स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)
Svapnavasavadattam of Bhasa with Hindi Commentary
महाकवि भास / पं. विश्वनाथ शास्त्री द्वारा
उपोद्घातः २१ पद्यस्य चतुर्थः पाद उदाहृतः “यो भर्तृपिण्डस्य कृते न युध्येत्” (श्लो. ४) इति । तथा तत्पञ्चमाधिकरणस्य प्रथमाध्याये चारुदत्तनाटकप्रथमाङ्कगतः श्लोक उदाहृतः— “यासां बलिर्भवति मद्गृहदेहलीनां हंसैश्च सारसगणैश्च विलुप्तपूर्वः । तास्वेव पूर्वबलिरूढयवाङ्कुरासु बीजाञ्जलिः पतति कीटमुखावलीढः ॥” इति । “लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः । असत्पुरुषसेवेव दृष्टिनिष्फलतां गता ॥” इत्यस्य बालचरितप्रथमाङ्के चारुदत्तप्रथमाङ्के च स्थितस्य श्लोकस्य पूर्वार्धं खैस्ता- ब्दषष्ठशतकभाजा दण्डिना काव्यादर्शस्य द्वितीयपरिच्छेदे उदाहृतं— “लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः । इतीदमपि भूयिष्ठमुत्प्रेक्षालक्षणान्वितम् ”॥ २२१ ॥ इति । अस्ति ध्वन्यालोकलोचने (पृ. १५२. उ. ३) “सञ्चितपक्ष्मकपाटं नयनद्वारं स्वरूपतडनेन(!) । उद्घाट्य सा प्रविष्टा हृदयगृहं मे नृपतनूजा ॥” इति काचिदार्या स्वप्नवासवदत्तगततयोदाहृता । सा मन्ये स्वप्नवास- वदत्तगता न भवति, अस्मदीयेषु त्रिष्वपि स्वप्नवासवदत्तादर्शेष्वनुपलम्भात् । किञ्च, काञ्चित् प्रत्यग्रदृष्टां स्त्रियं प्रति प्रतिनवाभिलाषोदयः श्लोके तस्मिन् प्रती- यते । स वासवदत्ताविषयो वा स्यात् पद्मावतीविषयो वा। नाद्यः, परिणीतचर- वासवदत्ताप्रवासविप्रलम्भस्यैव तत्र प्रकृतत्वात् । नापि द्वितीयः, यदृच्छागतस्य प्रार्थना मन्तरेण दर्शकेन स्वयंदत्तां पद्मावतीं प्रतिगृहीतवतो वासवदत्ताशोकस- १ 'भक्तपुष्पः।' इति चारुदत्ते ।
तत्तद्दह्यमानहृदयस्य वत्सराजस्य पद्मावतीविषयाभिलाषवर्णनं प्रति तत्र काप्य- नवकाशात् । तेन स्वप्नवासवदत्ते तस्य श्लोकस्य निवेशयोग्यं स्थानमलभमानस्य चिरनिष्प्रचारत्वमूलः पाठभ्रंशोऽपि नानुमातुं शक्यः । एवं साहित्यदर्पणस्य षष्ठपरिच्छेदे ८५-तमकारिकाविवरणे “उत्साहातिशयं वत्स! तव बाल्यं च पश्यतः । मम हर्षविषादाभ्यामाक्रान्तं युगपन्मनः ॥” इति यः श्लोको बालचरितगतत्वेनोदाहृतः, स कामं रामबालचरित- गतो भवेत् । अत एव दर्पणव्याख्याता “दाशरथिं प्रति भार्गवस्योक्तिरियम्” इति तं व्याचष्टे । अस्मदीयं तु बालचरितं कृष्णविषयमिति तस्य श्लोकस्यात्रादर्शनं युक्तमेव । भामहकृतकाव्यालङ्कारस्य चतुर्थपरिच्छेदे कुतश्चित् काव्यान्यायविरोध उदाहृत्य निरूपितः । यथा— “विजिगीषुरुपन्यस्य वत्सेशं वृद्धदर्शनम् । तस्यैव कृतिनः पश्चादभ्यधाच्चारशून्यताम् ॥ ४० ॥ अन्तर्योधशताकीर्णं सालङ्कायननेत्तृकम् । तथाविधं गजच्छद्म नाज्ञासीत् स स्वभूगतम् ॥ ४१ ॥ यदि वोपेक्षितं तस्य सचिवैः स्वार्थसिद्धये । अहो नु मन्दिमा तेषां भक्तिर्वा नास्ति भर्तरि ॥ ४२ ॥ शरा दृढधनुर्मुक्ता मन्युमद्भिररातिभिः । मर्माणि परिहृत्यास्य पतिष्यन्तीति कानुमा ॥ ४३ ॥ हतोऽनेन मम भ्राता मम पुत्रः पिता मम । मातुलो भागिनेयश्च रुषा संरब्धचेतसः ॥ ४४ ॥ अस्यन्तो विविधान्याजावायुधान्यपराधिनम् । एकाकिनमरण्यान्यां न हन्युर्बहवः कथम् ॥ ४५ ॥ नमोऽस्तु तेभ्यो विद्वद्भ्यो येऽभिप्रायं कवेरिमम् । शास्त्रलोकावपास्यैव नयन्ति नयवेदिनः ॥ ४६ ॥
उपोद्घातः २३ सचेतसो वनेभस्य चर्मणा निर्मितस्य च । विशेषं वेद बालोऽपि कष्टं किन्नु कथन्नु तत् ॥ ४७ ॥" इति । अस्या भामहसमालोचनायाः सर्वो विषयः प्रतिज्ञानाटिकायां वर्तते । अपिच प्रतिज्ञानाटिकायाः प्रथमाङ्के यानि “ अणेण मम भादा हदो, अणेण- मम पिदा, अणेण मम सुदो” इति प्राकृतवाक्यानि, तानि “ हतोऽनेन मम भ्राता मम पुत्रः पिता मम ” इति श्लोकरूपेणानूदितानि भामहेनास्मिन् न्याय- विरोधसमालोचनप्रकरणे । अतो भामहेन प्रतिज्ञानाटिकैवानुसंहितेत्यूहितुं शक्यते । नाटिकाया नामधेयं तु तत्कालातिप्रसिद्धिवशादकथितमपि सुज्ञानमिति धिया भामहेन न निर्दिष्टं स्यात् । अस्य भामहसमालोचनाविषयभूतस्य कथा- वस्तुनो बृहत्कथायामपि