तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 9, कुल 940 में से
संदर्भ में पढ़ें४ तैत्तिरीय आरण्यके
नः॑ पू॒षा वि॒श्ववे॑दाः । स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः । स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु^(२) । [^(३)आप॑मापामपः सर्वाः॑ । अ॒स्माद॒स्मादितो॒मुतः॑ ॥ १ ॥
शरीरैः, युक्ता वयं 'तुष्टुवांसः' युष्मदीयां स्तुतिं कुर्वाणाः, 'यत्' यस्मात् कारणात्, 'देवहितं' देवेन प्रजापतिना सम- र्पितं, सर्वमपि 'आयुः', 'व्यशेम' विशेषेण प्राप्नुवाम । तस्मादप- मृत्योरभावाच्चिरं भद्रं शृणुयामेति पूर्वत्रान्वयः ॥
अथ द्वितीयमाह । “^(२)स्वस्ति न इन्द्रः ० बृहस्पतिर्दधा- तु^(२)” इति । वृद्धैर्महात्मभिः सदा पुराणादिषु श्रूयत इति 'वृद्धश्रवाः', तादृशः 'इन्द्रः', 'नः' अस्माकं, 'स्वस्ति दधातु' अध्ययनश्रवणानुष्ठानार्थं क्षेमं सम्पादयतु । विश्वं वेत्ति जानाती- ति 'विश्ववेदाः', तादृशः 'पूषा', अपि 'नः', 'स्वस्ति दधातु' । 'अरिष्टम्' अहिंसा, तस्य 'नेमि'स्थानीयः, यथा लोहमयी नेमिः काष्ठमयस्य चक्रस्य भङ्गाभावाय पालयति एवमयं 'तार्क्ष्यः' गरुडोऽपि, सर्पादिकृतां हिंसां निवार्य तत्पालकत्वात् 'अरि- ष्टनेमिः', तादृशः तार्क्ष्यः 'नः', 'स्वस्ति दधातु' । 'बृह- स्पतिः', च ब्रह्मवर्चसं परिपाल्य 'नः स्वस्ति दधातु' । एत- न्मन्त्रद्वयं शान्त्यर्थमादौ पठित्वा प्रणवद्वयेनाबीष्टकाद्वयमुप- दध्यात् ॥
कल्पः । 'आपमापामिति पञ्चभिर्महानाम्नीभिरुष्णोदक- मिति'। उपदधाति इत्यनुवर्त्तते । तत्र प्रथमामाह । “^(३)आप-