भारतकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 277, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 277
२७२तैत्तिरीये आरण्यके

^(८)वरो॒ दक्षि॑णा॒ वरे॑णै॒व वर॑ꣳ स्पृणोत्यात्मा हि वरः॑॥^(८)
॥ १८ ॥


अथ एकोनविंशोऽनुवाकः ।

^(१)भूः प्रप॑द्ये॒ भुवः॒ प्रप॑द्ये॒ स्वः॑ प्रप॑द्ये॒ भूर्भुवः॒ स्वः॑ प्रप॑द्ये॒ ब्रह्म॑ प्रप॑द्ये ब्रह्म॑को॒शं प्रप॑द्ये॒ऽमृतं॑ प्रप॑द्ये॒ऽमृत॑को॒शं प्रप॑द्ये


ऋहोमाभिमन्त्रणे कुर्यात्, स पुमान् स्वात्मानं शोधयित्वा स्वात्मनि सर्वं ‘आयुः’, सम्पादयति ॥

तत्रोभयत्र दक्षिणां विधत्ते । ^(८)“वरो दक्षिणा ० स्पृणोत्यात्मा हि वरः”^(८) इति । पूर्ववद्व्याख्येयं ॥

इति सायनाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके द्वितीयप्रपाठकेऽष्टादशोऽनुवाकः ॥ १८ ॥


अथ एकोनविंशोऽनुवाकः ।

इदानीं सर्वयागारम्भेषु आयुष्यकरं ब्रह्मोपस्थानं विधित्सुस्तन्मन्त्रमाह । *अथवा सायङ्कालीनसन्ध्यावन्दनादूर्ध्वं ध्रुवमण्डले परब्रह्मोपस्थानार्थं मन्त्रमाह । ^(१)“भूः प्रपद्ये ० कश्यपस्य”^(१) इति । य एते पृथिव्यादयस्त्रयो लोका यश्च येषां

* अथवेत्यादिपाठो तै० पुस्तके नास्ति ।