स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)
Svapnavasavadattam of Bhasa with Hindi Commentary
महाकवि भास / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 72, कुल 204 में से
संदर्भ में पढ़ेंउपोद्घातः १९ श्रीमान् विभूषणमणिद्युतिरञ्जिताङ्गो नक्षत्रमध्य इव पर्वतगतः शशाङ्कः ॥ (ततः प्रविशति दुर्योधनः) दुर्योधनः — उद्भूतरोषमिव मे हृदयं सहर्षं प्राप्तं रणोत्सवमिमं सहसा विचिन्त्य । इच्छामि पाण्डवबले वरवारणाना- मुत्कृत्तदन्तमुसलानि मुखानि कर्तुम् ॥ काञ्चुकीयः — जयतु महाराजः । महाराजशासनात् समानीतं सर्वरा- जमण्डलम् । दुर्योधनः — सम्यक् कृतम् । प्रविश त्वमवरोधनम् । काञ्चुकीयः — यथाज्ञापयति महाराजः । (निष्क्रान्तः) दुर्योधनः — आर्यौ वैकर्णवर्षदेवौ ! उच्यताम् — अस्ति ममैकादशाक्षौहि- (णी ? णि) । बलसमुदयस्यास्य कः सेनापतिर्भवितुमर्हतीति । किमाहतुर्भवन्तौ — महान् खल्वयमर्थः । मन्त्रयित्वा वक्तव्यमिति । सदृशमेतद्, आगम्यतां मन्त्र- शालामेव प्रविशामः । आचार्य ! अभिवादये । प्रविशतु भवान् मन्त्रशालाम् । पितामह ! अभिवादये । प्रविशतु भवान् मन्त्रशालाम् । मातुल ! अभिवादये । प्र- विशतु भवान् मन्त्रशालाम् । आर्यौ ! वैकर्णवर्षदेवौ ! प्रविशतां भवन्तौ । भो भोः सर्वक्षत्रियाः ! स्वैरं प्रविशन्तु भवन्तः । वयस्य ! कर्ण ! प्रविशावस्तावत् । (प्रविश्य) आचार्य ! एतदासनमास्यताम् । पितामह ! एतदा(सनमा)स्यताम् । मातुल ! एतदासनमास्यताम् । आर्यौ वैकर्णवर्षदेवौ ! आसातां भवन्तौ । भो भोः सर्वक्षत्रियाः ! स्वैरमासतां भवन्तः । किमिति किमिति महाराजो नास्त इति । अहो सेवाधर्मः । भवत्वय*” यथा अभिषेकनाटकस्य (आरम्भवाक्यम्) — “(नान्द्यन्ते ततः प्रविशति सूत्रधारः) सूत्रधारः — यो गाधिपुत्रमखविघ्नकराभिहन्ता युद्धे विराधखरदूषणवीर्यहन्ता ।
- एतदक्षरावधिक एव ग्रन्थ उपलब्धः ।