सत्त्वाद् भामहेन सैवानुसंहिता, न तु प्रतिज्ञानाटि- केति तु न शङ्कनीयं, “हतोऽनेन मम भ्राते”ति भामहेनानूद्यमानस्य वाक्यस्य प्रतिज्ञायां प्रत्यक्षतयोपलब्धेः, बृहत्कथायां तस्य सद्भावकल्पनायां प्रमाणा- भावात् । वस्तुतस्तु भामहकालात् परत एव बृहत्कथाया निष्पत्तिरित्यनुपदं वक्ष्यामः । स चायं भामहः कालिदासात् प्राचीनः प्रतिभाति । तेन हि मेधा- वी, रामशर्मा, अश्मकवंशं, रत्नाहरणम्, अच्युतोत्तरम् इत्यस्मदविदितानि कविकाव्यनामानि गृहीतानि । सर्वलोकविदितस्य तु श्रीकालिदासस्य तत्काव्यस्य वा लोकोत्तरस्य कस्यचिन्न नामधेयं गृहीतम् । भामहाचार्यश्चेत् कालिदा- सकाव्यमद्रक्ष्यत्, तदवश्यं निरदेक्ष्यद् अतिप्रसिद्धत्वादनिर्देशन्नपि विषयवि- चारादिद्वारेण प्रतिज्ञानाटिकामिव वास्मरिष्यत् । यद्यपि “अयुक्तिमद् यथा दूता जलभृन्मारुतादयः । तथा भ्रमरहारीतचक्रवाकशुकादयः ॥ ४२ ॥ अवाचोऽव्यक्तवाचश्च दूरदेशविचारिणः । कथं दूत्यं प्रपद्येरन्निति युक्त्या न युज्यते ॥ ४३ ॥ यदि चोत्कण्ठया तत्तदुन्मत्त इव भाषते । तथा भवतु भूम्नेदं सुमेधोभिः प्रयुज्यते ॥ ४४ ॥ ” (भाम. काव्याल. परि. १)
२४ उपोद्घातः इति युक्तायुक्तत्वविचारे मेघमारुतादिदूतीकरणं विषयतया भामहेन प्रस- ङ्गितं, तथापि तावता मेघदूतकाव्यं स जानातीति न युक्तं कल्पयितुम् । तथासति ह्यस्तनेन केनापि कविना प्रणीतं शुकसन्देशमपि स जानातीति कल्पनीयमाप- द्येत । अतो, मन्ये, केषुचित् काव्येषु विप्रलम्भादिप्रसङ्गे मारुतचन्द्रमेघा- द्यचेतनद्वारेण भ्रमरचक्रवाकशुकाद्यव्यक्तवाक्प्राणिद्वारेण च प्रियजनाय विर- हिणां सन्देशप्रेषणं क्वचित् क्वचिद् यद् वर्ण्यते, तदुन्मादावस्थायां नेष्यत इत्येत- देव सामान्यत आचार्यः श्लोकैरेभिरुपदिष्टवान् , तच्चेदमाचार्योपदेशतात्पर्यं हृदि निधायैवौचित्यवेदी कालिदासो मेघदूतस्यारम्भे तद्दूतीकरणानौचित्यमाशङ्क्य परिजहार— “धूमज्योतिःसलिलमरुतां सन्निपातः क्व मेघः सन्देशार्थाः क्व पटुकरणैः प्राणिभिः प्रापणीयाः । इत्यौत्सुक्यादपरिगणयन् गुह्यकस्तं ययाचे कामार्ता हि प्रकृतिकृपणाश्चेतनाचेतनेषु ॥” (पूर्वमेघ. ५) इति श्लोकेन । एवं तावत् सिद्धं भामहस्य कालिदासात् प्राचीनत्वम् । ननु च कालिदासेन मेघदूते “प्राप्यावन्तीनुदयनकथाकोविदग्रामवृद्धान्” (पूर्वमे- घ. ३०) इति कालिदासकालवर्तिनाम् अवन्तिजनपदग्रामवृद्धानाम् उदयनकथो- दाहरणनिपुणतोक्त्या उदयनसंज्ञवत्सराजद्रष्टृत्वप्रतीतेः उदयनः कालिदासस- न्निकृष्टपूर्वकालो भवितुं युक्तः । तत् कथं भामहो वत्सराजस्यात्मकालसन्निकर्षं लेशतोऽप्यसूचयन् प्रत्युत तमितिहासमात्राधीतप्रायं स्फोरयन् कालिदासात् प्राचीनः स्यात् । नैतत् । मालविकाग्निमित्रप्रस्तावनायां हि “प्रथितयशसां भाससौमिल्लकविपुत्रादीनां प्रबन्धानतिक्रम्य वर्तमानकवेः कालिदासस्य क्रियायां कथं बहुमान” इति भासस्य प्रथितयशस्त्वमाह कालिदासः, पुराणत्वं च भासकाव्यस्य प्रत्येति । “पुराणमित्येव न साधु सर्वं न चापि काव्यं नवमित्य- वद्यम् ॥” इति । तदुभयस्वरसाद् भासस्य कीर्तेश्चिरकालक्रमसिद्धा परा काष्ठा कालिदासकाले स्थितेति गम्यते । सा चावरतस्तत्कृतीनां सप्ताष्टवर्षशतकप्रचार- मन्तरेण न सम्भाव्येति कृत्वा कालिदासापेक्षम् अतिप्राचीनत्वं भासस्य न्याय्यं,
उपोद्घातः २५ सुतरां तु भासनाटकनायकस्योदयनस्येति न कथञ्चिदप्युदयनस्य कालिदास- सन्निकृष्टपूर्वकालत्वशङ्काया अवकाशः । “उदयनकथाकोविदग्रामवृद्धान्” इत्येतच्च, अवन्तिग्रामवृद्धाः स्वानुपलब्धमेवेतिहासाद्यधीतं स्वजनपदनिर्वृत्तम् उदयनकथा- द्भुतं पुरावृत्तप्रेम्णा वृद्धभावसहभुवा शंसन्त आद्रियन्त इत्येवमभिप्रायं, न तु तेषामुदयनद्रष्टृत्वानुमापकम् । अतः सुस्थं भामहस्य कालिदासप्राचीनत्वम् । अपिच, भामहः काव्यालङ्कारे कथार्यायिकयोः स्वरूपं निरूपयन् बृहत्कथां नानुसन्धत्ते । सा हि कथाविशेषत्वात् तत्प्रसङ्गे स्मर्तुमुचिता। तथा च दण्डी का- व्यादर्शे कथार्यायिकाप्रस्तावे “भूतभाषामयीं प्राहुरद्भुतार्थां बृहत्कथाम्” इति