स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)
Svapnavasavadattam of Bhasa with Hindi Commentary
महाकवि भास / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 71, कुल 204 में से
संदर्भ में पढ़ें१४ उपोद्घातः अश्वत्थामा— यातोऽद्य सौप्तिकवधोद्यतबाणपाणि- र्गां पातु नो नरपतिः शमितारिपक्षः ॥ (निष्क्रान्ताः सर्वे) ऊरुभङ्गमवसितम् ॥” यथानवगतनामकस्य नाटकस्यारम्भवाक्यानि — “(नान्द्यन्ते ततः प्रविशति सूत्रधारः) सूत्रधारः— पादः पायादुपेन्द्रस्य सर्वलोकोत्सवः स वः । व्याविद्धो नमुचिर्येन तनुताम्रनखेन खे ॥ एवमार्यमिश्रान् विज्ञापयामि। किन्नुखलु मयि विज्ञापनव्यग्रे शब्द इव श्रू- यते । अङ्ग! पश्यामि । (नेपथ्ये) भो भोः प्रतिहाराधिकृताः ! महाराजो दुर्योधनः समाज्ञापयति । सूत्रधारः — भवतु विज्ञातम् । उत्पन्ने धार्तराष्ट्राणां विरोधे पाण्डवैः सह । पर्यैति मन्त्रशालायां भृत्यो दुर्योधनाज्ञया ॥ (निष्क्रान्तः) स्थापना । ” (ततः प्रविशति काञ्चुकीयः) भो भोः प्रतिहाराधिकृताः ! महाराजो दुर्योधनः समाज्ञापयति — अद्य सर्वपार्थिवैः सह मन्त्रयितुमिच्छामि । तदाहूयन्तां सर्वे राजान इति । अये अयं महाराजो दुर्योधन इत एवाभिवर्तते । य एषः, श्यामो युवा सितदुकूलकृतोत्तरीयः सच्छत्रचामरवरो रचिताङ्गरागः ।