भारतकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 10, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 10

१ प्रपाठके १ अनुवाकः । ५

अ॒ग्निर्वा॒युश्च॑ सू॒र्य॑श्च । स॒ह सं॑चस्क॒रर्द्धिया॑⁽३⁾ । ⁽४⁾वा॒व्यश्वा॑ रश्मिप॑तयः । मरी॑च्यात्मानो॒ अद्रु॑हः । दे॒वीर्भुव॑नस्र॒वरीः॑ । पु॒त्रव॒त्वाय॑ मे सुत⁽४⁾ । ⁽५⁾महानाम्नीर्म॑हामानाः॑ ।

मापामपः ० सह संचस्करर्द्धिया⁽३⁾" इति । अहं 'सर्वा अपः' सर्वदेशवर्त्तीनि जलानि, 'आपमापां' पुनः पुनः प्राप्तवानस्मि । आपमित्यस्य वीप्सया पौनः पुन्यं लभ्यते । दीर्घस्य छान्दसत्वाद्वितीयोऽप्यापमित्येव शब्दः । जललाभाय स्थानविशेषा निर्दिश्यन्ते । 'अस्मादस्मात्' इदंशब्देन वीप्सायुक्तेन सर्वनाम्ना-जलस्थानानि गङ्गासरस्वतीयमुनागोदावरीकावेर्यादीनि विद्यन्ते तस्मात् सर्वस्माज्जलस्थानात्, प्राप्तवानस्मीति पूर्वत्रान्वयः । 'इतोऽमुतः' इत्याभ्यां शब्दाभ्यां भूलोकस्वर्गलोकावभिधीयेते । तस्मादप्युभयस्माज्जलं प्राप्तवानित्यन्वयः । तामेतां सर्वजलप्राप्तिम् 'अग्निवायुसूर्याः', सम्पादयन्त्विति शेषः । अहं तैर्देवैः 'सह', 'ऋद्ध्या' समृद्धिनिमित्तं, 'संचस्कर' ता आपः संस्करोमि ॥

अथ द्वितीयामाह । "⁽४⁾वाव्यश्वा रश्मिपतयः ० पुत्रवत्वाय मे सुत⁽४⁾" इति । वायव एवाश्वस्थानीया वोढारो यासामपां ताः 'वाव्यश्वाः', आदित्यरश्मय एव पातारो यासामपां ताः 'रश्मिपतयः', मरीचय एवात्मा शरीरमाधारभूतं यासामपां ताः 'मरीच्यात्मानः', 'अद्रुहः' कस्यचिदपि द्रोहमकुर्वाणाः, 'देवीः' स्वच्छत्वेन द्योतमानाः, 'भुवनस्रवरीः' भूतजातस्य