स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)
Svapnavasavadattam of Bhasa with Hindi Commentary
महाकवि भास / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 86, कुल 204 में से
संदर्भ में पढ़ेंउपोद्घातः २९ युधिष्ठिरस्य धार्तराष्ट्रदोषादात्मदोषाभिशङ्कनपरेयमुक्तिः— “एकोदकत्वं खलु नाम लोके मनस्विनां कम्पयते मनांसि । वैरप्रियैस्तैर्हि कृतेऽपराधे यत्सत्यमस्माभिरिवापराद्धम् ॥” (अ. २ श्लो. ९) योधकर्माभिनन्दनं प्रति विराटस्योक्तिः— “ताडितस्य हि योधस्य श्लाघनीयेन कर्मणा । अकालान्तरिता पूजा नाशयत्येव वेदनाम् ॥” (अ. २. श्लो. २८) चारुदत्तनाटके अन्धकारविषयोक्तिः— “सुलभशरणमाश्रयो भयानां वनगहनं तिमिरं च तुल्यमेव । उभयमपि हि रक्ष्यतेऽन्धकारे जनयति यश्च भयान्यश्च भीतः ॥” (अ. १. श्लो. २०) चौर्यप्रवृत्तस्योक्तिः — “लुब्धोऽर्थवान् साधुजनाभिमानी वणिक् स्ववृत्तावतिकर्कशश्च । यस्तस्य गेहं यदिनाम लप्स्ये भवामि दुःखोपहतो न चित्ते ॥” (अ. ३. श्लो. ७) दूतघटोत्कचे धृतराष्ट्रस्याभिमन्युवधदुःखितस्योक्तिः — “बहूनां समुपेतानामेकस्मिन् निर्घृणात्मनाम् । बाले पुत्रे प्रहरतां कथं न पतिता भुजाः ॥” (श्लो. १७) दुर्योधनं प्रति घटोत्कचस्योक्तिः —