भारतकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 276, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 276

२ प्रपाठके १८ अनुवाकः । २७१

मेति॑^(४) । ^{(५)}प्रति॑हास्मै म॒रुतः॑ प्रा॒णान् द॑धति॒ प्रतीन्द्रो॒ बलं॒ प्रति॒ बृह॒स्पति॒र्ब्रह्म॑वर्च॒सं प्रत्य॒ग्निरित॑रः॒ सर्व॑ꣳ॒ सर्व॑त॒नू॒र्भूत्वा॒ सर्व॒मायु॑रेति^(५) । ^{(६)}त्रि॒र॒भि॒मन्त्र॑येत त्रिष॒त्या हि दे॒वाः^(६) । ^{(७)}योऽपू॑त इव म॒न्येत॑ स इ॒त्थं जु॑हुयादि॒त्य॒भि॒मन्त्र॑येत पु॒नीत॑ ए॒वात्मान॒मायु॑रे॒वात्मन् ध॑त्ते^(७) ।

मेति”^(४) इति । ‘मरुतः’, देवाः प्राणैर्विशीर्णं ‘मां’, ‘आसिञ्चन्तु’, पुनः सम्भूय सिक्तमाप्यायितं कुर्वन्तु । एवमिन्द्रादिषु योज्यं । किञ्च ‘आयुषा’, ‘बलेन’, वयःसंयोज्य सम्पूर्णायुर्युक्तं कुर्वन्तु ॥

अनेनोपस्थानेन पूर्वोक्तदोषसमाधानं दर्शयति । ^{(५)}“प्रतिहास्मै ॰ सर्वमायुरेति”^(५) इति । ‘अस्मै’ यजमानार्थं, ‘मरुतः’, देवाः ‘प्राणान् प्रतिदधति’ प्रतिष्ठापयन्ति* एवमिन्द्रादयोऽपि । ततोऽयं ‘सर्वतनुः’ सम्पूर्णसर्वावयवः, ‘भूत्वा’, सम्पूर्णम् ‘आयुः’, प्राप्नोति ॥

अभिमन्त्रणावृत्तिं विधत्ते । ^{(६)}“त्रिरभिमन्त्रयेत ॰ त्रिषत्या हि देवाः”^(६) इति । त्रिवारानुष्ठाने सत्यमिदं न तु कपटरूपमिति विश्वासो येषां देवानान्ते ‘त्रिषत्याः’ ॥

उक्तं प्रायश्चित्तं पापान्तरेऽप्यतिदिशति । ^{(७)}“योऽपूतः ॰ आत्मन्धत्ते”^(७) इति । निश्चितस्यावकरस्याभावे कस्यापि पापस्य सम्भावनयाहं ‘अपूतः’, इति ‘यः’, शङ्कते ‘सः’, अपि पूर्वो-


* पुनरर्पयन्ति इति तै० पाठः ।

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद) · पृष्ठ 276, कुल 940 में से · BharatKosha