भारतकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 273, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 273

२६८ तैत्तिरीये आरण्यके

स॒द् आस॑न॒ꣳ सुत्या॒ वाग्जु॒हूर्मन॑ उप॒भृद्धृति॑र्ध्रु॒वा प्रा॒- णो ह॒विः सामा॑ध्व॒र्युः स वा ए॒ष य॒ज्ञः प्रा॒णद॑क्षिणोऽन॑- न्तदक्षिणः॒ समृ॑द्धतरः^(१) ॥ १७ ॥


देशरूपं 'स्थानं', ता एव 'उपसदः', यत् तत्रोपवेशनं सैव 'सुत्या'. सोमाभिषवः, येयमस्य 'वाक्', सेयं 'जुहूः', यत् 'मनः', सैव 'उपभृत्', या 'धृतिः', अनुष्ठेयार्थावधारणा, सैव 'ध्रुवा', यः 'प्राणः' तदेव 'हविः', यत् 'साम' गायनं, स एव 'अध्वर्युः', सोऽयं भावनारूपः 'यज्ञः', प्राणदक्षिणः' देहान्ते प्राणपरित्याग एव दक्षिणास्थानीयः, अतोऽनन्तदक्षिणत्वादयं यज्ञोऽतिशयेन समृद्धः, * उक्तयज्ञसमाप्तौ प्रभूतमन्नं देयमिति तात्पर्यार्थः ॥

इति सायनाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजुरार- ण्यके द्वितीयप्रपाठके सप्तदशोऽनुवाकः ॥ १७ ॥


* सेयं भावना याग एव दक्षिणास्थानीयः 'प्राणः', अतो अनन्त- दक्षिणत्वादयं 'यज्ञः समृद्धतरः'। प्राणो ह्यनन्तः सर्वेभ्योऽपि वस्तुभ्यः अतिशयेन प्रियत्वात् सेयं भावनारूपसम्पन्नस्य दक्षिणोक्ता। अथवा प्रायश्चित्तार्थं पाठरूपत्वस्य 'स एष यज्ञः', 'प्राणदक्षिणः', प्राणस्थिति- हेतुरन्नमेव तत्र दक्षिणा एतत् सर्वैरपेक्षितत्वादनन्तमित्युच्यते। अनन्तदक्षिणत्वादेव अयमतिशयेन समृद्धः, उक्तयज्ञसमाप्तौ च प्रभूत- मन्नं देयमिति तात्पर्यार्थः। इति तै० पाठः।