भारतकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 129, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 129

१२४ तैत्तिरीये आरण्यके

अथ एकोनविंशोऽनुवाकः ।

(१)दक्षिणपूर्वस्यां दिशि विसर्पी॒ नरकः॑ । तस्मान्नः परि॑पा॒हि(१) । (२)दक्षिणापरस्यां दिश्यविसर्पी॒ नरकः॑ । तस्मान्नः परि॑पा॒हि(२) । (३)उत्तरपूर्वस्यां॒ दिशि विषा॑-

कल्पः । दक्षिणपूर्वस्यामिति चतस्रो नरकवतीर्यथालिङ्कमिति । तत्र प्रथमं मन्त्रमाह । (१)“दक्षिण ० परिपाहि”(१) इति । दक्षिणस्याः पूर्वस्याश्चान्तरालवर्त्तिनी दिगाग्नेयी तस्यां ‘विसर्पी’नामकः ‘नरकः’, विद्यते दृष्टके ‘तस्मात्’ नरकात्, ‘नः’ अस्मान्, ‘परिपाहि’ ॥

अथ द्वितीयमाह । (२)“दक्षिणापरस्यां ० परिपाहि”(२) इति । नैर्ऋती ‘दक्षिणापरा’, तस्यां ‘अविसर्पी’, नाम ‘नरकः’ । पूर्वत्र वेदनातिशयात् विविधमितस्ततः सर्पतीति व्युत्पत्या विसर्पी, इह तु दुःखस्यान्तमाधिक्याद्विसर्पितुमपि न क्षमते तस्मात् ‘अविसर्पी’ । शेषं पूर्ववत् ॥

अथ तृतीयमाह । (३)“उत्तरपूर्वस्यां ० परिपाहि”(३) इति । ऐशानी दिक् ‘उत्तरपूर्वा’, तत्र हि ‘विषादि’संज्ञकः ‘नरकः’ । किमर्थमस्माभिः पापं कृतमिति जन्तवो विषादं कुर्वन्ति तस्मादयं ‘विषादी’ । अन्यत् पूर्ववत् ॥

अथ चतुर्थमाह । (४)“उत्तरापरस्यां ० परिपाहि”(४) इति । वायवी दिक् ‘उत्तरापरा’, तत्र ‘अविषादी नरकः’,