स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)
Svapnavasavadattam of Bhasa with Hindi Commentary
महाकवि भास / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 81, कुल 204 में से
संदर्भ में पढ़ें२४ उपोद्घातः इति युक्तायुक्तत्वविचारे मेघमारुतादिदूतीकरणं विषयतया भामहेन प्रस- ङ्गितं, तथापि तावता मेघदूतकाव्यं स जानातीति न युक्तं कल्पयितुम् । तथासति ह्यस्तनेन केनापि कविना प्रणीतं शुकसन्देशमपि स जानातीति कल्पनीयमाप- द्येत । अतो, मन्ये, केषुचित् काव्येषु विप्रलम्भादिप्रसङ्गे मारुतचन्द्रमेघा- द्यचेतनद्वारेण भ्रमरचक्रवाकशुकाद्यव्यक्तवाक्प्राणिद्वारेण च प्रियजनाय विर- हिणां सन्देशप्रेषणं क्वचित् क्वचिद् यद् वर्ण्यते, तदुन्मादावस्थायां नेष्यत इत्येत- देव सामान्यत आचार्यः श्लोकैरेभिरुपदिष्टवान् , तच्चेदमाचार्योपदेशतात्पर्यं हृदि निधायैवौचित्यवेदी कालिदासो मेघदूतस्यारम्भे तद्दूतीकरणानौचित्यमाशङ्क्य परिजहार— “धूमज्योतिःसलिलमरुतां सन्निपातः क्व मेघः सन्देशार्थाः क्व पटुकरणैः प्राणिभिः प्रापणीयाः । इत्यौत्सुक्यादपरिगणयन् गुह्यकस्तं ययाचे कामार्ता हि प्रकृतिकृपणाश्चेतनाचेतनेषु ॥” (पूर्वमेघ. ५) इति श्लोकेन । एवं तावत् सिद्धं भामहस्य कालिदासात् प्राचीनत्वम् । ननु च कालिदासेन मेघदूते “प्राप्यावन्तीनुदयनकथाकोविदग्रामवृद्धान्” (पूर्वमे- घ. ३०) इति कालिदासकालवर्तिनाम् अवन्तिजनपदग्रामवृद्धानाम् उदयनकथो- दाहरणनिपुणतोक्त्या उदयनसंज्ञवत्सराजद्रष्टृत्वप्रतीतेः उदयनः कालिदासस- न्निकृष्टपूर्वकालो भवितुं युक्तः । तत् कथं भामहो वत्सराजस्यात्मकालसन्निकर्षं लेशतोऽप्यसूचयन् प्रत्युत तमितिहासमात्राधीतप्रायं स्फोरयन् कालिदासात् प्राचीनः स्यात् । नैतत् । मालविकाग्निमित्रप्रस्तावनायां हि “प्रथितयशसां भाससौमिल्लकविपुत्रादीनां प्रबन्धानतिक्रम्य वर्तमानकवेः कालिदासस्य क्रियायां कथं बहुमान” इति भासस्य प्रथितयशस्त्वमाह कालिदासः, पुराणत्वं च भासकाव्यस्य प्रत्येति । “पुराणमित्येव न साधु सर्वं न चापि काव्यं नवमित्य- वद्यम् ॥” इति । तदुभयस्वरसाद् भासस्य कीर्तेश्चिरकालक्रमसिद्धा परा काष्ठा कालिदासकाले स्थितेति गम्यते । सा चावरतस्तत्कृतीनां सप्ताष्टवर्षशतकप्रचार- मन्तरेण न सम्भाव्येति कृत्वा कालिदासापेक्षम् अतिप्राचीनत्वं भासस्य न्याय्यं,