बृहत्कथां स्मरति । तेन मन्ये, भामहकाले बृहत्कथा नावर्ततेति । तदुत्तरकाल एव तास्ताश्चमत्कारिणीरुच्चावचाः कथा इतिहासतः स्वप्नवासव- दत्तादिकाव्यतो लोकतश्चौचित्य स्वयं कल्पयित्वा च बृहत्कथां नाम कथाभाण्डा- गारं नूनं गुणाढ्यो जग्रन्थ । गुणाढ्यश्च शकप्रवर्तकशालिवाहनसमकाल इति शालिवाहनतोऽपि भामहः प्राचीनो भवन् क्रैस्ताब्दारम्भप्राक्तनं प्रथमं वर्षशतकं संस्पृशति । भामहादपि तु जरत्तरतामर्हन्नस्मन्नाटकचक्रकविः क्रैस्तप्राक्तने तृतीये द्वितीये वा वर्षशतके निवेशमवश्यं लभते । किञ्च, राज्यतन्त्रविद्याचार्यः कौटिल्य इति चाणक्य इति च पर्यायवा- च्यो विष्णुगुप्तश्चन्द्रगुप्तसमानकालः क्रैस्तप्राचीने चतुर्थे वर्षशतके स्थित इति सुप्रसिद्धम् । तत्प्रणीते कौटिलीयार्थशास्त्रे मन्त्रिपुरोहितकरणीयस्य योधयुद्ध- प्रोत्साहनस्य प्रकारोपदेशावसरे “तुल्यवेतनॊऽस्मि, भवद्भिः सहभोग्यमिदं राज्यं, मयाभिहितः परोऽभिहन्तव्यः' इति, वेदेष्वप्यनुश्रूयते - समाप्तदक्षिणानां यज्ञा- नामवभृथेषु 'सा ते गतिर्या शूराणामि'ति, अपीह श्लोकौ भवतः - “यान् यज्ञसङ्घैस्तपसा च विप्राः स्वर्गैषिणः पात्रचयैश्च यान्ति । क्षणेन तानप्यतियान्ति शूराः प्राणान् सुयुद्धेषु परित्यजन्तः ॥” “नवं शरावं सलिलैस्य पूर्णं सुसंस्कृतं दर्भकृतोत्तरीयम् । तत् तस्य मा भून्नरकं च गच्छेदू यो भर्तृपिण्डस्य कृते न युध्येत् ॥” इति मन्त्रिपुरोहिताभ्यामुत्साहयेद् योधान्” (कौटि. अर्थ. अधि. १०. अध्या. ३) १. 'लैः सुपूर्', २. 'स' इति प्रतिज्ञानाटिकायाम् । 23890
२६ उपोद्घातः
इति दृश्यते । शूरस्य सद्गतिर्युद्धे प्राणांस्त्यक्तवतः यज्ञतपस्साध्यकामलाभः विजयिनः *समर्हणा च लोके सुलभा इति, राज्ञः पिण्डदातुरर्थे युद्धमकुर्वन् पा- पीयान् भवतीति चोदाहृतवाक्यानामभिप्रायः। तत्र “नवं शरावम्” इत्येष श्लोकः प्रतिज्ञायौगन्धरायणस्य चतुर्थाङ्के भटान् प्रति कस्यचित् प्रोत्साहनवाक्यतया निवेशितः । अस्य श्लोकस्य किमर्थशास्त्रान्नाटके समुद्धरणम् उताहो नाटकादर्थ- शास्त्रे इति चिन्तनीयम् । तत्र युद्धप्राणत्यागस्य धर्महेतुत्वं भर्तृपिण्डानिर्यातनस्य पापहेतुत्वं चार्थप्रधानेन यदुपदिश्यते, तत् प्रमाणानुग्रहविकल्पमुपप्रलो- भनप्रायमविश्वास्यं भवतीति तत्रावश्यं प्रमाणमुपदर्शनीयम् । तच्चादौ “सा ते गतिरि”त्यादि श्रौतमुपदर्शितम् । पश्चात्तु अभियुक्तवचनरूपं स्मृ- तिकल्पं श्लोकद्वयमिति स्वरसतः प्रतीतेः “नवं शरावम्” इति श्लोको नार्थशास्त्रकारस्य स्वोक्तिर्भवितुमर्हति । परोक्त्यनुवादसहपाठादप्ययं श्लोकोऽर्थ- शास्त्रकारस्य न स्वोक्तिः। “यान् यज्ञसङ्घैरि”ति पूर्वश्लोको हि ‘यान्’ ‘तान्’ इत्युभ- यत्राप्यनिर्दिष्टं विशेष्यं किमपि कामलक्षणं लोकलक्षणं वा पूर्वप्रकृतमाकाङ्क्षन्सं- शयं ग्रन्थान्तराभिजन इत्यनुवादरूपो निश्चितः । किञ्चार्थशास्त्रे कौटिल्यः स्वो- क्तिरूपं श्लोकं श्लोकौ श्लोकान् वा न क्वचिदपि प्रतिज्ञापूर्वं लिखितवान् । इहैकत्र परम् “अपिह श्लोकौ भवत” इति तस्य पूर्वप्रतिज्ञाकरणमालक्ष्यमाणमुत्तरयोः श्लोकयोः परकीयतामेव द्योतयदर्थवद् भवति । काव्ये पुनः शास्त्रलोकसिद्धमर्थं वश्यवाचो महाकवय उत्सर्गतः स्वोक्त्यैव प्रतिपादयन्ति, यत्रक्वचित् परवचनानु- पूर्वीमनुवदन्तो वा तेऽनुवादचिह्नमवश्यं कुर्वन्तीति प्रतिज्ञायौगन्धरायणे अनुवा- दलिङ्गाकरणाद् “नवं शरावम्” इति श्लोको भासमहाकवेरेव स्वोक्तिरिति युक्तं पश्या- मः । तेनार्थशास्त्रकाराच्चाणक्यादप्यस्मन्महाकवेः प्राचीनत्वं सिद्धं भवति । यस्तु मेधातिथिः प्रतिमानाटकस्य पञ्चमाङ्के रामं प्रति रावणवाक्ये “भोः काश्यपगो- त्रोऽस्मि, साङ्गोपाङ्गं वेदमधीये, मानवीयं धर्मशास्त्रं, माहेश्वरं योगशास्त्रं, बार्ह- स्पत्यमर्थशास्त्रं, मेधातिथेर्न्यायशास्त्रं, प्राचेतसं श्राद्धकल्पं च ” इति स्मर्यते, स दिव्यानुभावपुरुषप्रायपाठात् तथाभूतः कश्चिन्महर्षिः स्याद्, न पुनर्मानवी- यव्याख्याता पण्डितविशेष इति भासं प्रति नैतदर्वाचीनत्वभ्रान्तेरवकाशः॥ उपलभ्यते चैतावत्प्राचीनत्वानुगुणा नाटकेष्वेतेषु गुणसमृद्धिः । अत्र
