भारतकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 19, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 19

१४ तैत्तिरीये आरण्यके

(९)शु॒क्लकृ॒ष्णे सं॑वत्स॒रस्य॑ । दक्षि॑णवा॒मयोः॒ पार्श्व॑योः । तस्यै॒षा भ॑वति(९) । (१०)शु॒क्रं ते॑ अ॒न्यद्य॑ज॒तं ते॑ अ॒न्यत् । विषु॑रूपे॒ अह॑नी॒ द्यौरि॑वासि । विश्वा॒ हि मा॒या अव॑सि


तदवयवा ऋतवः तेषु च सर्वेषु कालेषु प्राणिशरीराप्युत्पद्यन्ते इत्येवं भ्रान्तो व्यवहारः प्रवर्त्तते। परमार्थतस्तु शास्त्रदृष्ट्या पर्यालोच्यमानो 'जल्पितमेव', 'दिह्यते' संवत्सरायनादिनाममात्रमुपचीयते न त्वभिधेयः कश्चिदर्थोऽस्ति। अत एवोपनिषत्सु वाचारम्भणविकारो नामधेयं । नेह नानास्ति किञ्चन मायामात्रमिदं द्वैतमिति व्यवहारस्य मिथ्यात्वं बहुशस्त्वाम्नायते। एवमष्टौ मन्त्रा अभिहिताः॥

अथ ब्राह्मणमुच्यते। (९)“शुक्लकृष्णे ॰ तस्यैषा भवति”(९) इति। संवत्सरस्य व्यावहारिकस्य मुख्यस्य कालस्य दक्षिणवामपार्श्वस्थानीययोरुभयोः ‘शुक्लकृष्णे’ तथाविधवर्णयुक्ते अहोरात्रे, विद्येते ‘तस्य’ एतस्यार्थस्य प्रतिपादिका काचिदृग्विद्यते॥

अथ तामृचमाह। (१०)“शुक्रं ते अन्यद्यजतं ॰ पूषन्निह रातिरस्तु”(१०) इति। हे ‘पूषन्’ जगतः पोषक संवत्सर, ‘ते’ तव, अंशरूपं ‘शुक्रं’ श्वेतवर्णं, ‘अन्यत्’ अहराख्यं वस्तु पृथगेवास्ति, तथा ‘ते’ तव, ‘यजतं’ यजनीयं, निशितायां निर्वपेदित्यादियागोपलक्षितं रात्रिम्, ‘अन्यत्’ पृथगेवास्ति, तदेवं ‘विषुरूपे’ परस्परविलक्षणरूपे, ‘अहनी’ अहोरात्रे, वर्त्तेते तयोर्मध्ये ‘द्यौः’,