भारतकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 133, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 133

१२८ तैत्तिरीये आरण्यके

'रश्मि॒पत॑यः । मरी॑च्या॒त्मानो॒ अदु॑ः । दे॒वीर्भुव॑नसू- व॑रीः । पु॒त्र॒व॒त्वाये॑ मे सुत । म॒हाना॒म्नीर्म॑हामा॒नाः । म॒हसो॒र्मह॒स्स्व॑ः ॥ १ ॥

दे॒वीः प॑र्जन्य॒सूव॑रीः । पु॒त्र॒व॒त्वाये॑ मे सुतः । अपा- श्रु॑षा॒श्चुम॑पार॒क्षः । अपा॑षा॒मपार॒धं । अ॒पाङ्गा॒म- प॑ञ्चा॒र्तिं । अप॑दे॒वीरितो॑हिंत । वज्रं॑ दे॒वीरजी॑ताँश्च । भुव॑नं दे॒वसूव॑रीः । आदि॑त्यानदि॑तिदे॒वीं । योनि॑- नो॒र्ध्वमुदी॑षत ॥ २ ॥

भद्रं कर्णे॑भिः शृणुया॑मदेवाः । भ॒द्रं प॑श्येमा॒क्षभि॒- र्यज॑त्राः । स्थि॒रैरङ्गैᳵस्तु॑ष्टुवाँस॑स्त॒नूभि॑ः । व्यशे॑मदे॒व- हि॑तं॒ यदायु॑ः । स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः । स्व॒स्ति न॑ः पू॒षा वि॒श्ववे॑दाः । स्व॒स्ति न॒स्ताक्ष्यो॒ अरि॑ष्टनेमिः । स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु । के॒तवो॒ अरु॑णासश्च । ऋ- षयो॒ वात॑रशनाः ॥ प्रतिष्ठाᳵश॒तधा॑ हि । समाहि॑ता-

पुनरप्युपधानार्थं मन्त्रपाठः । केत्वरुणवातरशनशब्दा ऋषिस- ङ्घानाचक्षते । ते सर्वेपि ऋषिसङ्घाः 'समाहिताः' अप्रमत्ताः सन्तः, 'शतधा हि' शतसङ्ख्याकेनापि प्रकारेण, 'प्रतिष्ठां' स्थैर्य-