भारतकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 247, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 247
२४२तैत्तिरीये आरण्यके

अथ एकादशोऽनुवाकः।

(१)ब्रह्म॑य॒ज्ञेन॑ य॒क्ष्यमा॑णः प्राच्यां दिशि ग्रामा॒दच्छ॑दि-
दर्श उदीच्यां॑ प्रागु॒दीच्यां वोदि॑त आ॒दि॒त्ये द॑क्षिणत
उप॑वीत्योपवि॒श्य हस्ता॑वव॒निज्‍य॑ त्रिराचा॑मेद्द्विः परि॑-
मृज्य॒ सकृ॑दुप॒स्पृश्य॒ शिर॑श्चक्षुषी नासि॑के॒ श्रोत्रे॒ हृद॑य-
मालभ्य॑^(१) ^(२)यत्त्रिराचा॑म॑ति॒ तेन॒ ऋचः॑ प्रीणाति॒ यद्द्विः॑
परि॑मृज॑ति॒ तेन॒ यजूं॑षि॒ यत्स॒कृदुप॑स्पृश॑ति॒ तेन॒ सा-
मा॑नि॒ यत्स॒व्यं पा॒णिं पादौ प्रोक्ष॑ति॒ यच्छिर॑श्चक्षुषी ना-


अथ एकादशोऽनुवाकः।

दशमे ब्रह्मयज्ञोऽभिहितः। एकादशे तत्प्रयोगोऽभिधी-
यते। (१)“ब्रह्मयज्ञेन ० हृदयमालभ्य”(१) इति। यः पुमान्
ब्रह्मयज्ञं करिष्यति सोऽयं 'ग्रामात्', प्राचीमुदीचीं ऐशानीं वा-
दिशं गच्छेत्*। गृहस्योपरि आच्छादनार्थानि तृणकटादीनि
छर्दीषि यावति दूरे तानि न दृश्यन्ते तावद्दूरम् 'अच्छदिद्दर्शः',
तत्र गत्वा सूर्ये अभ्युदिते सति प्रथमानुवाकोक्तप्रकारेण यज्ञो-
पवीतं कृत्वा† शुद्धप्रदेशे 'उपविश्य', हस्तद्वयं पूर्वं शुद्धमप्ये-
तदङ्गत्वेन पुनः प्रक्षाल्योदकं त्रिः पिबेत्‡ 'द्विः परिमृज्य',


* गच्छन् इति तै० पाठः।
† गृहीत्वा इति तै० पाठः।
‡ ततः चोष्ठौ इत्यधिकः तै० पाठः।

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद) · पृष्ठ 247, कुल 940 में से · BharatKosha