तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 113, कुल 940 में से
संदर्भ में पढ़ें१०८ तैत्तिरीये आरण्यके
अदि॑तिर्माता स पि॒ता स पु॒त्रः। विश्वे॑ दे॒वा अदि॑तिः प- ञ्चजनाः॑। अदि॑तिर्जा॒तमदि॑ति॒र्जनि॑त्वम्^{(६)}। ^{(७)}अ॒ष्टौ पु- त्रासो॑ अदि॑तेः। ये जा॒तास्त॒न्व॑: परि॑। दे॒वां३ उपप्रै॑त् स॒प्तभि॑: ॥ २ ॥
मन्त्रः। महीमूषु मातरमित्यपरो मन्त्रः। एतौ चोभौ वैश्वा- नरो न ऊत्येत्यनुवाके व्याख्यातौ ॥
अथ षष्ठोमाह। ^{(६)}“अदितिर्द्यौः ० मदितिर्जनित्वं”^{(६)}इति। अदितिशब्दवाच्यदेवता सर्वात्मकत्वेन स्तूयते। ‘माता’ पृथि- वी, अतो लोकत्रयात्मिकांशः देवताविशेषोदित्याख्यः, सर्वस्य जगतः ‘पिता’, ‘सः’, एव ‘पुत्रः’, च। ये ‘विश्वे देवाः’ सर्वेऽपि देवाः, ये च ‘पञ्चजनाः’ निषादपञ्चमा ब्राह्मणक्षत्रियवैश्य- शूद्राः ते सर्वेऽपि, ‘अदितिः’, एव ‘जातं’ यत् पूर्वमुत्पन्नं जगत्, ‘जनित्वं’ जननरूपो व्यापारः तत् सर्वमपि ‘अदितिः’, एव ॥
अथ सप्तमीमाह। ^{(७)}“अष्टौ पुत्रा ० मार्ताण्डमास्यत्”^{(७)} इति। ‘अदितेः’ देवतायाः, ‘अष्टौ पुत्रासः’ अष्टसङ्ख्याकाः पुत्रा विद्यन्ते, ‘ये’ पुत्राः, ‘तन्वःपरि’ शरीरस्योपरि जाताः, औ- रसा इत्यर्थः। तेषां मध्ये ‘सप्तभिः’, पुत्रैः सह ‘देवान्’, ‘उपप्रैत्’ समीपे प्राप्तवती, ‘मार्ताण्डं’, अष्टमं पुत्रं ‘परास्यत्’ पराकृतवती। तमेकं परित्यज्यान्यैरेव सप्तभिः सह देवलोकं गता ॥