निर्दिष्टं स्यात् । अस्य भामहसमालोचनाविषयभूतस्य कथा- वस्तुनो बृहत्कथायामपि सत्त्वाद् भामहेन सैवानुसंहिता, न तु प्रतिज्ञानाटि- केति तु न शङ्कनीयं, “हतोऽनेन मम भ्राते”ति भामहेनानूद्यमानस्य वाक्यस्य प्रतिज्ञायां प्रत्यक्षतयोपलब्धेः, बृहत्कथायां तस्य सद्भावकल्पनायां प्रमाणा- भावात् । वस्तुतस्तु भामहकालात् परत एव बृहत्कथाया निष्पत्तिरित्यनुपदं वक्ष्यामः । स चायं भामहः कालिदासात् प्राचीनः प्रतिभाति । तेन हि मेधा- वी, रामशर्मा, अश्मकवंशं, रत्नाहरणम्, अच्युतोत्तरम् इत्यस्मदविदितानि कविकाव्यनामानि गृहीतानि । सर्वलोकविदितस्य तु श्रीकालिदासस्य तत्काव्यस्य वा लोकोत्तरस्य कस्यचिन्न नामधेयं गृहीतम् । भामहाचार्यश्चेत् कालिदा- सकाव्यमद्रक्ष्यत्, तदवश्यं निरदेक्ष्यद् अतिप्रसिद्धत्वादनिर्देशन्नपि विषयवि- चारादिद्वारेण प्रतिज्ञानाटिकामिव वास्मरिष्यत् । यद्यपि “अयुक्तिमद् यथा दूता जलभृन्मारुतादयः । तथा भ्रमरहारीतचक्रवाकशुकादयः ॥ ४२ ॥ अवाचोऽव्यक्तवाचश्च दूरदेशविचारिणः । कथं दूत्यं प्रपद्येरन्निति युक्त्या न युज्यते ॥ ४३ ॥ यदि चोत्कण्ठया तत्तदुन्मत्त इव भाषते । तथा भवतु भूम्नेदं सुमेधोभिः प्रयुज्यते ॥ ४४ ॥ ” (भाम. काव्याल. परि. १)
२४ उपोद्घातः इति युक्तायुक्तत्वविचारे मेघमारुतादिदूतीकरणं विषयतया भामहेन प्रस- ङ्गितं, तथापि तावता मेघदूतकाव्यं स जानातीति न युक्तं कल्पयितुम् । तथासति ह्यस्तनेन केनापि कविना प्रणीतं शुकसन्देशमपि स जानातीति कल्पनीयमाप- द्येत । अतो, मन्ये, केषुचित् काव्येषु विप्रलम्भादिप्रसङ्गे मारुतचन्द्रमेघा- द्यचेतनद्वारेण भ्रमरचक्रवाकशुकाद्यव्यक्तवाक्प्राणिद्वारेण च प्रियजनाय विर- हिणां सन्देशप्रेषणं क्वचित् क्वचिद् यद् वर्ण्यते, तदुन्मादावस्थायां नेष्यत इत्येत- देव सामान्यत आचार्यः श्लोकैरेभिरुपदिष्टवान् , तच्चेदमाचार्योपदेशतात्पर्यं हृदि निधायैवौचित्यवेदी कालिदासो मेघदूतस्यारम्भे तद्दूतीकरणानौचित्यमाशङ्क्य परिजहार— “धूमज्योतिःसलिलमरुतां सन्निपातः क्व मेघः सन्देशार्थाः क्व पटुकरणैः प्राणिभिः प्रापणीयाः । इत्यौत्सुक्यादपरिगणयन् गुह्यकस्तं ययाचे कामार्ता हि प्रकृतिकृपणाश्चेतनाचेतनेषु ॥” (पूर्वमेघ. ५) इति श्लोकेन । एवं तावत् सिद्धं भामहस्य कालिदासात् प्राचीनत्वम् । ननु च कालिदासेन मेघदूते “प्राप्यावन्तीनुदयनकथाकोविदग्रामवृद्धान्” (पूर्वमे- घ. ३०) इति