स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)
Svapnavasavadattam of Bhasa with Hindi Commentary
महाकवि भास / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 78, कुल 204 में से
संदर्भ में पढ़ेंउपोद्घातः २१ पद्यस्य चतुर्थः पाद उदाहृतः “यो भर्तृपिण्डस्य कृते न युध्येत्” (श्लो. ४) इति । तथा तत्पञ्चमाधिकरणस्य प्रथमाध्याये चारुदत्तनाटकप्रथमाङ्कगतः श्लोक उदाहृतः— “यासां बलिर्भवति मद्गृहदेहलीनां हंसैश्च सारसगणैश्च विलुप्तपूर्वः । तास्वेव पूर्वबलिरूढयवाङ्कुरासु बीजाञ्जलिः पतति कीटमुखावलीढः ॥” इति । “लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः । असत्पुरुषसेवेव दृष्टिनिष्फलतां गता ॥” इत्यस्य बालचरितप्रथमाङ्के चारुदत्तप्रथमाङ्के च स्थितस्य श्लोकस्य पूर्वार्धं खैस्ता- ब्दषष्ठशतकभाजा दण्डिना काव्यादर्शस्य द्वितीयपरिच्छेदे उदाहृतं— “लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः । इतीदमपि भूयिष्ठमुत्प्रेक्षालक्षणान्वितम् ”॥ २२१ ॥ इति । अस्ति ध्वन्यालोकलोचने (पृ. १५२. उ. ३) “सञ्चितपक्ष्मकपाटं नयनद्वारं स्वरूपतडनेन(!) । उद्घाट्य सा प्रविष्टा हृदयगृहं मे नृपतनूजा ॥” इति काचिदार्या स्वप्नवासवदत्तगततयोदाहृता । सा मन्ये स्वप्नवास- वदत्तगता न भवति, अस्मदीयेषु त्रिष्वपि स्वप्नवासवदत्तादर्शेष्वनुपलम्भात् । किञ्च, काञ्चित् प्रत्यग्रदृष्टां स्त्रियं प्रति प्रतिनवाभिलाषोदयः श्लोके तस्मिन् प्रती- यते । स वासवदत्ताविषयो वा स्यात् पद्मावतीविषयो वा। नाद्यः, परिणीतचर- वासवदत्ताप्रवासविप्रलम्भस्यैव तत्र प्रकृतत्वात् । नापि द्वितीयः, यदृच्छागतस्य प्रार्थना मन्तरेण दर्शकेन स्वयंदत्तां पद्मावतीं प्रतिगृहीतवतो वासवदत्ताशोकस- १ 'भक्तपुष्पः।' इति चारुदत्ते ।