तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 132, कुल 940 में से
संदर्भ में पढ़ें१ प्रपाठके २१ अनुवाकः। १२१
ये। ए॒वाह्ये॑न्द्र। ए॒वाहि पू॒षन्। ए॒वा हि दे॒वाः⁽२⁾॥ १॥
दि॒क्षु, स॒प्त च॑॥ अनु०॥ २०॥
कल्पः। एवाह्येवेति षड् दिश्या इति। पाठस्तु। ⁽२⁾“एवा-
ह्येव ॰ एवाहि देवाः”⁽२⁾ इति। ईङ्गतावितिधातोरुत्पन्न एव
शब्दः, हे 'एव' अयनशील आदित्य, 'एवाः' एतव्याः प्राप्त-
व्याः, कामास्ते सर्वे त्वमसीति शेषः। 'हि'शब्देनादित्यस्य सर्व-
कामहेतुत्वप्रसिद्धिरुच्यते। एवमुत्तरत्रापि योज्यं॥
इति सायनाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजु-
रारण्यके प्रथमप्रपाठके विंशोऽनुवाकः॥ २०॥
अथ एकविंशोऽनुवाकः
⁽१⁾आप॑मापा॒मपः॒ सर्वाः॑। अ॒स्माद॒स्मादितो॒मुतः॑।
अ॒ग्निर्वा॒युश्च॑ सू॒र्य॑श्च। स॒हस्रं॑ञ्चस्करु॒र्द्धिया॑। वा॒यव॑श्चा-
कल्पः। आपमापामिति नवोपरिष्टादिति। पाठस्तु।
⁽१⁾“आपमापामपः ॰ मातव्योमसंदृशी”⁽१⁾ इति। अत्र केतव
इति मन्त्रं विहायान्येऽष्टौ मन्त्राः प्रथमानुवाके व्याख्याताः।