कालिदासकालवर्तिनाम् अवन्तिजनपदग्रामवृद्धानाम् उदयनकथो- दाहरणनिपुणतोक्त्या उदयनसंज्ञवत्सराजद्रष्टृत्वप्रतीतेः उदयनः कालिदासस- न्निकृष्टपूर्वकालो भवितुं युक्तः । तत् कथं भामहो वत्सराजस्यात्मकालसन्निकर्षं लेशतोऽप्यसूचयन् प्रत्युत तमितिहासमात्राधीतप्रायं स्फोरयन् कालिदासात् प्राचीनः स्यात् । नैतत् । मालविकाग्निमित्रप्रस्तावनायां हि “प्रथितयशसां भाससौमिल्लकविपुत्रादीनां प्रबन्धानतिक्रम्य वर्तमानकवेः कालिदासस्य क्रियायां कथं बहुमान” इति भासस्य प्रथितयशस्त्वमाह कालिदासः, पुराणत्वं च भासकाव्यस्य प्रत्येति । “पुराणमित्येव न साधु सर्वं न चापि काव्यं नवमित्य- वद्यम् ॥” इति । तदुभयस्वरसाद् भासस्य कीर्तेश्चिरकालक्रमसिद्धा परा काष्ठा कालिदासकाले स्थितेति गम्यते । सा चावरतस्तत्कृतीनां सप्ताष्टवर्षशतकप्रचार- मन्तरेण न सम्भाव्येति कृत्वा कालिदासापेक्षम् अतिप्राचीनत्वं भासस्य न्याय्यं,
उपोद्घातः २५ सुतरां तु भासनाटकनायकस्योदयनस्येति न कथञ्चिदप्युदयनस्य कालिदास- सन्निकृष्टपूर्वकालत्वशङ्काया अवकाशः । “उदयनकथाकोविदग्रामवृद्धान्” इत्येतच्च, अवन्तिग्रामवृद्धाः स्वानुपलब्धमेवेतिहासाद्यधीतं स्वजनपदनिर्वृत्तम् उदयनकथा- द्भुतं पुरावृत्तप्रेम्णा वृद्धभावसहभुवा शंसन्त आद्रियन्त इत्येवमभिप्रायं, न तु तेषामुदयनद्रष्टृत्वानुमापकम् । अतः सुस्थं भामहस्य कालिदासप्राचीनत्वम् । अपिच, भामहः काव्यालङ्कारे कथार्यायिकयोः स्वरूपं निरूपयन् बृहत्कथां नानुसन्धत्ते । सा हि कथाविशेषत्वात् तत्प्रसङ्गे स्मर्तुमुचिता। तथा च दण्डी का- व्यादर्शे कथार्यायिकाप्रस्तावे “भूतभाषामयीं प्राहुरद्भुतार्थां बृहत्कथाम्” इति बृहत्कथां स्मरति । तेन मन्ये, भामहकाले बृहत्कथा नावर्ततेति । तदुत्तरकाल एव तास्ताश्चमत्कारिणीरुच्चावचाः कथा इतिहासतः स्वप्नवासव- दत्तादिकाव्यतो लोकतश्चौचित्य स्वयं कल्पयित्वा च बृहत्कथां नाम कथाभाण्डा- गारं नूनं गुणाढ्यो जग्रन्थ । गुणाढ्यश्च शकप्रवर्तकशालिवाहनसमकाल इति शालिवाहनतोऽपि भामहः प्राचीनो भवन् क्रैस्ताब्दारम्भप्राक्तनं प्रथमं वर्षशतकं संस्पृशति । भामहादपि तु जरत्तरतामर्हन्नस्मन्नाटकचक्रकविः क्रैस्तप्राक्तने तृतीये द्वितीये वा वर्षशतके निवेशमवश्यं लभते । किञ्च, राज्यतन्त्रविद्याचार्यः कौटिल्य इति चाणक्य इति च पर्यायवा- च्यो विष्णुगुप्तश्चन्द्रगुप्तसमानकालः क्रैस्तप्राचीने चतुर्थे वर्षशतके स्थित इति