भारतकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 251, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 251

२४६ तैत्तिरीये आरण्यके

स्मि॑न् दे॒वा अधि॒ विश्वे॑ निषे॒दुर्यस्तन्न वेद॒ किमृचा॑ क॑रिष्यति॒ य इत्तद्वि॒दुस्त इ॒मे समा॑सत॒ इति॑⁽६⁾ ⁽७⁾चो-

विशेषेण रचके, ‘अक्षरे’ प्रणवे, ‘निषेदुः’ आश्रिताः। अत एव कठशाखायामधीयते । सर्वे वेदा यत्पदमामनन्ति तपांसि सर्वाणि च यद्वदन्ति। यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं सङ्ग्रहेण ब्रवीम्योमित्येतदिति। न केवलमृच एव तस्मिन् प्रणवे समाश्रिताः किन्तु ‘विश्वे’ सर्वे, ‘देवाः’, अपि ‘यस्मिन्’ प्रणवाक्षरे, ‘अधिनिषेदुः’ अधिकत्वेन निषण्णाः। अतएवोत्तरतापनीये देवानां परमात्मध्यानार्थं प्रणवपर्यवसानमुक्तं, आत्मानमनुष्टुभान्विष्य प्रणवेनैव तस्मिन्नवस्थिता इति। अनेनैव प्रकारेण ऋचो देवाश्च ‘यस्मिन्’ प्रणवे, ‘निषेदुः’, ‘तत्’ प्रणवाक्षरं, ‘यो न वेद’ स पुमानधीयानोऽपि* ‘ऋचा किं करिष्यति’, न खलु वृषरहितां केवलां कृषिं केचित् प्रार्थयन्ते। ‘य इत्’ ये पुनर्महात्मानः, ‘तत्’ प्रणवाक्षरं, ‘विदुः’, ‘ते’ महर्षयः, ‘इमे’ परिदृश्यमानाः परमहंसाः, ‘समासते’ सम्यगवतिष्ठन्ते। ऐहिकामुष्मिकविषयक्लेशरहिताः सुखिनो वर्त्तन्ते। तांस्तु परमहंसान् जाबालशाखाध्यायिन उदाहरन्ति। तत्र परमहंसा नाम संवर्त्तकारुणिश्वेतकेतुदुर्वासामुनिदाच्यजडभरतदत्तात्रेयरैवतकप्रभृतय


* सप्रणवमधीत्यापि इति तै० पाठः ।