भारतकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 275, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 275
२७०तैत्तिरीये आरण्यक

वा॒स्यायाᳵरा॒त्र्याम॒ग्निं प्र॒णीयो॑पसमा॒धाय॑ द्विराज्य॑स्योप॒घातं॑ जुहोति कामा॒वकी॑र्णोस्म्यवकी॒र्णो॑स्मि काम॒ कामा॑य॒ स्वाहा॑ कामा॒भिद्रु॑ग्धोस्म्य॒भिद्रु॑ग्धोस्मि काम॒ कामा॑य॒ स्वाहेत्य॒मृतं॒ वा आज्य॑म॒मृत॑मेवा॒त्मन्ध॑त्ते^(२) ।
^(२)हु॒त्वा प्र॑यताञ्जलिः क॒र्वाति॒र्यङ्ङ॒ग्निम॒भिम॑न्त्रयेत^(३) ।
^(४)सं मा॑सिञ्चन्तु म॒रुत॒स्समिन्द्रः॒ सं बृह॒स्पति॑: । सं मा॒यम॒ग्निः सि॑ञ्च॒त्वायु॑षा च॒ बले॑न॒ चायु॑ष्मन्तं करोत


धत्ते”(२) इति। ‘आज्यस्योपघातं’ आज्यमुपहत्योपहत्य सकृत् सकृदादाय ‘द्विर्जुहोति’। तत्र प्रथममन्त्रस्यार्थः। हे ‘कामदेव’, ‘अवकीर्णोऽस्मि’ त्वत्प्रेरणया व्रतभ्रंश लक्षणमवकरं प्राप्तोऽस्मि। पुनरुक्तिरनुतापप्रकटनार्था। अवकरपरिहारार्थं ‘कामाय’, देवाय स्वाहुतमिदमस्तु। ‘अभिद्रुग्धः’ व्रतभ्रंश लक्षणमभिद्रोहं कृतवान्, ‘अस्मि’, अन्यत् प्रथममन्त्रवत्। आज्यप्रशंसनमत्र आज्यस्य देवप्रियत्वेन अमृतत्वात् तद्धोमेनावकरपरिहाररूपं ‘अमृतं’, स्वात्मनि सम्पादयति ॥

उत्तरकर्त्तव्यं विधत्ते। (२)“हुत्वा प्रयताञ्जलिः ० मन्त्रयेत”(३) इति। करयोः सम्पुटीकरणमञ्जलिः तस्य प्रयतत्व निष्किञ्चत्वं ‘कवार्तिर्यक्’ ईषत्तिरश्चीनशरीरः, नात्यन्तमभिमुखोनापि पराङ्मुखः अपि तु पार्श्वे स्थितः ॥

अभिमन्त्रणे मन्त्रं दर्शयति। (४)“सं मासिञ्चन्तु ० करोत