सुप्रसिद्धम् । तत्प्रणीते कौटिलीयार्थशास्त्रे मन्त्रिपुरोहितकरणीयस्य योधयुद्ध- प्रोत्साहनस्य प्रकारोपदेशावसरे “तुल्यवेतनॊऽस्मि, भवद्भिः सहभोग्यमिदं राज्यं, मयाभिहितः परोऽभिहन्तव्यः' इति, वेदेष्वप्यनुश्रूयते - समाप्तदक्षिणानां यज्ञा- नामवभृथेषु 'सा ते गतिर्या शूराणामि'ति, अपीह श्लोकौ भवतः - “यान् यज्ञसङ्घैस्तपसा च विप्राः स्वर्गैषिणः पात्रचयैश्च यान्ति । क्षणेन तानप्यतियान्ति शूराः प्राणान् सुयुद्धेषु परित्यजन्तः ॥” “नवं शरावं सलिलैस्य पूर्णं सुसंस्कृतं दर्भकृतोत्तरीयम् । तत् तस्य मा भून्नरकं च गच्छेदू यो भर्तृपिण्डस्य कृते न युध्येत् ॥” इति मन्त्रिपुरोहिताभ्यामुत्साहयेद् योधान्” (कौटि. अर्थ. अधि. १०. अध्या. ३) १. 'लैः सुपूर्', २. 'स' इति प्रतिज्ञानाटिकायाम् । 23890
२६ उपोद्घातः
इति दृश्यते । शूरस्य सद्गतिर्युद्धे प्राणांस्त्यक्तवतः यज्ञतपस्साध्यकामलाभः विजयिनः *समर्हणा च लोके सुलभा इति, राज्ञः पिण्डदातुरर्थे युद्धमकुर्वन् पा- पीयान् भवतीति चोदाहृतवाक्यानामभिप्रायः। तत्र “नवं शरावम्” इत्येष श्लोकः प्रतिज्ञायौगन्धरायणस्य चतुर्थाङ्के भटान् प्रति कस्यचित् प्रोत्साहनवाक्यतया निवेशितः । अस्य श्लोकस्य किमर्थशास्त्रान्नाटके समुद्धरणम् उताहो नाटकादर्थ- शास्त्रे इति चिन्तनीयम् । तत्र युद्धप्राणत्यागस्य धर्महेतुत्वं भर्तृपिण्डानिर्यातनस्य पापहेतुत्वं चार्थप्रधानेन यदुपदिश्यते, तत् प्रमाणानुग्रहविकल्पमुपप्रलो- भनप्रायमविश्वास्यं भवतीति तत्रावश्यं प्रमाणमुपदर्शनीयम् । तच्चादौ “सा ते गतिरि”त्यादि श्रौतमुपदर्शितम् । पश्चात्तु अभियुक्तवचनरूपं स्मृ- तिकल्पं श्लोकद्वयमिति स्वरसतः प्रतीतेः “नवं शरावम्” इति श्लोको नार्थशास्त्रकारस्य स्वोक्तिर्भवितुमर्हति । परोक्त्यनुवादसहपाठादप्ययं श्लोकोऽर्थ- शास्त्रकारस्य न स्वोक्तिः। “यान् यज्ञसङ्घैरि”ति पूर्वश्लोको हि ‘यान्’ ‘तान्’ इत्युभ- यत्राप्यनिर्दिष्टं विशेष्यं किमपि कामलक्षणं लोकलक्षणं वा पूर्वप्रकृतमाकाङ्क्षन्सं- शयं ग्रन्थान्तराभिजन इत्यनुवादरूपो निश्चितः । किञ्चार्थशास्त्रे कौटिल्यः स्वो- क्तिरूपं श्लोकं श्लोकौ श्लोकान् वा न क्वचिदपि प्रतिज्ञापूर्वं लिखितवान् । इहैकत्र परम् “अपिह श्लोकौ भवत” इति तस्य पूर्वप्रतिज्ञाकरणमालक्ष्यमाणमुत्तरयोः श्लोकयोः परकीयतामेव द्योतयदर्थवद् भवति । काव्ये पुनः शास्त्रलोकसिद्धमर्थं वश्यवाचो महाकवय