भारतकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 128, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 128

१ प्रपाठके १८ अनुवाकः। १२३

तेज॑सा भा॒नि। सहो॒जसो॒ दक्षि॑णदिश्यस्य स्थाने स्वते॑ज॑सा भा॒नि। अ॒जिराप्रभव उपदिश्यस्य स्थाने स्वतेज॑सा भा॒नि। वैश्वानरस्यापरदिश्यस्य स्थाने स्वतेज॑सा भा॒नि। नर्या॑पस उपदिश्यस्य स्थाने स्वतेज॑सा भा॒नि। प॒ङ्क्तिराधस उदग्दिश्यस्य स्थाने स्वतेज॑सा भा॒नि। विसर्पिण उपदिश्यस्य स्थाने स्वतेज॑सा भा॒नि। ओं भूर्भुव॒ःस्वः॑॥ दिशो॒ वो मिथु॒नं मा नो॑ मिथु॒नग्ं री॑ढ्वं⁽२⁾॥ १॥

स्वः, एकञ्च॥ अनु०॥ १८॥
एतद्रुश्मय आपोरूपाणि दिशः पञ्च॥


थुनं रीढ्वं”⁽२⁾ इति। पूर्वा दिक् प्राची तस्यां भवः ‘पूर्वदिश्यः’, तथाविधोऽग्निनामको यो मूर्त्तिविशेषः तस्य ‘स्थाने’, तिष्ठन्नहन्तत्प्रसादाल्लव्धेन ‘स्वतेजसा’, भासमानो भूयासं। उपदिगाग्नेयी तस्यां भव ‘उपदिश्यः’ ‘जातवेदः’ नामकः। एवं सर्व्वत्र योज्यं। हे ‘दिशः’, ‘वः’ युष्माकम्, अग्निना स्वामिना सह उपकार्योपकारकभावः। अतो युष्मत्प्रसादेनास्मदीयं ‘मिथुनं’, अहिंसितं भवतु। सोयं सर्व्वमन्त्रशेषः। अथवा ओमित्यादिः सर्व्वत्र यजमानाभिमन्त्रणमन्त्रो द्रष्टव्यः॥

इति सायनाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके प्रथमप्रपाठके अष्टादशोऽनुवाकः॥ १८॥

० २

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद) · पृष्ठ 128, कुल 940 में से · BharatKosha