स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)
Svapnavasavadattam of Bhasa with Hindi Commentary
महाकवि भास / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 77, कुल 204 में से
संदर्भ में पढ़ेंअस्योपमातृकालाभस्यानुपदं क्वचिद् यात्रायां हरिप्पांडुपुरे पुत्तियल्- सुब्रह्मण्यशर्मसकाशाद् अविमारकस्य मातृकान्तरं किञ्चिल्लब्धम् । एता उप- मातृका आश्रित्य त्रीणि नाटकानि संशोधितानि । अन्यानि तु संशोध्यन्ते । अस्य नवादर्शस्य साहाय्यात् स्वप्नवासवदत्तस्याविकलं शरीरं निष्पन्नमासीत् । तेनाहमेतन्नाटकविषयस्य मत्परिश्रमस्य चारितार्थ्यं समर्थयन् नवादर्शदानोपकारि- णि श्रीमदनन्ताचार्यमहाशयेऽतीव कृतज्ञतां वहामि । अथ स्वप्नवासवदत्तस्यो- पक्रान्ते मुद्रणे अन्याप्युपमातृका चेङ्ङनूरताळमण्णमठकृष्णतन्त्रिसकाशाद- धिगता, तथा प्रतिज्ञायौगन्धरायणस्याभिषेकनाटकस्य प्रतिमानाटकस्य पूर्वोक्ताज्ञातनामकनाटकांशस्य च ।
११५९–तमक्रैस्ताब्दस्थितेन वन्द्यघटीयसर्वानन्देनाममरकोशटीकास- र्वस्वे “शृङ्गारवीरकरुणे”ति श्लोकव्याख्याप्रसङ्गात् “स्वदिशमात्मसात्कर्तुम् उद- (भासकालविचारः ।) यनस्य पद्मावतीपरिणयोऽर्थशृङ्गारः स्वप्नवासवदत्ते, तृती- यस्तस्यैव वासवदत्तापरिणयः कामशृङ्गार” इति वदता- स्मदीयमिदं स्वप्नवासवदत्तं स्मृतमित्यसन्दिग्धं, तस्यैवार्थशृङ्गारस्यात्र *वर्णनात् । श्रीमदाचार्याभिनवगुप्तपादैः क्रैस्ताब्दनवमशतकस्थितैः प्रणीतायां भरतनाव्य- वेदविवृत्तौ स्वप्नवासवदत्तायाः स्मरणमस्ति “क्वचित् क्रीडा यथा स्वप्नवासव- दत्तायाम् (अध्या. १. श्लो. ७४) इति । दरिद्रचारुदत्तमित्यपि किञ्चिन्नाटक- नाम तत्र स्मर्यते । तन्मन्ये, एतदेव चारुदत्तनाटकं स्यात् ।
ध्वन्यालोककर्तुरानन्दवर्धनात् क्रैस्ताब्दनवमशतकस्थितात् प्राची- नस्य वामनस्य काव्यालङ्कारसूत्रवृत्तौ पञ्चमाधिकरणस्य द्वितीयाध्याये स्वप्न- नाटकचतुर्थाङ्कस्थं पद्यमुदाहृतं — “शरच्छशाङ्कगौरेण वाताविद्धेन भामिनि ! । काशपुष्पप्लवेनेदं साश्रुपातं मुखं मम ॥” इति । अस्यैव पञ्चमाधिकरणद्वितीयाध्याये प्रतिज्ञायौगन्धरायणचतुर्थाङ्कगतस्य
- कथावस्तुसंक्षेपो दृश्यताम् ।