उत्सर्गतः स्वोक्त्यैव प्रतिपादयन्ति, यत्रक्वचित् परवचनानु- पूर्वीमनुवदन्तो वा तेऽनुवादचिह्नमवश्यं कुर्वन्तीति प्रतिज्ञायौगन्धरायणे अनुवा- दलिङ्गाकरणाद् “नवं शरावम्” इति श्लोको भासमहाकवेरेव स्वोक्तिरिति युक्तं पश्या- मः । तेनार्थशास्त्रकाराच्चाणक्यादप्यस्मन्महाकवेः प्राचीनत्वं सिद्धं भवति । यस्तु मेधातिथिः प्रतिमानाटकस्य पञ्चमाङ्के रामं प्रति रावणवाक्ये “भोः काश्यपगो- त्रोऽस्मि, साङ्गोपाङ्गं वेदमधीये, मानवीयं धर्मशास्त्रं, माहेश्वरं योगशास्त्रं, बार्ह- स्पत्यमर्थशास्त्रं, मेधातिथेर्न्यायशास्त्रं, प्राचेतसं श्राद्धकल्पं च ” इति स्मर्यते, स दिव्यानुभावपुरुषप्रायपाठात् तथाभूतः कश्चिन्महर्षिः स्याद्, न पुनर्मानवी- यव्याख्याता पण्डितविशेष इति भासं प्रति नैतदर्वाचीनत्वभ्रान्तेरवकाशः॥ उपलभ्यते चैतावत्प्राचीनत्वानुगुणा नाटकेष्वेतेषु गुणसमृद्धिः । अत्र
- पूर्णजलकलशोपहारलाभरूपा पूजा।
उपोद्घातः २७ हि प्रसन्नोदारगम्भीरा सरसहृदयङ्गमा भाषायाः शैल्येव तावदन्यादृशी काव्यगुणसमृद्धिः । प्रायः, यस्या वर्षसहस्रादर्वाचीनेषु काव्येष्वतिविरलं दर्शन- मभाव एव वा । सुशिक्षितमतिगोचरैः प्रशस्तैर्जनमनोविमर्शैर्नानारूपैः सन्ति सर्वतः समृद्धा इह वाक्यसमुदाहाराः । अवस्थाभेदभिन्नाः सुसूक्ष्मास्तत्तद्वस्तुपरमार्था यथा सचेतसां पुर इव परिस्फुरेयुस्तथेह प्रतिपादिताः । अपिच, यदौचित्यं नाम प्रतिपाद्यसङ्कोचविकासयोर्वा रसानुरूप- शब्दार्थपरिग्रहे वा, तत् क्वचिदप्यत्र रसैकदृष्टिना महाकविना न लङ्घितम् । कामं वयं सरसभणितीनामनायासप्रसरं प्रसिद्धासु एकद्वमहाकवि- कृतिषु न खलु नालक्षयामः । किन्तु तस्य परमा काष्ठैतस्मिन् नाटकचक्रे संल- क्ष्यते । इदं हि आत्मीयकवेर्मुखान्निःश्वसितनिर्विशेषं विनिस्सृतमिति न खलु नोदे- ति सचेतसामेतत् परिशीलयतां बुद्धिः । सर्वथैतद्गतं शब्दार्थसौष्ठवमार्षसूक्तिसौ- ष्ठवस्यैव, मन्ये, चारुतरं भूमिकान्तरमिति । एषु रूपकेष्वैकैकस्मिन्ननुवाच्यमाने गुणानेतान् इतोऽधिकांश्च सहृदयाः स्वयमसंशयं प्रत्यक्षयिष्यन्ति । एषां पृथगुदाहृतिर्बहुवाक्यानुसन्धानसापेक्षा वाग्वि- स्तरोपपाद्या चोपोद्घातमतिमात्रं विस्तारयेदिति नेदानीं तत्र संरभामहे । सामा- न्यतस्तु शैलीप्रदर्शनार्थं कानिचिद् वाक्यानि तत्तन्नाटकेभ्य उदाहरामः । स्वप्नवासवदत्ते वने पद्मावतीपरिजनकृतोत्सारणादुःखितां वासवदत्तां प्रति यौगन्धरायणस्याश्वासनोक्तिरियं — ‘‘पूर्वं त्वयाप्यभिमतं गतमे*वमासी- च्छ्लाघ्यं गमिष्यसि पुनर्विजयेन भर्तुः ।
