तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 126, कुल 940 में से
संदर्भ में पढ़ें१ प्रपाठके १७ अनुवाकः। १२१
⁽¹⁾अवपतन्तानाꣳ रुद्राणाꣳ स्थाने स्वतेज॑सा भा॒नि । वैद्युतानाꣳ रुद्राणाꣳस्थाने स्वतेज॑सा भा॒नि । प्रभ्राजमानानाꣳ रुद्राणीनाꣳ स्थाने स्वतेज॑सा भा॒नि । व्यवदातीनाꣳ रुद्राणीनाꣳ स्थाने स्वतेज॑सा भा॒नि । वासुकिवैद्युतीनाꣳ रुद्राणीनाꣳ स्थाने स्वतेज॑सा भा॒नि । रजतानाꣳ रुद्राणीनाꣳ स्थाने स्वतेज॑सा भा॒नि । परुषाणाꣳ रुद्राणीनाꣳ स्थाने स्वतेज॑सा भा॒नि । श्यामानाꣳ रुद्राणीनाꣳ स्थाने स्वतेज॑सा भा॒नि । कपिलानाꣳ रुद्राणीनाꣳ स्थाने स्वतेज॑सा भा॒नि । अतिलोहितीनाꣳ रुद्राणीनाꣳस्थाने स्वतेज॑सा भा॒नि ॥ ऊर्ध्वानाꣳ रुद्राणीनाꣳ स्थाने स्वतेज॑सा भा॒नि । अवपतन्तीनाꣳ रुद्राणीनाꣳ स्थाने स्वतेज॑सा भा॒नि । वैद्युतीनाꣳ रुद्राणीनाꣳ स्थाने स्वतेज॑सा भा॒नि । ओ३ं भूर्भुवः॒ स्वः॑ । रू॒पाणि॑ वो मिथु॒नं मा नो॑ मिथु॒नꣳ री॑ढ्वं॑⁽²⁾ ॥ २ ॥
जमाननामको वायुसम्बन्धी यो रुद्रविशेषः तस्य बहवो मूर्त्तिविशेषाः। अतः प्रभ्राजमानानामिति बहुवचनं। एवं सर्वत्र द्रष्टव्यं। 'रूपाणि' स्त्रीपुरुषविशेषाः, हे 'रूपाणि', 'वः' युष्माकं,