- पूर्णजलकलशोपहारलाभरूपा पूजा।
उपोद्घातः २७ हि प्रसन्नोदारगम्भीरा सरसहृदयङ्गमा भाषायाः शैल्येव तावदन्यादृशी काव्यगुणसमृद्धिः । प्रायः, यस्या वर्षसहस्रादर्वाचीनेषु काव्येष्वतिविरलं दर्शन- मभाव एव वा । सुशिक्षितमतिगोचरैः प्रशस्तैर्जनमनोविमर्शैर्नानारूपैः सन्ति सर्वतः समृद्धा इह वाक्यसमुदाहाराः । अवस्थाभेदभिन्नाः सुसूक्ष्मास्तत्तद्वस्तुपरमार्था यथा सचेतसां पुर इव परिस्फुरेयुस्तथेह प्रतिपादिताः । अपिच, यदौचित्यं नाम प्रतिपाद्यसङ्कोचविकासयोर्वा रसानुरूप- शब्दार्थपरिग्रहे वा, तत् क्वचिदप्यत्र रसैकदृष्टिना महाकविना न लङ्घितम् । कामं वयं सरसभणितीनामनायासप्रसरं प्रसिद्धासु एकद्वमहाकवि- कृतिषु न खलु नालक्षयामः । किन्तु तस्य परमा काष्ठैतस्मिन् नाटकचक्रे संल- क्ष्यते । इदं हि आत्मीयकवेर्मुखान्निःश्वसितनिर्विशेषं विनिस्सृतमिति न खलु नोदे- ति सचेतसामेतत् परिशीलयतां बुद्धिः । सर्वथैतद्गतं शब्दार्थसौष्ठवमार्षसूक्तिसौ- ष्ठवस्यैव, मन्ये, चारुतरं भूमिकान्तरमिति । एषु रूपकेष्वैकैकस्मिन्ननुवाच्यमाने गुणानेतान् इतोऽधिकांश्च सहृदयाः स्वयमसंशयं प्रत्यक्षयिष्यन्ति । एषां पृथगुदाहृतिर्बहुवाक्यानुसन्धानसापेक्षा वाग्वि- स्तरोपपाद्या चोपोद्घातमतिमात्रं विस्तारयेदिति नेदानीं तत्र संरभामहे । सामा- न्यतस्तु शैलीप्रदर्शनार्थं कानिचिद् वाक्यानि तत्तन्नाटकेभ्य उदाहरामः । स्वप्नवासवदत्ते वने पद्मावतीपरिजनकृतोत्सारणादुःखितां वासवदत्तां प्रति यौगन्धरायणस्याश्वासनोक्तिरियं — ‘‘पूर्वं त्वयाप्यभिमतं गतमे*वमासी- च्छ्लाघ्यं गमिष्यसि पुनर्विजयेन भर्तुः ।
- एवं गतं परिजनविभवोपेतं गमनमित्यर्थः।
२८ उपोद्घातः कालक्रमेण जगतः परिवर्तमाना चक्रारपङ्क्तिरिव गच्छति भाग्यपङ्क्तिः ॥” (अ. १. श्लो. ४) सत्कारः सत्कारेण स्वीकर्तव्य इत्यमुमर्थं प्रति वत्सराजस्य समर्थनावाक्यं — “गुणानां वा विशालानां सत्काराणां च नित्यशः । कर्तारः सुलभा लोके विज्ञातारस्तु दुर्लभाः ॥” (अ. ४. श्लो. ९) प्रतिज्ञानाटिकायां प्रयत्नस्य फलावश्यम्भावोक्तिः— “काष्ठादग्निर्जायते मथ्यमानाद् भूमिस्तोयं खन्यमाना ददाति । सोत्साहानां नास्त्यसाध्यं नराणां मार्गारब्धाः सर्वयत्नाः फलन्ति ॥” (अ. १. श्लो. १८) वरेषु गवेषणीयगुणपरा महासेनस्योक्तिः— “कुलं तावच्छ्लाघ्यं प्रथममभिकाङ्क्षे हि मनसा ततः सानुक्रोशं मृदुरपि गुणो ह्येष बलवान् । ततो रूपे कान्तिं न खलु गुणतः स्त्रीजनभयात् ततो वीर्योद्रिक्तं न हि न परिपाल्या युवतयः ॥” (अ. २. श्लो. ४) कन्यामातृणामवस्थोक्तिः— “अदत्तेत्यागता लज्जा दत्तेति व्यथितं मनः । धर्मस्नेहान्तरे न्यस्ता दुःखिताः खलु मातरः ॥” (अ. २. श्लो. ७) पञ्चरात्रे द्रोणाचार्यस्य शिष्यविषयचिन्तोक्तिः— “अतीत्य बन्धूनवलङ्घ्य मित्रा- ण्याचार्यमागच्छति शिष्यदोषः । बालं ह्यपत्यं गुरवे प्रदातु- र्नैवापराधोऽस्ति पितुर्न मातुः ॥” (अ. १. श्लो. १८)
उपोद्घातः २९ युधिष्ठिरस्य धार्तराष्ट्रदोषादात्मदोषाभिशङ्कनपरेयमुक्तिः— “एकोदकत्वं खलु नाम लोके मनस्विनां कम्पयते मनांसि । वैरप्रियैस्तैर्हि कृतेऽपराधे यत्सत्यमस्माभिरिवापराद्धम् ॥” (अ. २ श्लो. ९) योधकर्माभिनन्दनं प्रति विराटस्योक्तिः— “ताडितस्य हि योधस्य श्लाघनीयेन कर्मणा । अकालान्तरिता पूजा नाशयत्येव वेदनाम् ॥” (अ. २. श्लो. २८) चारुदत्तनाटके अन्धकारविषयोक्तिः— “सुलभशरणमाश्रयो भयानां वनगहनं तिमिरं च तुल्यमेव । उभयमपि हि रक्ष्यतेऽन्धकारे जनयति यश्च भयान्यश्च भीतः ॥” (अ. १. श्लो. २०) चौर्यप्रवृत्तस्योक्तिः — “लुब्धोऽर्थवान् साधुजनाभिमानी वणिक् स्ववृत्तावतिकर्कशश्च । यस्तस्य गेहं यदिनाम लप्स्ये भवामि दुःखोपहतो न चित्ते ॥” (अ. ३. श्लो. ७) दूतघटोत्कचे धृतराष्ट्रस्याभिमन्युवधदुःखितस्योक्तिः — “बहूनां समुपेतानामेकस्मिन् निर्घृणात्मनाम् । बाले पुत्रे प्रहरतां कथं न पतिता भुजाः ॥” (श्लो. १७) दुर्योधनं प्रति घटोत्कचस्योक्तिः —
