तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 146, कुल 940 में से
संदर्भ में पढ़ें१ प्रपाठके २३ अनुवाकः १४१
अथ त्रयोविंशोऽनुवाकः ।
(१)आपो॒ वा इ॒दमा॑सन्सलि॒लमे॒व । स प्र॒जाप॑ति- रेकः॑ पुष्करप॒र्णे सम॑भवत् । तस्यान्तर्मन॑सि॒ कामः॑ सम॑वर्तत । इ॒दं सृ॑जेय॒मिति॑ । तस्मा॒द्यत् पुरु॑षो॒ म- न॑सा॒भिगच्छ॑ति । तद्वा॒चा व॑दति । तत् कर्म॑णा करो-
अथ त्रयोविंशोऽनुवाकः ।
अथास्मिन्ननुवाके सृष्ट्युपन्यासमुखेनारुणकेतुकमग्निं तद- ङ्गभूता अपश्च प्रशंसति । तत्र सृष्ट्यादौ कामोत्पत्तिं दर्शयति । (१)"आपो वा ० तदेषाभ्यनूक्ता"(१) इति । यत् 'इदं' जगत्, इदानीमस्माभिर्दृश्यते तत् 'इदम्', उत्पत्तेः पूर्वम् 'आपः', एव 'सन्', न तु देवतिर्यङ्मनुष्यादिकं किञ्चिदपि भौतिकमा- सीत् । पृथिव्यादिभूतान्तरमपि वारयितुं 'सलिलमेव', इत्यु- च्यते । तास्वप्सु मध्ये कस्मिंश्चित् 'पुष्करपर्णे', जगदीश्वरः 'स प्रजापतिः', 'समभवत्' सम्यगाविर्भूयावस्थितः, 'तस्य' प्रजा- पतेः, मनोमध्ये सर्वम् 'इदं' जगत्, 'सृजेयम्', इत्येवं 'कामः', उदपद्यत । यस्मात् प्रजापतेर्वाक्शरीरप्रवृत्तिभ्यां पूर्वं सर्व- प्रवृत्तिहेतुः कामो मनस्याविरभूत् । 'तस्मात्', प्रजापति सन्ततावुत्पन्नः सर्वः 'पुरुषः', इदं कार्यं करिष्यामीत्यादौ 'मनसा', चिन्तयति, 'तत्' तथैव, 'वाचा वदति', 'कर्मणा'