तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 125, कुल 940 में से
संदर्भ में पढ़ें१२० तैत्तिरीये आरण्यके
अथ सप्तदशोऽनुवाकः ।
$^{(१)}$अथ वायोरेकादश पुरुषस्यैकादशस्त्रीकस्य $^{(१)}$।
$^{(२)}$प्रभ्राजमानानाꣳ रुद्राणाꣳस्थाने स्वतेज॑सा भा-
नि व्यवदाता॑नाꣳ रुद्राणाꣳस्थाने स्वतेज॑सा भा॒नि ।
वासुकिवैद्युतानाꣳ रुद्राणाꣳस्थाने स्वतेज॑सा भा॒नि ।
रजतानाꣳ रुद्राणाꣳ स्थाने स्वतेज॑सा भा॒नि । परुषा-
णाꣳ रुद्राणाꣳ स्थाने स्वतेज॑सा भा॒नि । श्यामानाꣳ रु-
द्राणाꣳ स्थाने स्वतेज॑सा भा॒नि । कपिलानाꣳ रुद्राणाꣳ
स्थाने स्वतेज॑सा भा॒नि । अतिलोहितानाꣳ रुद्राणाꣳ-
स्थाने स्वतेज॑सा भा॒नि । ऊर्ध्वानाꣳ रुद्राणाꣳ स्थाने
स्वतेज॑सा भा॒नि ॥ १ ॥
कल्पः । प्रभ्राजमानानामित्येकादशप्रभ्राजमानानामिति चैकादशमध्य इति । तेषां मन्त्राणां सङ्ग्रहरूपेण ब्राह्मणवाक्येन प्रतिज्ञां दर्शयति । $^{(१)}$"अथ वायोरेकादशपुरुषस्यैकादशस्त्रीकस्य"$^{(१)}$ इति । एक एव वायुः प्रभ्राजमानाद्येकादशरुद्रमूर्त्तिरूपेण प्रभ्राजमानाद्येकादशस्त्रीमूर्त्तिरूपेणाप्यवतीर्णः तस्य सम्बन्धिनो मन्त्रा उच्यन्त इति शेषः । तान् मन्त्रान् दर्शयति । $^{(२)}$"प्रभ्राजमानानाꣳ • मानोमिथून्त्सूगोष्ठं" $^{(२)}$ इति । प्रभ्रा-