१० उपोद्धातः “ न तु जतुगृहे सुप्तान् भ्रातॄन् दहन्ति निशाचराः शिरसि न तथा भ्रातुः पत्नीं स्पृशन्ति निशाचराः । न च सुतवधं सङ्कोचे वृत्तं स्मरन्ति निशाचरा विकृतवपुषोऽप्युग्राचारा घृणा न तु वर्जिता ॥” (श्लो. ४५) अविमारके राजभावस्य मन्त्रित्वस्य च दुर्वहतां प्रति राज्ञो मन्त्रिणश्चोक्ती— “धर्मः प्रागेव चिन्त्यः सचिवमतिगतिः प्रेक्षितव्या स्वबुद्ध्या प्रच्छाद्यौ रागदोषौ मृदुपुरुषगुणौ कालयोगेन कार्यौ । ज्ञेयं लोकानुवृत्तं परचरनयनैर्मण्डलं प्रेक्षितव्यं रक्ष्यौ यत्नादिहात्मा रणशिरसि पुनः सोऽपि नावेक्षितव्यः ॥” (अ. १. श्लो. १२) “प्रसिद्धौ कार्याणां प्रवदति जनः पार्थिवबलं विपत्तौ विस्पष्टं सचिवमतिदोषं जनयति । अमात्या इत्युक्ताः श्रुतिसुखमुदारं नृपतिभिः सुसूक्ष्मं दण्ड्यन्ते मतिबलविदग्धाः कुपुरुषाः ॥”(अ. १. श्लो. ५) अयं निशारम्भवर्णने श्लोकः — “व्यामृष्टसूर्यतिलको विततोडुमालो नष्टातपो मृदुमनोहरशीतवातः । संलीनकामुकजनः प्रविकीर्णचोरो वेषान्तरं रचयतीव मनुष्यलोकः ॥” (अ. २. श्लो. १३) दैवस्य बलवत्तां प्रति श्लोकः — “यत्ने कृते यदि न सिध्यति कोऽत्र दोषः को वा न सिध्यति ममेति करोति कार्यम् । यत्नैः शुभैः पुरुषता भवतीह नॄणां दैवं विधानमनुगच्छति कार्यसिद्धिः ॥” (अ. ३. श्लो. १२)
उपोद्घातः ३१ बालचरिते तमसः प्रभुत्वं प्रति यथा — “ अप्रकाशा इव दिशो घनीभूता इव द्रुमाः । सुनिविष्टस्य लोकस्य कृतो रूपविपर्ययः ॥” (अ. १. श्लो. १६) यथा च — *“दुद्दिणविणट्ठजोण्हा ळत्ती वट्टइ णिमीलिआकाळा । संपाउदप्पसुत्ता णीळणिवषणा जहा गोवी ॥” (अ. १. श्लो. १९) मध्यमव्यायोगे मङ्गलश्लोको यथा— “पायात् स वोऽसुरवधूहृदयावसादः पादो हरेः कुवलयामलखङ्गनीलः । यः प्रोद्यतस्त्रिभुवनैकमणे रराज वैदूर्यसङ्क्रम इवाम्बरसागरस्य ॥” (श्लो. १) राक्षसवर्णनं यथा— “सिंहास्यः सिंहदंष्ट्रो मधुनिभनयनः स्निग्धगम्भीरकण्ठो बभ्रुभ्रूः श्येननासो द्विरदपतिहनुर्दीर्घविश्लिष्टकेशः । व्यूढोरा वज्रमध्यो गजवृषभगतिर्लम्बपीनांसबाहुः सुव्यक्तं राक्षसीजो विपुलबलयुतो लोकवीरस्य पुत्रः ॥” (श्लो. २६) कर्णभारे कवचकुण्डलदानं वारयितारं शल्यं प्रति कर्णोक्तिः— “शिक्षा क्षयं गच्छति कालपर्ययात् सुबद्धमूला निपतन्ति पादपाः ।
- दुर्दिनविनष्टज्योत्स्ना रात्रिर्वर्तते निमीलिताकारा । सम्प्रावृतप्रसुप्ता नीलनिवसना यथा गोपी ॥
१२ . उपोद्घातः जलं जलस्थानगतं च शुष्यति हुतं च दत्तं च तथैव तिष्ठति ॥” (श्लो. १९) ऊरुभङ्गे भग्नोरुपतितस्य दुर्योधनस्य वर्णनं यथा— “श्रीमान् संयुगचन्दनेन रुधिरेणार्द्रानुलिप्तच्छवि- भूसंसर्पणरेणुपाटलभुजो बालव्रतं ग्राहितः । निर्वृत्तेऽमृतमन्थने क्षितिधरान्मुक्तः सुरैः सासुरै- राकर्षन्निव भोगमर्णवजले श्रान्तोझितो वासुकिः॥” (श्लो. २८) अभिषेकनाटके सीताग्निप्रवेशचोदनादुःखितस्य लक्ष्मणस्योक्तिः— “विज्ञाय देव्याः शौचं च श्रुत्वाचार्यस्य शासनम् । धर्मस्नेहान्तरे न्यस्ता बुद्धिर्दोलायते मम ॥” (अ. ६. श्लो. २१) रावणस्य रामभयनिवारणोक्तिः— “कथं लम्बसटः सिंहो मृगेण विनिपात्यते । गजो वा सुमहान् मत्तः सृगालेन निहन्यते ॥” (अ. ३. श्लो. १९) प्रतिमानाटके रामस्य वचनम्— “आरब्धे पटहे स्थिते गुरुजने भद्रासने लङ्घिते स्कन्धाच्चारणनम्यमानवदनप्रच्योतितोये घटे । राज्ञाहूय विसर्जिते मयि जनो धैर्येण मे विस्मितः स्वः पुत्रः कुरुते पितुर्यदि वचः कस्तत्र भो विस्मयः ॥” (अ. १. श्लो. ४) रामस्य स्वाभिषेकाज्ञाश्रवणोत्तरमास्मपितृपादपतनवृत्तान्तोक्तिः सीतां प्रति— “समं बाष्पेण पतता तस्योपरि ममाप्यधः । पितुर्मे क्लेदितौ पादौ ममापि क्लेदितं शिरः ॥” (अ. १. श्लो. ५)
