स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)
Svapnavasavadattam of Bhasa with Hindi Commentary
महाकवि भास / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 82, कुल 204 में से
संदर्भ में पढ़ेंउपोद्घातः २५ सुतरां तु भासनाटकनायकस्योदयनस्येति न कथञ्चिदप्युदयनस्य कालिदास- सन्निकृष्टपूर्वकालत्वशङ्काया अवकाशः । “उदयनकथाकोविदग्रामवृद्धान्” इत्येतच्च, अवन्तिग्रामवृद्धाः स्वानुपलब्धमेवेतिहासाद्यधीतं स्वजनपदनिर्वृत्तम् उदयनकथा- द्भुतं पुरावृत्तप्रेम्णा वृद्धभावसहभुवा शंसन्त आद्रियन्त इत्येवमभिप्रायं, न तु तेषामुदयनद्रष्टृत्वानुमापकम् । अतः सुस्थं भामहस्य कालिदासप्राचीनत्वम् । अपिच, भामहः काव्यालङ्कारे कथार्यायिकयोः स्वरूपं निरूपयन् बृहत्कथां नानुसन्धत्ते । सा हि कथाविशेषत्वात् तत्प्रसङ्गे स्मर्तुमुचिता। तथा च दण्डी का- व्यादर्शे कथार्यायिकाप्रस्तावे “भूतभाषामयीं प्राहुरद्भुतार्थां बृहत्कथाम्” इति बृहत्कथां स्मरति । तेन मन्ये, भामहकाले बृहत्कथा नावर्ततेति । तदुत्तरकाल एव तास्ताश्चमत्कारिणीरुच्चावचाः कथा इतिहासतः स्वप्नवासव- दत्तादिकाव्यतो लोकतश्चौचित्य स्वयं कल्पयित्वा च बृहत्कथां नाम कथाभाण्डा- गारं नूनं गुणाढ्यो जग्रन्थ । गुणाढ्यश्च शकप्रवर्तकशालिवाहनसमकाल इति शालिवाहनतोऽपि भामहः प्राचीनो भवन् क्रैस्ताब्दारम्भप्राक्तनं प्रथमं वर्षशतकं संस्पृशति । भामहादपि तु जरत्तरतामर्हन्नस्मन्नाटकचक्रकविः क्रैस्तप्राक्तने तृतीये द्वितीये वा वर्षशतके निवेशमवश्यं लभते । किञ्च, राज्यतन्त्रविद्याचार्यः कौटिल्य इति चाणक्य इति च पर्यायवा- च्यो विष्णुगुप्तश्चन्द्रगुप्तसमानकालः क्रैस्तप्राचीने चतुर्थे वर्षशतके स्थित इति सुप्रसिद्धम् । तत्प्रणीते कौटिलीयार्थशास्त्रे मन्त्रिपुरोहितकरणीयस्य योधयुद्ध- प्रोत्साहनस्य प्रकारोपदेशावसरे “तुल्यवेतनॊऽस्मि, भवद्भिः सहभोग्यमिदं राज्यं, मयाभिहितः परोऽभिहन्तव्यः' इति, वेदेष्वप्यनुश्रूयते - समाप्तदक्षिणानां यज्ञा- नामवभृथेषु 'सा ते गतिर्या शूराणामि'ति, अपीह श्लोकौ भवतः - “यान् यज्ञसङ्घैस्तपसा च विप्राः स्वर्गैषिणः पात्रचयैश्च यान्ति । क्षणेन तानप्यतियान्ति शूराः प्राणान् सुयुद्धेषु परित्यजन्तः ॥” “नवं शरावं सलिलैस्य पूर्णं सुसंस्कृतं दर्भकृतोत्तरीयम् । तत् तस्य मा भून्नरकं च गच्छेदू यो भर्तृपिण्डस्य कृते न युध्येत् ॥” इति मन्त्रिपुरोहिताभ्यामुत्साहयेद् योधान्” (कौटि. अर्थ. अधि. १०. अध्या. ३) १. 'लैः सुपूर्', २. 'स' इति प्रतिज्ञानाटिकायाम् । 23890