स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)
Svapnavasavadattam of Bhasa with Hindi Commentary
महाकवि भास / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 94, कुल 204 में से
संदर्भ में पढ़ेंउपोद्घातः ३७ क्खाए मिलाणाईं अङ्गाइं । ता जाव गेहं गदुअ आणामि अत्थि किं पि कुटु- म्बिणीए उववादिअं ण वेत्ति । (परिक्रम्यावलोक्य च) एदं तं अह्माणं गेहं, ता प- विसामि ।” चारुदत्तनाटकस्य द्वितीयाङ्कादौ वाक्यानि — “गणिका— तदो तदो। चेटी — अझहे ण किञ्चि मए भणिदं । किं तदो तदो त्ति । गणिका — हज्जे! किं मए मन्तिदं ” एतदर्थकानि मृच्छकटिकस्य तत्र वाक्यानि — वसन्तसेना — हज्जे! तदो तदो । चेटी — अज्जुए! ण किं पि मन्तेसि । किं तदो तदो । वसन्तसेना — किं मए भणिदं । चेटी — तदो तदो त्ति ।” चारुदत्तनाटकस्य तृतीयाङ्के वाक्यानि — “चारुदत्तः — वयस्य! वीणा नामासमुद्रोत्थितं रत्नम् । कुतः” “विदूषकः — कामं पसंसेदु भवं । मम खु दाव गाअन्तो मणुस्सो इत्थि- आ वि पठन्ती उभअं आदरं ण देदि । गाअन्तो दाव मणुस्सो रत्तसुमणावेष्टिदो विअ पुरोहिदो दिढं ण सोभइ । इत्थिआ वि पठन्ती छिण्णणासा विअ धेणुआ अदिविरूवा होइ ।” मृच्छकटिके त्वेतानि — “चारुदत्तः — अहो अहो साधु साधु रेभिलेन गीतम् । वीणा हि नामा- समुद्रोत्थितं रत्नम् । कुतः ”