उपोद्घातः ३३ कैकेयीकुपितस्य लक्ष्मणस्य रामं प्रत्युक्तिः— “यदि न सहसे राज्ञो मोहं धनुः स्पृश मा दया स्वजननिभृतः सर्वोऽप्येवं मृदुः परिभूयते । अथ न रुचितं मुञ्च त्वं मामहं कृतनिश्चयो युवतिरहितं लोकं कर्तुं यतश्छलिता वयम् ॥” (अ. १. श्लो. १८) भरतस्य स्वजनदर्शनौत्सुक्यादुक्तिः— “पतितमिव शिरः पितुः पादयोः स्निग्धतेवास्मि राज्ञा समुत्थापित- स्त्वरितमुपगता इव आतरः क्लेदयन्तीव मामश्रुभिर्मातरः । सदृश इति महानिति व्यायतश्चेति भृत्यैरिवाहं स्तुतः सेवया परिहसितमिवात्मनस्तत्र पश्यामि वेषं च भाषां च सौमित्रिणा ॥” (अ. ३. श्लो. ३) भरतस्य कैकेयीं प्रत्युक्तिः— “वयमयशसा चीरेणार्यो नृपो गृहस्मृत्युना प्रततरुदितैः कृत्स्नायोध्या मृगैः सह लक्ष्मणः । दयिततनयाः शोकेनाम्बाः स्नुषाध्वपरिश्रमै- र्धिगिति वचसा चोग्रेणात्मा त्वया ननु योजिताः ॥” (अ. ३. श्लो. १६) तस्यैवोक्त्यन्तरं— “तत्र यास्यामि यत्रासौ वर्तते लक्ष्मणप्रियः । नायोध्या तं विनायोध्या सायोध्या यत्र राघवः ॥” (अ. ३. श्लो. २२) अविदितनामके नाटके मङ्गलश्लोकः— “पादः पायादुपेन्द्रस्य सर्वलोकोत्सवः स वः । व्याविद्धो नमुचिर्येन तनुताम्रनखेन खे ॥”
३४ उपोद्घातः एषा श्लोकानां शैली । अच्छन्दोबद्धानां तु वाक्यानां सर्वेषामपि काम- नीयकं श्लोकतोऽप्युत्कृष्टमेषु रूपकेषु सर्वत्र सजातीयसर्वग्रन्थान्तरातिशायि निरु- पमं च । तदेतद् ग्रन्थानुवाचनयैव सुखसंवेद्यं भावकानामिति नेह तद्वाक्योदा- हरणप्रपञ्चं कुर्मः । न खलु सा काचिद् रीतिः कालिदासादिनाटकेष्वभिलक्ष्यते, यां भास- महाकविः स्वेषु नाटकेषु न प्रस्थापयाम्बभूव । विक्रमाब्दारम्भोत्तरमनन्यगामिनीं भासानुकरणम्। कविचक्रवर्तिख्यातिं लब्धवतः कालिदासस्य कृतिष्वभ्यर्हिते अभिज्ञानशाकुन्तले भासकाव्यच्छायानामनुकरणं भूयिष्ठमुपलभ्यते । यथा — “यस्यां न प्रियमण्डनापि महिषी देवस्य मन्दोदरी स्नेहाल्लुम्पति पल्लवान् न च पुनर्वीजन्ति यस्यां भयात् । वीजन्तो मलयानििला अपि करैरस्पृष्टबालद्रुमा सेयं शक्ररिपोरशोकवनिका भग्नेति विज्ञाप्यताम् ॥” इत्ययमभिषेकनाटकचतुर्थाङ्कगतः श्लोकः । अस्यच्छाया शाकुन्तलचतुर्थाङ्कस्थे “पातुं न प्रथमं व्यवस्यति पयो युष्मास्वपीतेषु या नादत्ते प्रियमण्डनापि भवतां स्नेहेन या पल्लवम् । आद्ये वः कुसुमप्रसूतिसमये यस्या भवत्युत्सवः सेयं याति शकुन्तला पतिगृहं सर्वैरनुज्ञायताम् ॥” इत्यस्मिन् पद्ये लक्ष्यते । न केवलमिह तच्छायामात्रस्य दर्शनं, किन्तु “प्रियमण्ड- नापि, स्नेहात्, पल्लवान्, सेयम्” इत्येषां सरसहृद्यानां तदीयपदानाम्प्युपादान- मस्ति । बालचरितस्य प्रथमाङ्के शिशुमर्धरात्रे वसुदेवस्य हस्ते कथञ्चिदर्पयित्वा हृदयेन शिशुदिशं देहेन सूतिकागृहं च द्विदिकं गच्छन्तीं देवकीमधिकृत्य वसु- देवस्य वचनं — “हृदयेनेह तत्राङ्गैर्द्विधाभूतेव गच्छति । यथा नभसि तोये च चन्द्रलेखा द्विधाकृता ॥”
उपोद्घातः ३९ इति। अस्यच्छाया शाकुन्तलप्रथमाङ्कस्थे “गच्छति पुरः शरीरं धावति पश्चादसंस्तुतं चेतः। चीनांशुकमिव केतोः प्रतिवातं नीयमानस्य॥” इति पद्ये स्पष्टा। स्वप्नवासवदत्तप्रथमाङ्कगतस्य ‘विस्रब्धं हरिणाश्चरन्त्यचकिता देशागतप्रत्ययाः’ इति पादस्य कयाचिद् भङ्ग्यार्थानुकारः ‘विश्वासोपगमादभिन्न- गतयः शब्दं सहन्ते मृगाः’ इति शाकुन्तलप्रथमाङ्के कृतः। एवमन्यदपि भास- नाटकच्छायानुविधानं कालिदासकृतिषु द्रष्टव्यम्। भवभूतेरप्येतन्नाटकचक्रप- रिशीलनजनिताः संस्कारास्तत्कृतिषु बहुलं प्रस्फुरन्ति। उत्तररामचरितस्य द्विती- याङ्कगतो ह्यात्रेयीसंवादः स्वप्नवासवदत्तप्रथमाङ्कगतं ब्रह्मचारिसंवादमनुकरोति; षष्ठाङ्कगतश्च विद्याधरसंवादोऽभिषेकनाटकषष्ठाङ्कगतं विद्याधरसंवादम्। मालती- माधवपञ्चमाङ्कस्थो दण्डकप्रयोगोऽविमारकपञ्चमाङ्कस्थं दण्डकप्रयोगमनुकरोति। अपिच, यत् कालिदासात् प्राचीनं मन्यन्ते, तस्मिन् मृच्छकटिके न भासकाव्यच्छायामात्रस्यानुकरणम्; अपितु भासकाव्यवाक्यानामेव भूयिष्ठानां मृच्छकटिकविचारः। साक्षान्निवेशनमस्ति। चारुदत्तनाटके हि यानि पद्यानि चू- र्णकवाक्यानि च, तानि तथैव वा मनागावापोद्वापाभ्यां व्यत्ययकरणेन वा मृ- च्छकटिके परिपठितानि। तत्र चारुदत्तनाटकस्य प्रथमाङ्के श्लोकः — “यासां बलिर्भवति मद्गृहदेहलीनां हंसैश्च सारसगणैश्च विभक्तपुष्पाः। तास्वेव पूर्वबलिरूढयवाङ्कुरासु बीजाञ्जलिः पतति कीटमुखावलीढः॥” इति। मृच्छकटिकस्य तु — “यासां बलिः सपदि मद्गृहदेहलीनां हंसैश्च सारसगणैश्च विलुप्तपूर्वः।