- एवं गतं परिजनविभवोपेतं गमनमित्यर्थः।
२८ उपोद्घातः कालक्रमेण जगतः परिवर्तमाना चक्रारपङ्क्तिरिव गच्छति भाग्यपङ्क्तिः ॥” (अ. १. श्लो. ४) सत्कारः सत्कारेण स्वीकर्तव्य इत्यमुमर्थं प्रति वत्सराजस्य समर्थनावाक्यं — “गुणानां वा विशालानां सत्काराणां च नित्यशः । कर्तारः सुलभा लोके विज्ञातारस्तु दुर्लभाः ॥” (अ. ४. श्लो. ९) प्रतिज्ञानाटिकायां प्रयत्नस्य फलावश्यम्भावोक्तिः— “काष्ठादग्निर्जायते मथ्यमानाद् भूमिस्तोयं खन्यमाना ददाति । सोत्साहानां नास्त्यसाध्यं नराणां मार्गारब्धाः सर्वयत्नाः फलन्ति ॥” (अ. १. श्लो. १८) वरेषु गवेषणीयगुणपरा महासेनस्योक्तिः— “कुलं तावच्छ्लाघ्यं प्रथममभिकाङ्क्षे हि मनसा ततः सानुक्रोशं मृदुरपि गुणो ह्येष बलवान् । ततो रूपे कान्तिं न खलु गुणतः स्त्रीजनभयात् ततो वीर्योद्रिक्तं न हि न परिपाल्या युवतयः ॥” (अ. २. श्लो. ४) कन्यामातृणामवस्थोक्तिः— “अदत्तेत्यागता लज्जा दत्तेति व्यथितं मनः । धर्मस्नेहान्तरे न्यस्ता दुःखिताः खलु मातरः ॥” (अ. २. श्लो. ७) पञ्चरात्रे द्रोणाचार्यस्य शिष्यविषयचिन्तोक्तिः— “अतीत्य बन्धूनवलङ्घ्य मित्रा- ण्याचार्यमागच्छति शिष्यदोषः । बालं ह्यपत्यं गुरवे प्रदातु- र्नैवापराधोऽस्ति पितुर्न मातुः ॥” (अ. १. श्लो. १८)
उपोद्घातः २९ युधिष्ठिरस्य धार्तराष्ट्रदोषादात्मदोषाभिशङ्कनपरेयमुक्तिः— “एकोदकत्वं खलु नाम लोके मनस्विनां कम्पयते मनांसि । वैरप्रियैस्तैर्हि कृतेऽपराधे यत्सत्यमस्माभिरिवापराद्धम् ॥” (अ. २ श्लो. ९) योधकर्माभिनन्दनं प्रति विराटस्योक्तिः— “ताडितस्य हि योधस्य श्लाघनीयेन कर्मणा । अकालान्तरिता पूजा नाशयत्येव वेदनाम् ॥” (अ. २. श्लो. २८) चारुदत्तनाटके अन्धकारविषयोक्तिः— “सुलभशरणमाश्रयो भयानां वनगहनं तिमिरं च तुल्यमेव । उभयमपि हि रक्ष्यतेऽन्धकारे जनयति यश्च भयान्यश्च भीतः ॥” (अ. १. श्लो. २०) चौर्यप्रवृत्तस्योक्तिः — “लुब्धोऽर्थवान् साधुजनाभिमानी वणिक् स्ववृत्तावतिकर्कशश्च । यस्तस्य गेहं यदिनाम लप्स्ये भवामि दुःखोपहतो न चित्ते ॥” (अ. ३. श्लो. ७) दूतघटोत्कचे धृतराष्ट्रस्याभिमन्युवधदुःखितस्योक्तिः — “बहूनां समुपेतानामेकस्मिन् निर्घृणात्मनाम् । बाले पुत्रे प्रहरतां कथं न पतिता भुजाः ॥” (श्लो. १७) दुर्योधनं प्रति घटोत्कचस्योक्तिः —