तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 180, कुल 940 में से
संदर्भ में पढ़ें१ प्रपाठके २७ अनुवाकः । १७५
र्वण॑म्मे अस्तु॑ । स॒ह्येवास्म॑ स॒नात॑नः । इति नाको॑ ब्रह्म॑श्र॒वौ रा॒यो धनं॑ । पु॒त्रानापो॑ दे॒वीरि॒हाहि॑ता⁽१०⁾ ॥ ॥ ६ ॥
पुरं॑, नव॑द्वारा, ब्र॒ह्मा, च॒, व्यक्ता॑ꣳ, श॒रदः॑, अ॒ष्टौ च॑ ॥ अनु० २७ ॥
अथ सप्तदशीमाह । (१०)“कामप्रयवणं ॰ पुत्रानापोदेवीरिहाहिता”(१०) इति । प्रकर्षेण यवनं मिश्रीकरणं प्रयवणं कामानां प्रयवणं येन ब्रह्मणा भवति तत् ‘कामप्रयवणं’, ‘मे’ मम, ब्रह्मप्रकामप्रापकं ‘अस्तु’ । ‘हि’ यस्मात्, अतः ‘सनातनः’ अनादिसिद्धः, ‘स एव’ परमात्मैव, ‘अस्मि’, इत्यतः कारणात् ‘नाकः’ दुःखरहित स्थानविशेषः, ‘ब्रह्मश्रवः’ ब्रह्मविषयवाक्यश्रवणं, ‘रायः’ हिरण्यादयः, धनं प्रीतिसाधनं स्त्रीपुत्रादिचेत्येतत् सर्वं ममास्तु इति शेषः । ‘देवीः’ देवनशीलाः, ‘आपः’ यूयमोष्टकाः, ‘इह’ अस्मिन् कर्मणि, ‘पुत्रान्’, ‘आहिता’ धत्त सम्पादयत ॥
इति सायनाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके प्रथमप्रपाठके सप्तविंशोऽनुवाकः ॥ २७ ॥