स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)
Svapnavasavadattam of Bhasa with Hindi Commentary
महाकवि भास / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 92, कुल 204 में से
संदर्भ में पढ़ेंउपोद्घातः ३९ इति। अस्यच्छाया शाकुन्तलप्रथमाङ्कस्थे “गच्छति पुरः शरीरं धावति पश्चादसंस्तुतं चेतः। चीनांशुकमिव केतोः प्रतिवातं नीयमानस्य॥” इति पद्ये स्पष्टा। स्वप्नवासवदत्तप्रथमाङ्कगतस्य ‘विस्रब्धं हरिणाश्चरन्त्यचकिता देशागतप्रत्ययाः’ इति पादस्य कयाचिद् भङ्ग्यार्थानुकारः ‘विश्वासोपगमादभिन्न- गतयः शब्दं सहन्ते मृगाः’ इति शाकुन्तलप्रथमाङ्के कृतः। एवमन्यदपि भास- नाटकच्छायानुविधानं कालिदासकृतिषु द्रष्टव्यम्। भवभूतेरप्येतन्नाटकचक्रप- रिशीलनजनिताः संस्कारास्तत्कृतिषु बहुलं प्रस्फुरन्ति। उत्तररामचरितस्य द्विती- याङ्कगतो ह्यात्रेयीसंवादः स्वप्नवासवदत्तप्रथमाङ्कगतं ब्रह्मचारिसंवादमनुकरोति; षष्ठाङ्कगतश्च विद्याधरसंवादोऽभिषेकनाटकषष्ठाङ्कगतं विद्याधरसंवादम्। मालती- माधवपञ्चमाङ्कस्थो दण्डकप्रयोगोऽविमारकपञ्चमाङ्कस्थं दण्डकप्रयोगमनुकरोति। अपिच, यत् कालिदासात् प्राचीनं मन्यन्ते, तस्मिन् मृच्छकटिके न भासकाव्यच्छायामात्रस्यानुकरणम्; अपितु भासकाव्यवाक्यानामेव भूयिष्ठानां मृच्छकटिकविचारः। साक्षान्निवेशनमस्ति। चारुदत्तनाटके हि यानि पद्यानि चू- र्णकवाक्यानि च, तानि तथैव वा मनागावापोद्वापाभ्यां व्यत्ययकरणेन वा मृ- च्छकटिके परिपठितानि। तत्र चारुदत्तनाटकस्य प्रथमाङ्के श्लोकः — “यासां बलिर्भवति मद्गृहदेहलीनां हंसैश्च सारसगणैश्च विभक्तपुष्पाः। तास्वेव पूर्वबलिरूढयवाङ्कुरासु बीजाञ्जलिः पतति कीटमुखावलीढः॥” इति। मृच्छकटिकस्य तु — “यासां बलिः सपदि मद्गृहदेहलीनां हंसैश्च सारसगणैश्च विलुप्तपूर्वः।