भारतकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 245, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 245

२४० तैत्तिरीये आरण्यके

यजु॑: साम॑ वा॒ तद्ब्र॑ह्मय॒ज्ञः संति॑ष्ठते⁽६⁾। ⁽७⁾यदह॒चोऽधी॑ते॒ पय॑सः कू॒ल्या अ॑स्य पि॒तॄन् स्व॒धा अ॒भिव॑हन्ति॒ यद्य- जूꣳ॑षि घृ॒तस्य॑ कू॒ल्या यत्सामा॑नि॒ सोम॑ एभ्यः पवते॒ यदथ॑र्वाङ्गिर॒सो मधो॑: कू॒ल्या यद्ब्राह्म॑णा॒नीति॑हा॒सान् पु॒राणा॑नि क॒ल्पान् गाथा॑ नारा॒शꣳसी॒र्मेद॑सः कू॒ल्या अ॑स्य पि॒तॄन् स्व॒धा अ॒भिव॑हन्ति⁽७⁾। ⁽८⁾यदह॒चोऽधी॑ते


ब्रह्मयज्ञस्य लक्षणमाह । (६)“यत् स्वाध्यायं ० ब्रह्मयज्ञः संतिष्ठते”(६) इति । स्वस्यसाधारणेन पितृपितामहादिपर- म्परया प्राप्ता वेदशाखा 'स्वाध्यायः'। तत्र विद्यमानमृगा- दीनामन्यतममेकमपि वाक्यमधीयीत इति 'यत्', सोऽयं 'ब्रह्मयज्ञः', तावतैव समाप्यते ॥

तत्र विशेषाकारेणाध्ययनं पृथक् पृथक् प्रशंसति । (७)“य- दृचोऽधीते ० अभिवहन्ति”(७) इति । कूलमर्हन्तीति 'कूल्याः' महानद्यः, ऋगध्ययनेन क्षीरपूर्णा महानद्यः स्वधाकारेण दत्तं हविर्भूत्वा 'पितॄन्', अभिलक्ष्य 'प्रवहन्ति'। तथा यजु- रध्ययनेन घृतपूर्णा महानदीप्रवाहः सामाध्ययनादिभ्यः पितृभ्यः सोमो धारया युक्तः 'पवते' प्रवहति, एवमथर्वाङ्गि- रसामध्ययनेन मधुपूर्णा नद्यः 'प्रवहन्ति' ॥

ब्राह्मणाध्ययनेन मांससम्बन्धि नीरसप्रवाहः पितृस्तृप्त्या