भारतकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 173, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 173

१६८ तैत्तिरीये आरण्यके

सोम॑स्य तृ॒प्तास॑ः । सूर्य्ये॑ण॒ सयुजो॑षसः^{(६)} । ^{(७)}युवा॑सु॒ वासा॑:^{(७)} । ^{(८)}अ॒ष्टाच॑क्रा नव॑द्वा॒रा ॥ २ ॥ दे॒वानां॒ पूरयो॑ध्या । तस्याँ॑ हिर॑ण्मयः॒ कोश॑ः । स्व॒र्गो लो॒को ज्योति॑षाऽऽवृ॑तः^{(८)} । ^{(९)}यो वै तां ब्रह्म॑णो

'अग्निं' आरुणकेतुकं, 'इच्छध्वं' । कीदृशा ऋत्विजः, 'राज्ञः' राजमानस्य, 'सोमस्य', पानेन 'तृप्ताः', 'सूर्येण', 'सयुजोषसः' समानप्रीतयः, यद्यप्येवंविधो मन्त्र अनुष्ठेयार्थस्येष्टकोपधानस्य प्रकाशको न भवति तथाप्येतदर्थानुस्मरणेन कश्चिददृष्टातिशयो द्रष्टव्यः ॥

अथ चतुर्थ्याः प्रतीकं दर्शयति। ^{(७)}“युवा सुवासाः”^{(७)} इति। सोऽयं मन्त्रो यजन्ति त्वामध्वरे देवयन्त इत्यनुवाके व्याख्यातः ॥

अथ पञ्चमीमाह । ^{(८)}“अष्टाचक्रा • ज्योतिषावृतः”^{(८)} इति। पूरिति शरीरमुच्यते, 'देवानां' इन्द्रादीनां, 'पूः,' 'अष्टाचक्रा' चक्रवदावरणभूतास्त्वगसृङ्मांसमेदोऽस्थिमज्जाशुक्रो- जोरूपाः अष्टौ धातवो यस्याः सेयं 'अष्टाचक्रा', शिरोवर्त्तिभिः सप्तभिर्द्वारैरधोवर्त्तिभ्यां द्वाराभ्यामुपेता 'नवद्वारा', 'अयोध्या' कर्मगतिमन्तरेण केनापि प्रहर्त्तुमशक्या, 'तस्यां' पुरि, 'हि- रण्मयः' सुवर्णनिर्मितपदार्थसदृशः, 'कोशः', अवकाशरूपः, 'स्वर्गः' सुखमयः, 'लोकः' स्थानविशेषः, 'ज्योतिषा' भासकेन जीवचैतन्येन, 'आवृतः' परिवेष्टितः, वर्त्तते ॥