तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 8, कुल 940 में से
संदर्भ में पढ़ें१ प्रपाठके १ अनुवाकः । ३
*(१) ॐ भ॒द्रं कर्णे॑भिः शृणुया॒म दे॑वाः । भ॒द्रं प॑श्येमा॒- क्षभि॑र्यजत्राः । स्थि॒रैरङ्गै॑स्तुष्टुवाꣳस॑स्त॒नूभिः॑ । व्यशे॑म दे॒वहि॑तं॒ यदायुः॑।(१)। (२)स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः। स्व॒स्ति
मातृत्वात् चाप एवेति' । पूर्वत्र सावित्रादिचयनानामभि- हितत्वादेतेनेति तत्परामर्शः । अनूपा इष्टका अबीष्टकाः । नात्रेष्टका मृदादिना निष्पादनीयाः । किन्तु आप एवेष्टकाः, बुद्ध्योपधेया इत्यर्थः । उपधानेऽस्मिन् कल्प एवमभिहितः । 'उत्तरवेद्यावपनकाले तूष्णीं जानुदघ्नं खात्वान्यत्र मृदं निव- पति विदेरग्निरित्यादिर्लुप्यते । ध्रुवासीति प्रतिपद्यते । हस्त- ग्राहमबीष्टका उपदध्यात् । भद्रं कर्णेभिरिति द्वाभ्यां शान्तिं कृत्वा ताभ्यामुपदधातीति' । हस्तग्राहं हस्तेन गृहीत्वा जल- मित्यर्थः । तत्र शान्त्यर्थां प्रथमामृचमाह । “(१)भद्रं कर्णेभिः ० देवहितं यदायुः(२)” इति । हे 'देवाः' इन्द्रादयः, 'भद्रं' कल्याणं, श्रुतिस्मृतिवाक्यरूपं, 'कर्णेभिः' आचार्यान्तेवासि रूपाणामृत्विग्यजमानरूपाणां वाऽस्माकं बहूनां कर्णैः 'शृणु- याम' युष्मत्प्रसादात् सर्वदा श्रोतुं समर्थाः स्याम । अथा च 'यजत्राः' यागक्षमाः, वयं 'भद्रं' कल्याणं, यज्ञादिकं कर्म, 'अक्षभिः' चक्षुरिन्द्रियैः, साक्षात् 'पश्येम' । 'स्थिरैः' अविकलैः, 'अङ्गैः' चक्षुरादिभिर्हस्तादिभिश्चावयवैः, 'तनूभिः' तथाविध-
* एकजात्यङ्कचिह्नद्वयक्रोडीकृत एको मन्त्रो बोद्धव्यः ।
B 2