भारतकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 274, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 274

२ प्रपाठके १८ अनुवाकः । २६९

अथ अष्टादशोऽनुवाकः ।

(१)क॒ति॒धाऽव॑की॒र्णी प्रवि॑शति चतु॒र्धेत्या॑हुर्ब्रह्मवा॒दिनो॑ म॒रुतः॑ प्रा॒णैरिन्द्रं॒ बले॑न॒ बृह॒स्पतिं॑ ब्रह्मवर्च॒सेना॒ग्निमे॒वेतरे॑ण॒ सर्वे॑ण तस्यै॒तां प्राय॑श्चित्तिं विदाञ्चकार सु॒देवः॑ काश्य॒पः^(१) । ^(२)यो ब्र॑ह्मचा॒र्यव॑कि॒रेद॒मा-


अथ अष्टादशोऽनुवाकः ।

प्रायश्चित्तार्थस्वाध्यायप्रसङ्गादवकीर्णिप्रायश्चित्तमुच्यते । तद्विधानार्थमादौ प्रस्तौति । ^(१)“कतिधावकीर्णी ॰ सुदेवः-काश्यपः”^(१) इति । अवकीर्णं भग्नव्रतं ब्रह्मचारिणो रेतस्कन्दनादिकं तद्यस्यास्ति सः ‘अवकीर्णी’, तादृशः पुमान् स्वकीयैरेवावयवैर्देवान् ‘प्रविशति’ देवास्तदीयानवयवान् विनाशयन्ति, तच्च कतिभिः प्रकारैरेवं प्रविशतीत्येवमभिज्ञस्य प्रश्नः । तत्राभिज्ञाः ‘ब्रह्मवादिनः’, चतुर्भिः प्रकारैरित्युत्तरमाहुः । त एव प्रकाराः स्पष्टीक्रियन्ते । स्वकीयैः ‘प्राणैर्मरुतः’, देवान् ‘प्रविशति’ । ‘बलेनेन्द्रं प्रविशति’, ‘ब्रह्मवर्चसेन’, ‘बृहस्पतिं’, ‘प्रविशति’ । ‘इतरेण सर्वेण’ वागादिना ‘अग्निमेव प्रविशति’ । मरुदादयोऽस्य प्राणानपहरन्तीत्यर्थः । कश्यपस्य पुत्रः सुदेवाख्यः कश्चिदृषिस्तस्यैतस्य दोषस्य प्रायश्चित्तं निश्चितवान् ॥

तदिदं प्रायश्चित्तं विधत्ते । ^(१)“यो ब्रह्मचार्य ॰ आत्मन्-