३६ उपोद्घातः तास्वेव सम्प्रति विरूढतृणाङ्कुरासु बीजाञ्जलिः पतति कीटमुखावलीढः ॥” इति। चारुदत्तस्य तृतीयाङ्के— “मार्जारः प्लवने वृकोऽपसरणे श्येनो गृहालोकने निद्रा सुप्तमनुष्यवीर्यतुलने संसर्पणे पन्नगः । माया वर्णशरीरभेदकरणे वा(ग्) देशभाषान्तरे दीपो रात्रिषु सङ्कटे च तिमिरं वायुः स्थले नौर्र्जले ॥” इति। मृच्छकटिकस्य तु “मार्जारः क्रमणे मृगः प्रसरणे श्येनो गृहालुञ्चने सुप्तासुप्तमनुष्यवीर्यतुलने श्वा सर्पणे पन्नगः । माया रूपशरीरवेषरचने वाग् देशभाषान्तरे दीपो रात्रिषु सङ्कटेषु डुडुमो वाजी स्थले नौर्जले ॥” इति। चारुदत्तस्य चतुर्थाङ्के— “विषादस्रस्तसर्वाङ्गी सम्भ्रमोत्फुल्ललोचना । मृगीव शरविद्धाङ्गी कम्पसे चानुकम्पसे ॥” इति। मृच्छकटिकस्य तु— “विषादस्रस्तसर्वाङ्गी संभ्रमभ्रान्तलोचना । नीयमाना भुजिष्यात्वं कम्पसे नानुकम्पसे ॥” इति। चारुदत्तनाटके “किण्णुखु अज्ज पच्चूस एव्व गेहादो णिक्खन्तस्स बुभु- क्खाए पुक्खरपत्तपडिदजळबिन्दू विअ चळचळाअन्ति विअ मे अक्खीणि । (परिक्रम्य) जाव गेहं गच्छिअ जाणामि किण्णुखु संविधा विहिदा ण वेत्ति । एदं अह्माणं गेहं । जाव पविसामि” इति सूत्रधारवाक्यानि। एतदर्थकानि मृच्छकटिके त्येतानि “............. चिरसज्झिदोवासणेण सुक्खपोक्खरणाळाइं बिअ मे बुभु-
उपोद्घातः ३७ क्खाए मिलाणाईं अङ्गाइं । ता जाव गेहं गदुअ आणामि अत्थि किं पि कुटु- म्बिणीए उववादिअं ण वेत्ति । (परिक्रम्यावलोक्य च) एदं तं अह्माणं गेहं, ता प- विसामि ।” चारुदत्तनाटकस्य द्वितीयाङ्कादौ वाक्यानि — “गणिका— तदो तदो। चेटी — अझहे ण किञ्चि मए भणिदं । किं तदो तदो त्ति । गणिका — हज्जे! किं मए मन्तिदं ” एतदर्थकानि मृच्छकटिकस्य तत्र वाक्यानि — वसन्तसेना — हज्जे! तदो तदो । चेटी — अज्जुए! ण किं पि मन्तेसि । किं तदो तदो । वसन्तसेना — किं मए भणिदं । चेटी — तदो तदो त्ति ।” चारुदत्तनाटकस्य तृतीयाङ्के वाक्यानि — “चारुदत्तः — वयस्य! वीणा नामासमुद्रोत्थितं रत्नम् । कुतः” “विदूषकः — कामं पसंसेदु भवं । मम खु दाव गाअन्तो मणुस्सो इत्थि- आ वि पठन्ती उभअं आदरं ण देदि । गाअन्तो दाव मणुस्सो रत्तसुमणावेष्टिदो विअ पुरोहिदो दिढं ण सोभइ । इत्थिआ वि पठन्ती छिण्णणासा विअ धेणुआ अदिविरूवा होइ ।” मृच्छकटिके त्वेतानि — “चारुदत्तः — अहो अहो साधु साधु रेभिलेन गीतम् । वीणा हि नामा- समुद्रोत्थितं रत्नम् । कुतः ”
३८ उपोद्धातः "विदूषकः- मम दाव दुवेहिं जेव्व हस्सं जाअदि इत्थिआए सक्कअं पठन्तीए मणुस्सेण अ काअलिं गाअन्तेण । इत्थिआ दाव सक्कअं पठन्ती दि- ण्णणवणस्सा विअ गिट्टी अहिअं सुसुआअदि । मणुस्सो वि काअलिं गाअन्तो सुक्खसुमणोदामवेढिदो वुड्ढपुरोहिदो विअ मन्तं जवन्तो दिढं मे ण रोआदि ।" चारुदत्तनाटकस्य चतुर्थाङ्के वाक्यं - "सज्जलकः - मदनिके! किं न पर्याप्तं, द्वितीयमप्यनार्यं करिष्यामि । न खल्वत्र शस्त्रेण कश्चित् परिक्षतो व्यापादितो वा ।" एतदर्थकं मृच्छकटिकस्य वाक्यं - "शर्विलकः - मदनिके! भीते सुप्ते न शर्विलकः प्रहरति । तन्मया न कश्चिद् व्यापादितो नापि परिक्षतः ।" चारुदत्तचतुर्थाङ्के वाक्यान्तरं - "सज्जलकः - आर्यचारुदत्तेनास्मि प्रेषितः, यस्तावदलङ्कारो मम हस्ते निक्षिप्तः, स त्वयं भोगमलिनतया गृहस्यासान्निध्यात् कौटुम्बिकानां दुरारक्षः । तद् गृह्यतामिति ।" एतदर्थकं मृच्छकटिके वाक्यं - "शर्विलकः - "सार्थवाहस्त्वां विज्ञापयति - जर्जरत्वाद् गृहस्य दूरक्ष- मिदं भाण्डम् । तद् गृह्यतामिति ।" एवमन्यान्यपि भूयिष्ठानि वाक्यानि श्लोकाश्च मृच्छकटिके चारु- दत्तीयसंवादीनि दृश्यन्ते । इतिवृत्तं च द्वयोश्चारुदत्तचरितमेव । तेनैवं मन्त- व्यं-तयोरन्यतरदन्यतरस्याधार इति । तत्रापि चारुदत्तनाटकमेव मृच्छकटिक- स्य मूलमिति न्याय्यं, मृच्छकटिकेऽर्वाचीनकाव्याद्दतस्य प्रस्तावनायां कविका- व्यनामनिर्देशस्य दर्शनेन तस्य तन्निर्देशरहितचारुदत्तापेक्षयार्वाचीनत्वौचित्यात् ।
