भारतकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 11, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 11

६ तैत्तिरीये आरण्यके

म॒हसो॒ मह॑स्ख॑ः । दे॒वोः प॑र्जन्य॑स्त्वरीः । पु॒त्र॒व॒त्वाय॑ मे सुत^{(४)} ॥ २ ॥
^{(६)}अ॒पाश्म्यु॑ष्णिमपा रक्ष॑ः । अ॒पाश्म्यु॑ष्णिमपार॒घं । अ-

सवित्र्यः, ईदृग्भ्य आपो याः सन्ति तथाविधा हे आपः, यूयं 'मे' मम, 'पुत्रवलाय' बहुपुत्रयुक्ताय, 'सुत' अनुजानीत ॥

अथ तृतीयामाह । "^{(४)}महात्नाम्नीर्महामानाः ० पुत्रवत्वाय मे सुत^{(५)}" इति । महदधिकं नाम यासामपां ताः 'महानाम्न्यः', आप्नोति धातोरुत्पन्नस्याप्शब्दस्य सर्वफलप्राप्तिवाचकत्वान्महानामत्वं । 'महामानाः' अधिकपूजायुक्ताः, सर्वकर्मसु शुद्धिहेतुत्वेनाधिकपूज्यत्वं । 'महसो महसः' तत्तद्देवताविषयपूजायाः, 'खः' सवित्र्यः, प्रवर्त्तका इत्यर्थः । सति ह्युदकेऽर्घ्यपाद्यादिना देवाः पूज्यन्ते । 'देवीः' स्वच्छत्वेन द्योतमानाः, 'पर्जन्यस्त्वरीः' मेघेन प्रेरिताः, तादृश्या या आपः सन्ति, तथाविधा हे आपः 'मे' मम, 'पुत्रवत्वाय' बहुपुत्रसम्पत्तये, 'सुत' प्रेरयत ॥

अथ चतुर्थीमाह । "^{(१)}अपाश्म्युष्णिमपारक्षः ० अप देवीरितो हित^{(६)}" इति । अश्नाति भुङ्क्त इति 'अश्मिः' भोक्ता, उशति दहतीति 'उष्णिः' दाहकोऽग्निः, अश्मीनां भोक्तॄणामुष्णिर्दाहको योऽग्निः सोऽयम् 'अश्म्युष्णिः' योऽग्निर्दहन् दहति सोऽयं भोग्यवस्तुविनाशकत्वाद्भोक्तृदाहको भवति तादृशमग्निं 'इतः' अस्मत्पार्श्वात्, हे आपः यूयं 'अपहित' अपहिनुत,