तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 127, कुल 940 में से
संदर्भ में पढ़ें१२२ तैत्तिरीये आरण्यके
ऊ॒र्द्ध्वीनाꣳ॑ रु॒द्राणाꣳ॑ स्थाने स्वतेज॑सा भानि, अति॑लो॒हिती॑नाꣳ रु॒द्राणी॑नाꣳ स्थाने स्वतेज॑सा भानि, पञ्च॑ च ॥ अनु० ॥ १७ ॥
अथ अष्टादशोऽनुवाकः ।
$^{(१)}$अथाग्ने॑रष्टपु॑रु॒षस्य॑$^{(१)}$ । $^{(२)}$अग्नेः॑ पूर्वदिश्यस्य स्थाने स्वतेज॑सा भानि। जातवेदस उपदिश्यस्य स्थाने स्व-
सम्बन्धि यत् 'मिथुनं', तत्प्रसादादस्मदीयमपि 'मिथुनं', अहिंसितं भवतु । अयञ्च सर्वमन्त्रशेषः ॥
इति सायनाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके प्रथमप्रपाठके सप्तदशोऽनुवाकः ॥ १७ ॥
अथ अष्टादशोऽनुवाकः ।
कल्पः । अग्नेः पूर्वदिश्यस्येत्यष्टौ दिश्या इति । तत्र सङ्ग्रहरूपेण ब्राह्मणवाक्येन मन्त्रान् प्रतिजानीते । $^{(१)}$“अथाग्नेरष्टपुरुषस्य”$^{(१)}$ इति । अग्निजातवेदःप्रभृतयः पुरुषा मूर्त्तिविशेषाः यस्याग्नेः सन्ति सोयम् 'अष्टपुरुषः', तस्य । 'अग्नेः', सम्बन्धिनो मन्त्राः पूर्वोक्तवायुसम्बन्धिद्विविधैकादशरुद्ररुद्राण्यनन्तरमुच्यन्ते । तान्मन्त्रान् दर्शयति । $^{(२)}$“अग्नेः पूर्वदिश्यस्य ॰ मा नो मि-