चतुर्थ अङ्क: प्रमदवन में उदयन-विदूषक संवाद
उपोद्घातः ३९ किञ्च, चारुदत्तनाटकादृष्टा अपि मनोहराः केऽपि ग्रन्थसन्दर्भा मृच्छकटिके सन्ति । तेन लघुग्रन्थरूपतया स्थितं चारुदत्तनाटकम् आस्वाद्यतातिशयाय कैश्चित् संस्कारैरुपेतं कृत्वा विस्तार्य च मृच्छकटिकसंज्ञया शूद्रेकेन ख्यापितमिति युक्तमूहिनुम् । एवञ्च मृच्छकटिकस्य चारुदत्तनाटकप्रायतत्वात् तत्र सचेतसां चारुदत्तवदतिपुरातनत्वावभास उपपद्यते, तत्सङ्कलनमात्रकर्त्तरि च शूद्रेके तन्मू- ल्लकवित्वभ्रमादतिप्राचीनत्वभ्रमः । काममयं कालिदासतः प्राचीन इत्यत्र प्रमा- णाभावः, आलंङ्कारिकवामनात् तु प्राचीन एवासौ । तदीयायां काव्यालङ्कार- सूत्रवृत्तौ “शूद्रकादिरचितेषु प्रबन्धेष्वस्य (श्लेषाख्यगुणस्य) भूयान् प्रपञ्चो दृश्यते” इति कथनात् । तदेवं भासस्य कवित्ववैभवं कालिदासशूद्रकाद्युपजीव्यमासी- दिति फलितम् ॥ अत्र नाटकचक्रे ततइतः सन्ति केचित् परिमिताः पाणिनीयादृष्टा आ- प्रयोगविशेषाः । लङ्कारिकाहृद्याश्च प्रयोगाः— १. “अपरिचयात्तु न श्लिष्यते मे मनसि ।” (स्वप्न. अङ्क. १) २. “आपृच्छामि भवन्तौ ।” (स्वप्न. अङ्क. १) ३. “साधुजनहस्तंगतैषा नोत्कण्ठिष्यति ।” (स्वप्न. अङ्क. १) ४. “हस्त्यश्वरथपदातीनि विजयाङ्गानि ।” (प्रतिज्ञा. अङ्क. ४) ५. “दैवप्रामाण्याद् भ्रश्यते वर्धते वा ।” (प्रतिज्ञा. अङ्क. १) ६. “यावदहमुच्छ्वसामि ।” (प्रतिज्ञा. अङ्क. १) ७. “कथमगणितपूर्वं द्रक्ष्यते........श्रोष्यते ।” (प्रतिज्ञा. अङ्क. १) ८. “प्रथममभिकाङ्क्षे हि मनसा ।” (प्रतिज्ञा. अङ्क. २) ९. “जित इति पुनरेनं रुष्यते वासुभद्रः ।” (पञ्च. अङ्क. २) १०. “स्त्रीगतां पृच्छसे कथाम् ।” (पञ्च. अङ्क. २)
४० उपॊद्घातः
११. “वीजन्तो मलयानििला अपि ।” (अभिषेक. अङ्क. ३) १२. “सीतां समाश्वासितुम् ।” (अभिषेक. अङ्क. ७) १३. “ऋज्वायतां च मुखतोरणलोलमालाम् ।” (स्वप्न. अङ्क. ५) इत्येवञ्जातीयकाः। अत्र स्थूलाक्षरेषु पदेषु पदव्यत्ययः, 'हस्त्यश्वरथपदातीनी'त्यत्रा- नैकवद्भावः उच्च्वसामीत्यत्र शब्लोपः, 'वीजन्तः' 'समाश्वासितुमि'त्यनयोर्णिज्- लोपः, 'ऋज्वायतां चे'त्यत्र पादपूरणार्थश्चशब्दश्च कृतः । किन्त्वत्र समाधान- मपि पाणिनीयानां सुगमम् । द्वितीये प्रयोगे आ इत्यस्यानुपसर्गतायाः, तृतीये आत्मनेपदानित्यतायाः, चतुर्थे हस्त्यश्वरथसहिताः पदातयो येषु तानीति बहुव्रीहेः, षष्ठे गणकार्यानित्यतायाः, एकादशे पचाद्यजन्ताद् वीजशब्दादाचाराक्विपः, द्वादशे समाश्वासवच्छब्दाण्णिचो बाहुलकलोपस्य, त्रयोदशे चशब्दस्य तुशब्दार्थकतायाः, अन्येषु यथाकथञ्चित् कर्मवद्भावस्य चाश्रयणेनोपपत्तेः । वस्तुतस्तु नन्दकालि- कचाणक्यप्राचीनस्यास्मन्महाकवेर्नन्दसहजीविर्षोपाध्यायशिष्यपाणिनिशास- नानुसरणमसम्भावितमिति एवंविधः प्रयोगस्तत्रभवतो वश्यवाङ्मयस्य महाकवेर्न दूषणम्, अपितु पुरातनतरतया भूषणमिति विभावनीयम् । अव्युत्पन्नलेखकहस्त- परम्पराप्रमादात्पतिता वा प्रचाररहितेऽस्मिन् नाटकचक्रेऽपपाठा एषु प्रयोगेषु कति- पये स्युः । एवं प्रतिज्ञानाटिकायां भामहोद्भावितः पूर्वोक्तो न्यायविरोधोऽपि सुप- रिहरः । चारशून्यतया सचिवोपेक्षया वा वत्सराजस्य महामतेः सतो गजच्छ- द्भप्रयोगविषयशत्रूद्यमाज्ञानं, कुद्धैर्बहुभिः शत्रुभिरसहायस्य करगतस्य तस्य हनना- भावः, प्रत्यक्षदृष्टेऽपि कृत्रिमगजे दिवा विशेषाग्रहणम् इत्येतानर्थान् भामहो न्यायवि- रुद्धान् मन्यते । तत्र हि आद्ययोर्न काचिदनुपपत्तिः, चारवतो भक्तिमन्निपुणसचि- वचिन्त्यमानकार्यस्य वृद्धदर्शनस्य च सतोऽपि गजमृगयाव्यसनितयामात्यानुम- तिमप्रतीक्ष्य रभसधाविनो राज्ञः शत्रूद्यमाज्ञानस्य सम्भवाद्, वीरः सावज्ञो मान- वान् वैरी जीवग्राहं गृहीत्वा स्वस्वामिपादमूले यन्त्रीयते, तदेव तद्वधापेक्षया स्वा- मिपरितोषकरमिति, करगतस्य बहुप्रहारनिश्चेष्टस्य हननमतिशुद्रकर्मेति च विचा- रणया निपुणोदारभृत्यसाधारणाया परामात्येन सालङ्कायनेन कृतस्य स्वयोधोप-