भारतकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 181, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 181
१७६तैत्तिरीये आरण्यके

अथ अष्टाविंशोऽनुवाकः ।

⁽१⁾विशी॒र्णीं गृ॒ध्रशी॒र्णीञ्च॑ । अपे॒तो निर्ऋ॑तिꣳहथ । परिबाधꣳ॑ श्वेतकु॒क्षं । निज॒ङ्गꣳ॑ श्वलोद॑रं⁽१⁾ । ⁽२⁾स ता॒न्वाच्या॑र्या स॒ह । अग्ने॒ नाशय॒ संदृ॑शः । ई॒र्ष्यासू॒ये


अथ अष्टाविंशोऽनुवाकः ।

कल्पः । विशीर्णीमिति द्वे इति । तत्र प्रथमामाह ।

(१)“विशीर्णीं ॰ श्वलोदरम्”(१) इति । हे अग्ने 'विशीर्णीं' शिरोरहितां, 'गृध्रशीर्णीञ्च', गृध्रसमानशिरोयुक्तां च, 'निर्ऋतिं' राक्षसीम्, अलक्ष्मीम्, 'इतः' अस्मात् स्थानात्, 'अपहथ' अपजहि, परिबाधादिनामका निर्ऋतिसम्बन्धिनः पुरुषा अप्यपजहि 'परिबाधपरितः' 'बाधकं' श्वेतकुक्षिः, श्वेतवर्णकुक्षियुक्तं 'निजङ्गं' न्यग्भूतजङ्घायुक्तं, 'श्वलोदरं' शुक्लवर्णमिश्रितोदरयुक्तं ॥

अथ द्वितीयामाह । (२)“स तान्वाचार्यया सह ॰ अग्नेनाशय संदृशः”(२) इति । वाच्यानि जनैर्निन्द्यानि, पूर्वोक्तपरिबाधादिरूपाण्यपत्यानि तान्यात्मन इच्छतीति 'वाच्यार्या' परिबाधादीनां माता काचिदलक्ष्मी, अस्मदुपद्रवोपायं सम्यक् पश्यन्तीति 'संदृशः', परिबाधादयः हे 'अग्ने', 'स', त्वं 'तान्' परिबाधादीन्, 'नाशय' मात्रासह विनाशय । किञ्च ये