तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 148, कुल 940 में से
संदर्भ में पढ़ें१ प्रपाठके २३ अनुवाकः । १४३
भव॑ति । य ए॒वं वेद॑^(३) । ^{(४)}स तपो॑ऽतप्यत । स तप॑- स्त॒प्त्वा । शरी॑रम॒धूनुत । तस्य॒ यन्मा॒ꣳसमासी॑त् । ततो॑- ऽरुणाः के॒तवो॒ वात॑रश॒ना ऋष॑य॒ उद॑तिष्ठन् ॥ २ ॥ ये नखा॑: । ते वै॑खान॒साः । ये बाला॑: । ते बा॑लखि-
'इति'शब्दो मन्त्रसमाप्तौ । अनेन मन्त्रेणैकामष्टिकामुपदध्यात् ॥ तथा च बौधायन आह । 'कामरुदय इति सङ्कल्पवती- मिति' ॥
यथोक्तकाममाहात्म्यवेदनं प्रशंसति । ^{(३)}"उपेनं ० य एवं वेद"^{(३)} इति । 'यः' पुमान्, काममाहात्म्यं 'वेद', स पुमान् 'यत्कामः' यद्विषयकामनावान्, 'भवति', 'तत्' वस्तु, 'एनं' वेदितारम्, 'उपनमति' प्राप्नोति । देशकालयोः सामीप्यविवक्षया द्वावुपशब्दावुक्तौ ॥
कामानन्तरभाविनीं सृष्टिं दर्शयति । ^{(४)}"स तपोऽतप्यत ० सोऽपाम्"^{(४)} इति । 'सः' प्रजापतिः, सृष्टिं कामयित्वा 'तपः', कृतवान् । नात्र तप उपवासादिरूपं, किन्तु स्रष्टव्यं वस्तु कीदृशमिति पर्यालोचनरूपं । अतएवाथर्वणिका आमनन्ति । 'यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तपः' इति । 'सः' प्रजापतिः, 'तपः' पर्यालोचनरूपं, कृत्वा स्रष्टव्यविशेषं निश्चित्य, स्वकीयं 'शरीरं', 'अधूनुत' कम्पितवान् । 'तस्य' कम्पनस्य शरीरस्य, 'यन्मांसं', अस्ति, तस्मान्मांसादरुणादिनामकास्त्रिविधाः 'ऋष-